ऋष्टिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्टिः, स्त्री, (ऋष् हिंसायां + क्तिन् ।) खङ्गः । इत्य- मरः ॥ (यथा, ऋग्वेदे । ५ । ५७ । २ । “वाशीमन्त ऋष्टिमन्तो मनीषिणः । सुधन्वान इषुमन्तो निषङ्गिणः” ॥ आयुधमात्रम् । यथा ऋग्वेदे १ । १६६ । ४ । “मयन्ते विश्वाभुवनानि हर्म्म्या । चित्रो वो यामः प्रयतास्वृष्टिषु” ॥ “ऋष्टिषु युद्धस्थहेतिषु” । इति भाष्यम् । तथा तत्रैव । ५ । ५२ । ६ । “आ रुक्मैरायधा नर ऋष्वा ऋष्टीरसृक्षत” । “ऋष्टीरायुधविशेषान्” । इति भाष्यम् । तथा मनुः ३ । १३३ । “यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्टयोगुडान्” ॥ “ज्वलितशूलर्ष्टाख्यायुधलोहपिण्डान्” । इति त- ट्टीका ॥ दीप्तिः । यथा, ऋग्वेदे ३ । ५४ । १३ । “विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः” । “ऋष्टिमन्तो दीप्तिमन्तः” । इति भाष्यम् ॥ गमना- गमनशीलः । यथा, ऋग्वेदे १ । ६४ । ४ ॥ “अंसे- ष्वेषां निप्निमृक्षुरृष्टयः साकं यज्ञिरे स्वधया दिवो नरः” । “ऋष्टयः गमनागमनशीलाः” । इति दयानन्दभाष्यम् ॥ पुं, धर्म्मसावर्णिके मन्व- न्तरे ऋषिभेदः । यथा, मार्कण्डेये । ९४ । १९ । “हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्टिः [ṛṣṭiḥ], m. f. [ऋष्-करणे-क्तिन्]
A double-edged sword. Mb.1.194.7.
A sword (in general). Bhāg. 8.1.36.
Any weapon (as a spear or lance &c.).
A kind of musical instrument; सतालवीणामुरजर्ष्टिवेणुभिः Bhāg.3.15.21. -Comp. -विद्युत् a. shining with weapons.
