ऋषभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभः, पुं, (ऋष् + “ऋषिवृषिभ्यां कित्” । इति उणादिसूत्रेण ३ । १२३ । अभच् । किच्च ।) वृषः । (यथा, ऋग्वेदे ६ । २८ । ८ । “उप ऋषभस्य रेतस्युपेन्द्र तव वीर्य्ये” ॥) कर्णरन्ध्रम् । कुम्भीर- पुच्छः । उत्तरपदे श्रेष्ठः । इति मेदिनी ॥ (“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” ॥ इत्यमरवाक्यात् । यथा पुरुषर्षभः पुरुषश्रेष्ठः इत्यर्थः । असमस्तेऽप्ययं श्रेष्ठार्थवाचकः । यथा, भागवते २ । ४ । २२ ॥ “स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्” ॥ “ऋषीणां ज्ञानप्रदानां ऋषभः श्रेष्ठः” । इति तट्टीका ॥ गणविशेषः । आकृतिगणोऽयम् । यथा पाणिनिः तत्पुरुषसमासप्रकरणे २ । १ । ५६ ॥ “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” ॥ व्या- घ्रादिराकृतिगणः । “व्याध्र-सिंह-ऋक्ष-ऋषभ- चन्दन-वृक-वृष-वराह-हस्तिन्-तरु-कुञ्जर-रुरु-पृ- षत्-पुण्डरीक-पलाश-कितवाः” । इत्येते व्याघ्रा- दयः ॥) पर्ब्बतविशेषः । इति धरणी ॥ वराहपुच्छः । आदिजिनः । इति हेमचन्द्रः ॥ भगवदवतारवि- शेषः । (यथा, भागवते ५ । ६ । ७ । “तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन चंक्रममाणः” ।) स तु सत्ययुगे अग्नीध्रसुतनाभिराजपुत्त्रत्वेन जातः । तस्य पुत्त्रः जडमरतः । इति श्रीभागवतं । (तथा, मार्कण्डेये ५३ । ३८ । “अग्नीध्रसूनोर्नाभेस्तु ऋषभोऽभूत् सुतो द्विज ! । ऋषभाद्भरतो जज्ञे वीरः पुत्त्रशताद्वरः” ॥ स्वारोचिषे मन्वन्तरे ऋषिभेदः । यथा, मार्कण्डेये ६७ । ४ । “उर्जस्तम्बस्तथा प्राणो दत्तोलिरृषभस्तथा” ॥ ऋषभसहस्रदक्षिण एकाहनिष्पाद्यो यागभेदः । यथाह गर्गः “पूर्ब्ब ऋषभसंज्ञो राज्ञः” ॥ स्वनाम- ख्यातः यज्ञतुरपुत्त्रो नृपभेदः । यथा, शतपथ- ब्राह्मणे १३ । ५ । ४ । १५ । “एकविंशस्तोमेन ऋषभो याज्ञतुर ईजे शिक्नानां राजांतदेतद्गाथ- याऽभिगीतम्” ॥) अष्टवर्गान्तर्गतौषधविशेषः । तत्पर्य्यायः । वृषः १ ऋषभकः २ वीरः ३ । इति रत्नमाला ॥ गोपतिः ४ धीरः ५ विषाणी ६ दुर्द्धरः ७ ककुद्मान् ८ पुङ्गवः ९ वोढा १० शृङ्गी ११ धूर्य्यः १२ भूपतिः १३ कामी १४ रूक्षप्रियः १५ उक्षा १६ लाङ्गूली १७ गौः १८ बन्धुरः १९ गोरक्षः २० वनवासी २१ । अस्य गुणाः । मधुरत्वम् । शीतत्वम् । रक्तपित्तविरेकनाशित्वम् । शुक्रश्लेष्मकारित्वम् । दाहक्षयज्वरहरत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ (“जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ । रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ” ॥ “ऋषभो वृषशृङ्गवत्” ॥ “ऋषभो वृषभो धीरो विषाणी द्राक्षैत्यपि” ॥ अनयोर्गुणा यथा ॥ “जीवकर्षभकौ बल्यौ शीतौ शुककफप्रदौ । मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) सप्त- स्वरान्तर्गतद्वितीयस्वरः । (अयं स्वरः त्रिश्रुतिः । अस्यः तिस्रः श्रुतयो यथा, (१) दयावती, (२) रञ्जनी, (३) रतिका । तिस्रश्च श्रुतिजातयो यथा, (१) करुणा, (२) मध्या, (३) मृदुः । अयञ्च ऋषि- वंशीयः, क्षत्त्रियजातिः, पिञ्जरवर्णश्च । अस्यो त्पत्तिः शाकद्वीपे । अस्य ऋषिः देवता च ब्रह्मा; छन्दो गायत्री । यथा सङ्गीतरत्नाकारे, -- “ऋषभस्त्रिश्रुतिस्ततः {एल्३} {एल्३} {एल्३} । दयावती रञ्जनी च रतिका चर्षभे स्थिता ॥ दीप्तायता मृदुर्मध्या षड्जे स्यात् ऋषभे पुनः । संस्थिता करुणा मध्या मृदुः {एल्३} {एल्३} ॥ पञ्चमः पितृवंशस्थो रि-धावृषिकुलोद्भवौ । ऋधौ तु क्षत्रियौ ज्ञेयौ वैश्यजाती निगौ मतौ” ॥ रि धौ ऋषभधैवतौ इत्यर्थः । इत्यादि ।) स तु गोस्वरतुल्यस्वरः । चातकस्वरतुल्यस्वर इति केचित् । नारदमते गावः ऋषभस्वरं वदन्ति यथा, -- “षड्जं रौति मयूरो हि गावो नर्द्दन्ति चर्षभम्” । इति नारदसंहितायाम् । दपणरत्नाकरादिमते तु चातकः ऋषभं वदति । यथा सङ्गोतदर्पणे, -- “स्वरमृषभं चातको ब्रूते” ।) अस्योत्पत्तिः । “नाभिमूलाद्यदा वर्ण उत्थितः कुरुते ध्वनिम् । वृषभस्येव निर्याति हेलया ऋषभः स्मृतः” ॥ इति सङ्गीतदामोदरः ॥ (“नाभेः समुदितो वायुः कण्ठशीर्षसमाहतः । ऋषभस्येव नादं यत् तस्मादृषभईरितः” ॥ इति च सङ्गीतसमयसारे । अस्योत्पत्तिः ऋग्वे- दात् । यथा रत्नावल्यां, -- “ऋग्वेदात् षड्ज-ऋषभौ यजुषो मध्यधैवतौ । सामवेदात् समूद्भूतौ तथा गान्धारपञ्चमौ” ॥ इति ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभः [ṛṣabhḥ], [ऋष्-अभक्; Uṇ 3.123]

