ऊर्द्धगति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धगति¦ स्त्री॰ ऊर्द्धं गतिः।

१ ऊर्द्धगमने। यथा ज्वलनादेःयथोक्तं सुश्रु॰
“उष्णतीक्ष्णरूक्षखरलघुविशदं रूपगुणबहुलमीषल्लवणं कटुकरसप्रायम् विशेषतश्चोर्द्धगतिस्वभावमिति तैजसं ससूहनपचनदारणतापप्रकाशनप्रभावर्ण्ण-करमिति”। ऊर्द्धज्वलनादयोऽप्यत्र।
“भ्रमणं रेचनंस्यन्दनोर्द्ध्वज्वलनमेव च। तिर्यग्गमनमप्यत्र गमनादेवलभ्यते” भाषा॰।
“प्रसिद्धमूर्द्धज्वलनं हविर्भुजः” माघःऊर्द्धगतिश्च लाघवातिशवेन भवति सत्वस्य च लघुत्वामूर्द्ध्व-गतिहेतुत्वमुक्तम्” सा॰ का॰
“सत्वं लघु प्रकाशकमिष्टमु-पष्टम्भकञ्चलञ्च रजः”।
“तत्र कार्योद्गमने हेतुर्लाघवं गौर-वप्रतिद्वन्द्वि, यतोऽग्नेरूर्द्धज्वलनं भवति” सा॰ कौ॰।

२ ऊर्द्ध-लोके खर्गादौ गमने च तद्धेतुश्च धर्मः
“धर्मेण गम-नमूर्द्धमिति” सा॰ का॰ उक्तेः
“ऊर्द्ध्वं गच्छन्ति सत्वस्थाः” इति गीतोक्तेश्च सात्विकभावमात्रस्यापि तद्धेतुत्वम्। ऊर्द्धम्देहात्

३ उत्क्रमणे। ऊर्द्धं गतिर्यस्य

४ ऊर्द्धगामिति त्रि॰। [Page1389-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धगति&oldid=246750" इत्यस्माद् प्रतिप्राप्तम्