ऊरुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुजः पुं, (ऊरोर्जायते इति । ऊरु + जन् + ड ।) बैश्यः । स तु ब्रह्मण ऊरुभ्यां जातः । इत्यमरः ॥ (यथा, विष्णुपुराणे । १ । ६ । ४ । रजसा तमसा चैव समुद्रिक्तास्तथोरुजाः” । भृगुवंशीय ऋषिभेदः । स च और्व्व इति नाम्ना ख्यातः । तस्य जन्मकथा और्व्वशब्दे द्रष्टव्या ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुज पुं।

वैश्यः

समानार्थक:ऊरव्य,ऊरुज,अर्य,वैश्य,भूमिस्पृश्,विश्

2।9।1।1।2

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

पत्नी : वैश्यपत्नी

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुज¦ पुंस्त्री ऊरोर्जायते जन--ड। वैश्ये स्त्रियां जातित्वात्ङीष्।

२ ऊरुजातमात्रे त्रि॰ ऊरुजातोरुजन्मादयोप्युभयत्र।

३ भृगुवंश्ये और्वे ऋषिभेदे पु॰ तस्य ऊरुतोजन्मकथा भा॰आ॰

१७

८ ,

७९ पु॰
“कृतवीर्य इति ख्यातो बभूव पृथिवी-पतिः। याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः। सतानग्रभुजस्तात। धान्येन च घनेन च। सोमान्ते तर्पया-तास विपुलेन विशाम्पते!। तस्मिन्नृपतिशार्द्दूले स्वर्यातेऽथकथञ्चन। वभूव तत्कुलेयान। द्रव्यकार्यमुपस्थितम्। भृगू-णान्तु धनं ज्ञात्वा राजानः सर्व्व एव ते। याचिष्णवो-ऽभिजम्मुस्तांस्ततो भार्गवसत्तमान्। भूमौ तु निदधुःकेचित् भृगवो धनमक्षयम्। ददुः केचिद्द्विजातिभ्योज्ञात्वा क्षत्त्रियतो भयम्। भृगवस्तु ददुः केचित्तेषां वित्तंयथेप्सितम्। क्षत्त्रियाणां तदा तात! कारणान्तरदर्श-नात्। ततो महीतलं तात! क्षत्रियेण यदृच्छया। खन-[Page1385-b+ 38] ताधिगतं वित्तं केनचिद्भृगुवेश्मनि। तद्वित्तं ददृशुःसर्वे समेताः क्षत्रियर्षभाः। अवमन्य ततः क्रोधाद्भृगूं-स्ताञ्छरणागतान्। निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः। आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम्। तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा। भृगुपत्न्योगिरिं दुर्गं हिमवन्तं प्रपेदिरे। तासामन्यतमा गर्भं भ-याद्दध्रे महौजसम्। ऊरुणैकेन वामोरूर्भर्त्तुः कुलवि-वृद्धये। तद्गर्भमुपलभ्याशु व्राह्मण्यास्तु भयार्द्दिता। गत्वैका कथयामास क्षत्रियाणामुपह्वरे। ततस्ते क्ष-त्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः। ददृशुर्ब्राह्मणींतेऽथ दीप्यमानां स्वतेजसा। अथ गर्भः स भित्त्वोरुंब्राह्मण्या निर्जगाम ह। मुष्णन् दृष्टीः क्षत्रियाणां म-ध्याह्न इव भास्करः। ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषुबभ्रमुः। ततस्ते मोहमापन्ना राजानो नष्टदृष्टयः। ब्रा-ह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्। ऊचुश्चैनांमहाभागां क्षत्रियास्ते विचेतसः। ज्योतिःप्रहीणा दुः-खार्त्ताः शान्तार्च्चिष इवाग्नयः। भगवत्याः प्रसादेनगच्छेत् क्षत्रं सचक्षुषम्। उपरम्य च गच्छेम सहिताःपापकर्मणः। सपुत्त्रात्वं प्रसादं नः मर्त्तुमर्हसि शो-भने!। पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि। ब्राह्म-ण्युवाच। नाहं गृह्णामि वस्ताता! दृष्टीर्नास्मि रुषान्विता। अयन्तु भार्गवो नूनसूरुजः कुपितोऽद्य वः। तेन चक्षूंषिवस्ताता! व्यक्तं कोपान्महात्मना। स्मरता निहतान्बन्धूनादत्तानि न संशयः। गर्भानपि यदा नूनं भृगूणांघ्नत पुत्त्रकाः!। तदायमूरुणा गर्भो मया वर्षशतं धृतः। षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह। विवेश भृगुवं-शस्य भूयः प्रियचिकीर्षया। सोऽयं पितृबधाद्व्यक्तंक्रोधान्धो हन्तुमिच्छति। तेजसा तस्य दिव्येन चक्षूंषिमुषितानि वः। तमिमं ताता। याचध्वमौर्वं मम सुतो-त्तमम्। अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रमोक्ष्यति। वसिष्ठ उवाच। एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादञ्च चकार सः। अनेनैव चविख्यातो नाम्ना लोकेषु सत्तमः। स और्व इति वि-प्रर्षिरूरुं भित्त्वा व्यजायत। चक्षूंषि प्रतिलब्ध्वा च प्र-तिजग्मुस्ततो नृपाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुज¦ m. (-जः) A Vaisya or man of the third tribe. E. ऊरु and ज born; from the thigh of BRAHMA.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुज/ ऊरु--ज mfn. born from the thigh MBh.

ऊरुज/ ऊरु--ज m. a वैश्य(supposed to be born from ब्रह्मा's thigh See. RV. x , 90 , 12 Mn. i , 31 , etc. ) L.

ऊरुज/ ऊरु--ज m. N. of the ऋषिऔर्व(See. )

"https://sa.wiktionary.org/w/index.php?title=ऊरुज&oldid=493655" इत्यस्माद् प्रतिप्राप्तम्