ऊर्म्मि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊर्म्मिः, स्त्री, पुं, (ऋच्छतीति । ऋ गतौ । “अर्त्ते रूच्च” । ४ । ४४ । इति उणादिसूत्रेण मिः । अर्त्ते- रूरादेशश्च ॥) तरङ्गः । (यथा, रघुः । १२ । ८५ । “तमाधूतध्वजपटं व्योमगङ्गोर्म्मिवायुभिः” ॥) प्रकाशः । वेगः । भङ्गः । वस्त्रसङ्कोचरेखा । वे- दना । पीडा । इति मेदिनी ॥ उत्कण्ठा । इति हेमचन्द्रः ॥ “शोकमोहौ जरामृत्यू क्षुत्पिपासे षडूर्म्मयः” । इति श्रीभागवतटीका ॥ (बुभुक्षादयः षट्, यथा; -- “बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ । शोकमोहौ शरीरस्य जरामृत्यू षडूर्म्मयः” ॥ (अश्वगतिभेदः । तल्लक्षणं यथा वैजयन्त्याम् । “पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्ता गतिरूर्म्मिरुदाहृता” ॥ तथा च माघे ५ । ४ । “तूर्णं पयोधर इवोर्म्मिभिरापतन्तः” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊर्म्मि¦ पुंस्त्री॰ ऋ--मि--अर्त्तेरुच्च।
१ तरङ्गे,
“व्योमगङ्गोर्म्मि-वायुभिः” रघुः
“महोर्म्मिभिर्व्याहतवाञ्छितार्थैः”
२ प्रकाशे,
३ वेगे,
४ वस्त्रसङ्कोचरेखायाम्,
५ पीडायाम्,
६ उत्कण्ठायाम्,
७ बुभुक्षादिषु, षट्सु देहमनःप्राणानां यथायथं धर्म्मेषुते च
“बुभुक्षा च पिपासा च प्राणस्य, मनसः स्मृतौ। शोकमोहौ, शरीरस्य जरामृत्यू षडूर्म्मयः” शा॰ ति॰विभज्योक्ताः
“पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः। अतिवेगसमायुक्ता गतिरूर्म्मिरुदाहृता” वैजयन्त्युक्तलक्षणायाम्
८ अश्वगतौ स्त्री
“तूर्णं पयोधयइवोर्म्मिभिरापतन्तः” माघः
“क्षिपद्भिरुर्म्मीनपरैरिवो-र्म्मिभिः” माघः
“पक्षे ऊर्मिभिरश्वगतिभिरित्यर्थः। ( ऊर्म्मो भवः यत्। ऊर्म्य ऊर्म्मिभवे त्रि॰ रात्रौ स्त्रीनिरु॰
“तिरस्तमोददृश ऊर्म्यासु” ऋ॰
६ ,
४८ ,
६ ,
“ऊ-र्म्यासु रात्रिषु” भा॰। रुद्रभेदे पु॰
“नम ऊर्म्याय चाव-न्याय च” यजु॰
१६ ,
३१ ।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊर्म्मि¦ mf. (-र्म्मिः) or f. only, (-र्म्मी)
1. A wave.
2. A current, the flowing of water.
3. A fold or plait in a garment.
4. A Light, manifesta- tion.
5. Speed, velocity.
6. Mental suffering, distress, uneasiness.
7. Pain.
8. Missing, regretting.
9. Human infirmity, as grief, illusion, hunger, thirst, decay. death.
10. Association.
11. Number, quanti- ty. E. ऋ to go, मि Una4adi affix, ऊ substituted for the initial letter.
