ऋतुसेव्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋतुसेव्य¦ त्रि॰ ऋतुभेदे सेव्यं वैद्यकोक्तगुणयुतमाहारादि। सुश्रुतोक्ते ऋतुभेदे सेवनीये पथ्यरूपे वस्तुभेदे तच्च सुश्रु॰ दर्शितंयथा।
“यस्मिन्यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहि-नाम्। तेषु तेषु प्रदातव्याः रसास्त्वेते विजानता। ( प्रक्लिन्नत्वाच्छरीराणां वर्षासु खलु देहिनाम्। मन्देऽग्नौकोपमायान्ति संहर्षान्मारुतादयः। तस्मात् क्लेदविशुद्ध्यर्थंदोषसंहरणाय च। कषायतिक्तकटुकै रसैर्युक्तमथाऽद्रवम्। नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेब च। देयमन्नंनृपतये यज्जलं चोक्तमादितः। तप्तावरतमम्भोवा पिबे-न्मधुसमायुतम्। अह्नि मेघानिलाबिष्टेऽत्यर्थशीताम्बु स-ङ्कुले। तरुणत्वाद्विदाहञ्च गच्छन्त्योषधयस्तदा। मति-मांस्तन्निमित्तञ्च नैव व्यायाममाचरेत्। अत्यम्बुपानाव-श्यायग्राम्यधर्मातपांस्तथा। भूवाष्पपरिहारार्थं शयीत चविहायसि। शीते साग्नौ निवाते च गुरुप्रावरणे गृहे। यायान्नागबधूभिश्च प्रशस्तागुरुभूषितः। दिवास्वप्नमजी-र्णञ्च वर्ज्जयेत्तत्र यत्नतः”। वर्षासेव्यासेव्ये।
“सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः। क्षीरेक्षुविकृति-क्षौद्रशालिमुद्गादिजाङ्गलाः। सलिलञ्च प्रसन्नत्वात् सर्व्वमेवतदा हितम्। सरःस्वाप्लवनञ्चैव कमलोत्पलशालिषु। प्रदोषेशशिनः पादाश्चन्दनञ्चानुवासनम्। तिक्तस्य सर्पिषः पानै-रसृक्स्रावैश्च युक्तितः। वर्षासूपचितं पित्तं हरेच्चापि विरे-चनैः। नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवातपम्। रात्रिजागरणञ्चैव मैथुनञ्चापि वर्जयेत्। स्वादु शीतजलंमद्यं शुचिस्फटिकनिर्मलम्। शरञ्चन्द्रांशुनिर्द्धौतमगस्त्यो-दयनिर्विषम्। प्रसन्नत्वाच्च सलिलं सर्ब्बमेव तदा हितम्। सचन्दनं वा कर्पूरं वासश्चामलिनं लघु। भजेच्च शारदंमाल्यं सीधोः पानञ्च युक्तितः। पित्तप्रशमनं यच्च तच्चसर्व्वं समाचरेत्”। शरदि सेव्यासेव्ये
“हेमन्तः शीतलो रूक्षो मन्दसूर्थ्योऽनिलाकुलः। ततस्तु शी-तमासाद्यः वायुस्तत्र प्रकुप्यति। कोष्ठस्यः शीतसंस्पर्शादन्तः-पिण्डीकृतोऽनलः। ररुमुच्छोषयत्याशु तस्मात् स्निग्धं तदाहितम्। हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम्। ससर्पि-स्तैलमहिममशनं हितमुच्यते। तीक्ष्णान्यपि च पानानिपिबेदगुरुभूषितः। तैलाभ्यक्तः सुखोष्णे च वारिकोष्ठेऽव-गाहयेत्। साङ्गारधने महति कौशेयास्तरणास्तृते। शयीत[Page1445-a+ 38] शयने वापि वृते गर्भगृहोदरे। स्त्रीःश्लिष्ट्वागुरुधूपाढ्याःपीनोरुजघनस्तनीः। प्रकामञ्च निषेवेत मैथुनं तर्पितो नृपः। मधुरं तिक्तकटुकमभ्लं लवणमेव च। अन्नपानं तिलान्माषान् शाकानि च दधीनि च। तथेक्षुविकृतीः शा-लीन् सुगन्धांश्च नवानपि। प्रसह्यानूपमांसानि क्रव्याद-बिलशायिनाम्। औदकानां प्लवानाञ्च पादिनाञ्चोप-जायते। मद्यानि च प्रसन्नानि यच्च किञ्चिद्बलप्रदम्। कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे” हेमन्तसेव्यादि
