ऊषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषणम्, क्ली, (ऊष् + ल्युट् ।) मरिचम् । इति हेम- चन्द्रः ॥ (मरिचार्थे पर्य्यायो यथा, -- “मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम्” ॥ गुणाश्चास्य मरिचशब्दे ज्ञेयाः ॥ शुण्ठी च । एत- दर्थे पर्य्यायो यथा, -- “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् । ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम्” ॥ गुणाश्च शुण्ठीशब्दे ज्ञातव्याः ॥ पिप्पलीमूलञ्च । एतदर्थे पर्य्यायो यथा, -- “ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः” । अस्य गुणाश्च पिप्पलीमूलशब्दे बोद्धव्याः । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषण¦ न॰ ऊष--ल्यु।

१ मरिचे,

२ पिप्पलीसूले,

३ शुण्ठ्याञ्च। (चिता)

४ चित्रके पु॰।

५ पिप्ल्यां

६ चव्ये च(चै) स्त्री। मरीच्यादीनां कदुत्वेन जिह्वोद्वेजकतया तथात्वम्। त्र्यूषणं त्रिकटुशुण्ठी पिप्पली मरिचं च यथाह
“विश्वो-पकुल्या मरिचं त्र्यूषं त्रिकटु कथ्यते। कटुत्रिकं त्रिकटुकंत्र्यूषणं व्योषमुच्यते। त्र्यूषणं दीपनं हन्ति श्वासकास-त्वगामयान्। गुल्ममेहं च त्वक्स्थौल्यं मेदसा सह पीन-सान्” भावप्र॰। त्र्यूषणं सकणामूलं कथितं यद्त्र्यू-षणकम्। व्योषस्यैव गुणाः प्रोक्ता अधिक श्चतुरूषणे” भा॰प्र॰। षडूषणम्।
“पिप्पली पिप्पलीमूलम् चव्या चि-त्रकनागरैः। पञ्चभिः कोलमात्रञ्च पञ्चकोलम् तदुच्यते। पञ्चकोलं समरिचं षडूषणमिहेष्यते” भावप्रकाशः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषण¦ n. (-णं) Black pepper. f. (-णा) Long pepper: see उषण।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषणः [ūṣaṇḥ], The plant Plumbago Zeylanica (चित्रक).

णम्, णा Black pepper.

Ginger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषण n. black pepper Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ऊषण&oldid=493715" इत्यस्माद् प्रतिप्राप्तम्