A bull.

(With names of other animals) the male animal, as अजर्षभः a goat.

The best or most excellent (as the last member of a comp.); as पुरुषर्षभः, भरतर्षभः &c.

The second of the seven notes of the gamut; (said to be uttered by cows; गावस्त्वृषभभाषिणः); श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम् Śi.11.1; ऋषभो$त्र गीयत इति Āryā S.141.

The hollow of the ear.

A boar's tail.

A crocodile's tail.

A dried plant, one of the 8 principal medicaments. (Mar. बैलघाटी, काकडशिंगी)

N. of an antidote.

An incarnation of Viṣṇu; नाभेरसावृषभ आस सुदेविसूनुः Bhāg. 2.7.1.

A sacrifice (to be performed by kings).-भाः m. The inhabitants of क्रौञ्चद्वीप; Bhāg.5.2.22.

भी A woman with masculine features (as a beard &c.).

A cow.

A widow.

The plant Carpopogon Pruriens (शूकशिंबी); also another plant (शिराला) (Mar. कुयली) -Comp. -कूटः N. of a mountain. -दीपः, पम् N. of a country. -ध्वजः N. of Śiva.

"https://sa.wiktionary.org/w/index.php?title=ऋषभः&oldid=493843" इत्यस्माद् प्रतिप्राप्तम्