ऋष्यप्रोक्ता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्यप्रोक्ता, स्त्री, (ऋष्येण ऋषिसमूहेन प्रोक्ता ।) शतमूली । शूकशिम्बी । अतिबला । इति मेदिनी ॥ (अस्याः पर्य्यायो यथा ॥ “अतिबला महाशतावरी कपिकच्छुश्च” । इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ व्यवहारो यथा ॥ “ऐन्द्यृषभ्यतिरसर्ष्यप्रोक्तापयस्येत्यादिषु” । इति चरके सूत्रंस्थाने चतुर्थेऽध्याये ॥ अत्र तु ऋष्यप्रोक्ता माषपर्णी इति शिवदासीयटीका ॥ * ॥ “कुक्कुटी सर्पगन्धा च तथा काणविषाणिके । ऋष्यप्रोक्ता वयस्था च शृङ्गी मोहनवल्लिका” ॥ इति उत्तरतन्त्रे षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्यप्रोक्ता स्त्री।
मर्कटी
समानार्थक:आत्मगुप्ता,जहा,अव्यण्डा,कण्डूरा,प्रावृषायणी,ऋष्यप्रोक्ता,शूकशिम्बि,कपिकच्छू,मर्कटी
2।4।87।1।1
ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी। चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
ऋष्यप्रोक्ता स्त्री।
शतावरी
समानार्थक:शतमूली,बहुसुता,भीरु,इन्दीवरी,वरी,ऋष्यप्रोक्ता,भीरुपत्री,नारायणी,शतावरी,अहेरु
2।4।101।1।1
ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी। अहेरुरथ पीतद्रुकालीयकहरिद्रवः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्यप्रोक्ता¦ स्त्री ऋषिभिरप्रोक्ता ऋष्य इव प्रोक्ता इति वा।
१ शताबर्याम्,
२ अतिबलायाम्,
३ शूकशिम्बीवृक्षे च।
“ऋष्यप्रोक्ता वयस्था च” सुश्रु॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋष्यप्रोक्ता¦ f. (-क्ता)
1. Cowach, (Carpopogon pruriens.)
2. Asparagus racemosus.
3. Sida, (cordifolia and rhombifolia.) E. See ऋषिप्रोक्ता।