सामग्री पर जाएँ

ऊर्म्मिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ऊर्म्मिः, स्त्री, पुं, (ऋच्छतीति । ऋ गतौ । “अर्त्ते रूच्च” । ४ । ४४ । इति उणादिसूत्रेण मिः । अर्त्ते- रूरादेशश्च ॥) तरङ्गः । (यथा, रघुः । १२ । ८५ । “तमाधूतध्वजपटं व्योमगङ्गोर्म्मिवायुभिः” ॥) प्रकाशः । वेगः । भङ्गः । वस्त्रसङ्कोचरेखा । वे- दना । पीडा । इति मेदिनी ॥ उत्कण्ठा । इति हेमचन्द्रः ॥ “शोकमोहौ जरामृत्यू क्षुत्पिपासे षडूर्म्मयः” । इति श्रीभागवतटीका ॥ (बुभुक्षादयः षट्, यथा; -- “बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ । शोकमोहौ शरीरस्य जरामृत्यू षडूर्म्मयः” ॥ (अश्वगतिभेदः । तल्लक्षणं यथा वैजयन्त्याम् । “पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्ता गतिरूर्म्मिरुदाहृता” ॥ तथा च माघे ५ । ४ । “तूर्णं पयोधर इवोर्म्मिभिरापतन्तः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्म्मिः&oldid=120486" इत्यस्माद् प्रतिप्राप्तम्