सामग्री पर जाएँ

ऋभुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ऋभुः, पुं, (ऋ स्वर्गे देवमातुरदितेर्व्वा भवति यः । ऋ + भू + डु ।) देवता । इत्यमरः ॥ (यथा, ऋग्- वेदे । ९ । २१ । ६ । “ऋभुर्न रथ्यं नवं दधतो केतुमादिशे” ॥ देवानामपि देवः । यथा, महाभारते वनपर्ब्बणि । “ऋभवो नाम तत्रान्ये देवानामपि देवताः । तेषां लोकाः परतरे यान्यजन्तीह देवताः” ॥) चाक्षुषमन्वन्तरे देवगणभेदः । यथा, -- “आद्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः” । इति हरिवंशे । ७ । ३२ ॥)

"https://sa.wiktionary.org/w/index.php?title=ऋभुः&oldid=120722" इत्यस्माद् प्रतिप्राप्तम्