ऊर्ज्जस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ज्जस्¦ न॰ ऊर्ज्ज--असुन्।

१ उत्साहातिशयाधायके बले

२ अन्नरसभेदे च। ततोऽस्त्यर्थे विनि उर्ज्जस्विन्, बलच् ऊ-[Page1387-a+ 38] र्जस्वल, मतुप् मस्यवः। ऊर्ज्जस्वत्। तद्वति त्रि॰ तत्रविन्यन्तस्य मतुबन्तस्य च स्त्रियां ङीप्।
“ऊर्ज्जस्वन्तंहविषोदत्त भागम्” ऋ॰

१० ,

५१ ,

८ ,
“ऊर्ज्जस्वती चासिपयस्वती च” थजु॰

१ ,

२७ ,
“ऊर्जस्वन्तं मन्यमानम् आत्मानंभगवानजः” भाग॰

३ ,

२० ,

४२ ,
“ऊर्ज्जस्वलं हस्तितुरङ्गमेतत्” भट्टिः
“भोक्तारमूर्ज्जस्वलमात्मदेहम्” रघुः
“ऊर्ज्ज-स्विन्य ऊर्ज्जमेधाश्च यज्ञे” भा॰ अनु॰

७६ अ॰।
“अन्नमूर्ज्जस्करं लोके दत्त्वोर्ज्जस्वी भवेन्नरः” भा॰ अनु॰

११

२ अ॰ ऊर्जः करोति। ऊर्जस् + कृ--अच्

६ त॰। अमृतायमानरसाधायके त्रि॰।
“ऊर्ज्जस्करान् हव्य-वाहान्” भा॰ व॰

२२ अ॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ज्जस्&oldid=246614" इत्यस्माद् प्रतिप्राप्तम्