सामग्री पर जाएँ

ऋष्टिषेण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ऋष्टिषेण¦ पु॰ नृपभेदे ततः पाठान्तरे विदा॰ अञ् शिवा॰अण् वा। आर्ष्टिषेण तत्पुत्रे।
“आर्ष्टिषेणोहोत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान्” एतामृच-मधिकृत्य यास्केनेतिहासो वर्ण्णितः यथा
“तत्रेति-हासमाचक्षते देवापिश्चार्ष्टिषेणः शान्तनुश्च द्वौ कौरव्यौभारतौ बभूवतुः स शान्तनुः कनीयानभिषेचयाञ्चक्रे दे-वापिस्तपः प्रपेदे ततः शान्तनोराज्ये द्वादश वर्षाणि देवोन ववर्ष तमूचुर्ब्राह्मणाः अधर्मस्त्वया चरितो ज्येष्ठं भ्रा-तरमन्तरेत्यभिषेचितं तस्मात्ते देवो न वर्षतीति” ऋष्टि-षेणस्य नामान्तरं प्रतीप इति।
“प्रतिश्रवसः प्रतीपःखलु शैव्यामुपयेमे मनुं नाम तस्यां पुत्रानुत्पादयामासदेवाप्रिं शान्तनुं वाह्लीकं चेति देवापिः खलु वालएवारण्यं विवेश शान्तनुस्तु महीपालो बभूवेति” भा॰आ॰

९५ ।
“ऋक्षस्तस्माद्दिलीपोऽभूत् प्रतीपस्तस्य चा-[Page1456-a+ 38] त्मजः। देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः। पितृराज्यं परित्यज्य देवापिस्तु वनं गतः। अभवच्छान्तनूराजा प्राङ्महाभिषसंज्ञितः। समा द्वादश तद्राज्ये नववर्ष यदा विभुः। शान्तनुर्ब्राह्मणैरुक्तः परिवेत्ता यद-ग्रभृक्। राज्यं देह्यग्रजायाशुपरं राष्ट्रविवृद्धये। एव-मुत्तौ द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत्। नाहं राजात्वमेवाङ्ग विप्रान् वृष्टौ वृणु! प्रभो। तन्मन्त्रिप्रहितैर्विप्रै-र्वेदाद्विभ्रंशितोगिरा। वेदवादातिवादान् वै ततो देवोववर्ष ह। देवापिर्योगमास्थाय कलापग्राममास्थितः। सोमवंशे कलौ नष्टे कृतादौ स्थापतिष्यति” भाग॰

९ ,

२२ ,

१३ श्लो॰। अष्टिषेणशब्दस्यावयवार्थो निरु॰ दर्शितोयथा
“आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः इषितसेनस्येतिवा। सेना सेश्वरा समानगतिर्वा। पुत्रः पुरु त्रायतेनिपरणाद्वा पुन्नरकं ततस्त्रायते इति वा”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ऋष्टिषेण/ ऋष्टि--षेण m. N. of a man(See. रिष्टि.)

"https://sa.wiktionary.org/w/index.php?title=ऋष्टिषेण&oldid=249333" इत्यस्माद् प्रतिप्राप्तम्