“एष एव विधिः कार्यः शिशिरे समुदाहृतः”। (
“हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम्। औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून्। ततोऽम्लमधुरस्निग्धलवणानि गुरूणि च। वर्जयेद्वमनादीनिकर्म्माण्यपि च कारयेत्। षष्टिकान्नं यवान् शोतान्मुद्गान् नीवारकोद्रवान्। लावादिविष्किररसैर्दद्याद्यूषैश्चयुक्तितः। पटोलनिम्बवार्त्ताकुतिक्तकैश्च हिमात्यये। सेवे-तं माधवेऽरिष्टान् सीधु माध्वीकमासवान्। व्यायाममञ्जनंधूमं तीक्ष्णञ्च कवलग्रहम्। सुखाम्बु ना च सर्वार्थान्सेवेत कुसुमागमे। तीक्षणरूक्षकटुक्षारकषायं कोष्णम-द्रवम्। यवमुद्गमधुप्रायं वसन्ते भोजनं हितम्। व्या-यामोऽत्र नियुद्ध्वाध्वशिलानिर्घातजो हितः। उत्सादनंतथा स्नानं वनिताः काननानि च। सेवेत निर्हरेच्चापिहेमन्तोपचितं कफम्। शिरोविरेकवमननिरूहकवलादि-भिः। वर्ज्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान्” वसन्तसे॰(
“व्यायाममुष्णमायासं मैथुनञ्चातिशोषि च। रसां-श्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत्। सरांसिमरितोवापि वनानि रुचिराणि च। चन्दनानि परा-र्ध्यानि स्रजः सकमलोत्पलाः। तालवृन्तानिलाहारां-स्तथा शीतगृहाणि च। घर्मकाले निषेवेत वासांसिसुलघूनि च। शर्कराखण्डदिग्धानि सुगन्धीनि हिमा-नि च। षानकानि च सेवेत मन्थांश्चापि सशर्करान्। भोजनं च हितं शीतं सघृतं मधुरद्रवम्। शृतेन पयसारात्रौ शर्करामधुरेण च। प्रत्यग्रकुसुमाकीर्णशयने हर्म्य-संस्थिते। शयीत चन्दनार्द्राङ्गःस्पृश्यमानोऽनिलैः सुखैः” ग्रीष्मसेव्यादि। (
“तापात्यये हिता नित्यं रसा ये गुरवस्तथा। पयो-मांसरसाः कोष्णास्तैलानि च घृतानि च। वृंहणञ्चापियत्किञ्चिदभिष्यन्दि तथैव च। निदाघोपचितञ्चैव प्रकु-प्यन्तं समीरणम्। निहन्यादनिलघ्नेन विधिना विधि-[Page1445-b+ 38] कोविदः। नदीजलं रूक्षमुष्णमुदमन्थं तथातपम्। व्या-यामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत्। यवषष्टि-कगोधूमान् शालींश्चाप्यनवांस्तथा। हर्भ्यमध्ये निवातेच भजेच्छष्यां मृदूत्तराम्। सविषप्राणिविण्मूत्रलाला-निष्ठीवनादिभिः। समाप्लुतं तदा तोयमान्तरीक्षं विषोप-मम्। वायुना विषदुष्टेन प्रावृष्येण च दूषितम्। तद्धिसर्वोपयोगेषु तस्मित्काले विवर्जयेत्। निरूहैर्वस्तिभि-श्चान्यैस्तथान्यैर्मारुताग्रहैः। कुपितं शमयेद्वायुं वार्षिकं वाचरेद्विधिम्। ऋतावृतौ य एतेन विधिना वर्त्तते नरः। घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन” प्रावृट्से॰
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋतुसेव्य/ ऋतु--सेव्य mfn. to be taken or applied at certain seasons (as particular medicines or food etc. ) T.
