सामग्री पर जाएँ

ऋष्यादिन्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ऋष्यादिन्यास¦ पु॰ ऋष्यादीनां न्यासः। तन्त्रीक्ते मूर्द्धादिषुऋष्यादीनां न्यासे। ऋष्यादिशब्दार्थप्रदर्शनपूर्ब्बकं तन्न्यास-प्रकारः तन्त्रसा॰ उक्तः।
“महेश्वरमुखाजज्ञात्वा यः[Page1457-b+ 32] साक्षात्तपसा मनुम्। संसाधयति शुद्भात्मा स तस्य ऋषि-रोरितः। गुरुत्वात् मस्तके चास्य न्यासस्तु परिकीर्त्तितः। सर्वेषां मन्त्रतत्त्वानां छादनात् छन्द उच्यते। अक्षरत्वात्पदत्वाच्च मुखे छन्दः समीरितम्। सर्वेषामेवं जन्तूनांभावनात् प्रेरणात्तथा। हृदयाम्भोजमध्यस्था देवता तत्रतां न्यसेत्। ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत्। दौर्बल्यं याति मन्त्राणां विनियोगमजानताम्”। तन्त्रान्तरे
“ऋषिं न्यसेन्मूर्द्ध्नि देशे छन्दस्तु मुखपङ्कजे। देवतां हृ-दये चैव वीजन्तु गुह्यदेशके। शक्तिञ्च पादयोश्चैव सर्वाङ्गे-कीलकं न्यसेत्”।
“आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम्। अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च। तालत्रयञ्चदिग्बन्धः प्राणायामस्ततःपरम्। ध्यानं पूजा जपश्चेतिसर्वतन्त्रेष्वयं विधिः” तन्त्रम्”। तत्तद्देवमन्त्राणां विशेषतऋष्यादयस्तु तन्त्रसारादौ दृश्याः।

"https://sa.wiktionary.org/w/index.php?title=ऋष्यादिन्यास&oldid=249367" इत्यस्माद् प्रतिप्राप्तम्