सामग्री पर जाएँ

ऊषणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ऊषणम्, क्ली, (ऊष् + ल्युट् ।) मरिचम् । इति हेम- चन्द्रः ॥ (मरिचार्थे पर्य्यायो यथा, -- “मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम्” ॥ गुणाश्चास्य मरिचशब्दे ज्ञेयाः ॥ शुण्ठी च । एत- दर्थे पर्य्यायो यथा, -- “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् । ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम्” ॥ गुणाश्च शुण्ठीशब्दे ज्ञातव्याः ॥ पिप्पलीमूलञ्च । एतदर्थे पर्य्यायो यथा, -- “ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः” । अस्य गुणाश्च पिप्पलीमूलशब्दे बोद्धव्याः । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊषणम्&oldid=120530" इत्यस्माद् प्रतिप्राप्तम्