ऊर्द्धग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धग¦ त्रि॰ ऊर्द्ध्वं गच्छति गम--ड।

१ उपरिगते।
“भुवा सहो-द्माणममुञ्चदूर्द्ध्वगम्” कुमा॰ शरांश्चाशीविषाकारानूर्द्ध्वगान्दीप्ततेजसः” भा॰ व॰

२२ अ॰। ऊर्द्धगतदेहस्थ-वायुकृते

२ रोगभेदे
“ऊर्द्ध्वगे रक्तपित्ते च शीतमम्भः प्र-शस्यते” सुश्रु॰
“तस्योर्द्धगोऽनिलः कार्श्यं दौर्बल्यं पाण्डु-गात्रता” सुश्रु॰। सर्वेषामुपरिगतत्वात्

३ परमेश्वरे पु॰
“ऊर्द्ध्वगः सत्पथाचारः” विष्णुसह॰।
“सर्वेषामुपरितिष्टन्नूर्द्ध्वगः” शा॰ भा॰। ऊर्द्धगतिशालिनि

४ धार्म्मिकेत्रि॰
“धर्म्मेण गमनमूर्द्धमधस्ताद्भवत्यधर्म्मेण” सां॰ का॰ ध-र्म्मेणोर्द्धगत्यभिधानात् धार्म्मिकस्य तथात्वम्। ऊर्द्ध्व-गतादयोऽप्यत्र।

५ ऊर्द्धगतियुक्ते उत्थायिनि त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धग&oldid=246747" इत्यस्माद् प्रतिप्राप्तम्