ऊर्ज्ज

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्ज, क जीवने । बले । इति कविकल्पद्रुमः ॥ (चुरां-परं-अकं-सेट् ।) दीर्घादिः । क ऊर्जयति जनो जीवति बली स्याद्वेत्यर्थः । इति दुर्गादासः ॥

ऊर्ज्जम्, क्ली, (उर्ज्ज्यते जीव्यतेऽनेत । ऊर्ज्ज + घञ् ।) ञलम् । इति शब्दरत्नावली ॥ (यथा, भागवते । ४ । २४ । ३८ ॥ “नम ऊर्ज इषे एय्याः पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्व्वरसात्मने” ॥)

ऊर्ज्जः, पुं, (ऊर्ज्जयति उत्साहयति जिगीषून् इति । ऊर्ज्ज + णिच् + अच् ।) कार्त्तिकमासः । उत्- साहः । बलम् । (यथा, ऋग्वेदे । १ । २६ । १ । “वसिष्ठा हि मिहेध्य वस्त्राण्यूर्जां पते” । “ऊर्जां बलपराक्रमादीनाम्” । इति भाष्यम् ।) प्राणनम् । इति मेदिनी ॥ (वीर्य्यम् । यथा, मनुः । २ । ५५ । “पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति” ॥ “यस्मात् पूजितमन्नं सामर्थ्यं वीर्य्यं च ददाति” ॥) इति कुल्लुकभट्टः ॥) कान्तिकनामसंवत्सरः ॥ (स्वारोचिषस्य मनोः पुत्त्रभेदः । यथा हरिवंशे ७ । १४ । “प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च । स्वारोचिषस्य पुत्त्रास्ते मनोस्तात महात्मनः” ॥ स्त्री, हिरण्यगर्भकन्या । यथा, हरिवंशे ७ । १७ । “हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्ज¦ बलाधाने जीवने वा अदन्तचु॰ पक्षे भ्वा॰ अक॰ तत्-करणे सक॰ सेट्। उर्ज्जवत्। नाभयो वाजिनमूर्जयन्ति” ऋ॰

९ ,

८९ ,

४ ,
“यो ह्येबान्नमत्ति स प्राणिति तमूर्ज्ज-यति” शत॰ ब्रा॰

७ ,

५ ,

१ ,

१८ ,
“तां वो देवाःसुमतिमूर्ज्ज-यन्तीमिषमश्याम” ऋ॰

५ ,

४१ ,

१८ ।

ऊर्ज्ज¦ स्त्री ऊर्ज्ज--भावे क्विप्।

१ बले। करणे क्विप्।

२ अन्ने न॰।

३ अमृतरसाभिधेयेऽन्नस्य अत्यन्तसारभूते रसभेदे स्त्री
“विश्वे-देवा यामूर्ज्जं मदन्ति” ऋ॰

७ ,

४९ ,

४ ,
“यास्त ऊर्ज्जस्तन्वः[Page1386-b+ 38] सम्बभूवुः” अथ॰

१२ ,

१ ,

१२ , इह पृथिव्याः सम्बोधनेन तस्याविकारान्नसूक्ष्मांशत्वमूर्जामुक्तम्।
“स ऊर्जमुपजीवतीति” वृ॰ उ॰
“ऊर्ज्जं सूक्षितिं सूम्नम्” ऋ॰

२ ,

२० ,
“उर्गस्वाङ्गिरस्यूर्णम्रदा ऊर्ज्जं मयि धेहि” यजु॰

४ ,

४० ,
“ऊर्क् अन्नरसरूपा” वेददी॰ ऊर्ज्जं बलं धेहि इत्यर्थः
“अन्नमूलं बलं पुंसाम्” इत्युक्तेः अन्नरसस्य वलाधाय-कत्वम्।
“तमःसमूहाकृतिमप्यशेषादूर्जा जयन्तं प्रथितप्रका-शान्” भट्टिः ऊर्ज्जा बलेन
“बलमूर्ज्जञ्च यच्छति” मनुःअत्र बलोर्जोभेदोदैहिकमानसिकत्वाभ्यां शारीरिकं बलमूर्क्इति बोध्यम्।

४ जले स्त्री।
“ऊर्जो नपातं स हि नाय-मस्मयुः” यजु॰

२७ ,

४४ , ऊर्क्शब्देनाप उच्यन्ते अद्भ्यो-वृक्षाजायन्ते ततोऽग्निः इत्यग्नेरप्पौत्रत्वम्। वेददी॰।
“जर्ज्जांपते पाहि” यजु॰

२७ ,

४३ ।

ऊर्ज्ज¦ पु॰ ऊर्जति रसादिकं सोमोऽत्राधारे अच्।

१ कार्त्तिकेमासि तस्य शरदृतोरुत्तरावयवत्वात् तत्र सोमेन रसवी-र्याधिक्यवर्द्धनेन तथात्वम्।
“इषोर्जौ शरत्” इत्युपक्रम्यअयने विभज्य च
“तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भग-वानाप्यायते सोमोऽम्ललवणमधुररसा बलवन्तो भवन्त्यु-त्तरोत्तरं च सर्वप्राणिनां बलमभिवर्द्धते” सुश्रुते शरदृतोर-न्तिमस्य कार्त्तिकस्य उत्तरोत्तरबलाधिक्याभिधानेनास्य तथात्वम्। करणे अच् घञ् वा सेट्कत्वान्न कुत्त्वम्।

२ उ-त्साहे। भावे अच् घञ् वा।

३ बले

४ जीवने च। करणे अच् घञ् वा।

५ जले न॰
“ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालम्” यजु॰

२ ,

३४ । जल-स्योर्जाधायकतात् अन्नस्य जलाधीनतयैव बलहेतुत्वाच्चतथात्वम्
“ऊर्जसन! ऊर्ज्जं धाः” ऋ॰

६ ,

४ ,

४ ,
“ऊ-र्जस्य सने! अन्नस्य दातः!” भा॰
“ऊर्जाद उत यज्ञि-यासः” ऋ॰

१० ,

५३ ,

४ । ऊर्जादः अन्नादाः भा॰
“अत्रऊर्जशब्दःअन्नगतं रसमभिधत्ते तेन तदाधायकत्वात् तथात्वम्।
“तदक्षितर्पणादेघ लभेतोर्जमसंशयम्” सुश्रु॰कर्त्तरि अच्।

६ बलान्विते त्रि॰
“कृतजगत्त्रयभूर्ज-मतङ्गजम्” माघः।

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सुधामन god. Br. II. ३६. २८.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŪRJJA II : One of the seven hermits of the Svārociṣa Manvantara. The seven hermits of the Svārociṣa Manvantara were Ūrjja, Stambha, Prāṇa, Vāta, Pṛṣabha Niraya and Parīvān. (Viṣṇu Purāṇa, Aṁśa 3, Chapter 1).


_______________________________
*3rd word in right half of page 810 (+offset) in original book.

ŪRJJA : III. A King of the Hehaya dynasty. He was the grandfather of the famous Jarāsandha. (Agni Purāṇa, Chapter 278).


_______________________________
*4th word in right half of page 810 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ज्ज&oldid=426791" इत्यस्माद् प्रतिप्राप्तम्