ऊर्द्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धः, त्रि, उपरि । उच्छ्रितः । तुङ्गः । इति अन्त्यस्थ- वकारान्तोर्द्ध्वशब्दार्थे मेदिनी ॥ अत्र ऊर्द्धशब्दो निर्व्वकारः । तदुक्तं वर्णदेश- नायां । उज्जिहीते उद्गच्छति उदो हाङो डप्र- त्ययः आदिवर्णस्य ऊरादेशः । इति मधुमाधवा- दयः ॥ इति मृदङ्गभेदोर्द्धकशब्दस्य टीकायां भरतः ॥ (यथा, महाभारते । मुद्गलज्ञानप्राप्तौ । ३ । २६० । २ । “ऊर्द्धगः सत्पथः शश्वद्देवयानचरो मुने” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध(र्द्ध्व)¦ त्रि॰ उद्--हाङ्--ड पृषो॰ ऊरादेशः।

१ उच्चे

२ उपरि

३ उपरितने च
“प्रबोधयत्यूर्द्धमुखैर्मयूखैः” कुमा॰
“नीलोर्द्धरेखाशवलेन शंसन्”।
“व्यक्तोर्द्धरेखाभ्रुकुटीर्व-हद्भिः”
“गङ्गेवोर्द्धप्रवर्त्तिनी” रघुः।

४ उत्पाटितेउर्द्धकचः हेम॰।

५ अनुपविष्टे दण्डायमाने
“आसीनःऊर्द्धः प्रह्वो वा नियमोयत्र नेदृशः” छन्दो॰
“ऊर्द्ध्वः अनु-पविष्टः” श्रा॰ त॰ रघु॰।

६ उत्क्षिप्ते
“ऊर्द्धग्रावाणः” ऋ॰

३ ,

५४ ,

१२ । ऊर्द्धग्रावाणः सोमाभिषणार्थमुद्धृत-ग्रावाणः भा॰। ह्वयतेर्वा ड तेन सवकारत्वमपि तत्रार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध¦ mfn. (-र्द्धः-र्द्धा-र्द्धं)
1. Above, upper.
2. High, elevated.
3. Abandoned: see ऊर्द्ध्व।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध&oldid=246721" इत्यस्माद् प्रतिप्राप्तम्