ऋषीकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋषीकः, पुं, (ऋषेः पुत्त्रः । ऋषि + कन् ।) काव्या- दि-ऋषिपुत्त्रः । यथा । “ऋषिपुत्त्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवात् । परत्वेनर्षयस्ते वै भूतादिऋषिकास्ततः ॥ ऋषीकाणां सुता ये वै विज्ञेया ऋषिपुत्त्रकाः इत्येते ऋषयः प्रोक्तास्तपसा ऋषिताङ्गताः ॥ तेषां पुत्त्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत । वत्सरो नहुषश्चैव भारद्वाजश्च वीर्य्यवान् । ऋषिर्द्दीर्घतपाश्चैव वृहद्दुःस्थः शरत्वतः ॥ वाजिश्रवाः सुचित्तश्च श्यावोऽश्वश्च पराशरः । शृङ्गी च कश्यपश्चैव राजा वैश्रवणस्तदा ॥ इत्येते ऋषिकाः सर्व्वे सत्येन ऋषिताङ्गताः” । इति मात्स्ये १२० अध्यायः ॥
