एकजीववाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकजीववाद¦ पु॰ एक एव जीव इत्येवं वादः। एक चैतम्य-मेकयैवाविद्यया बद्धं संसरति तदेव ज्ञानेन कदाचिन्मुच्यतेनास्मदादीनां वन्धमोक्षौ स्त इत्येवं रूपे विदान्त्ये-कदेशिवादभेदे। उक्तौ चैकानेकजीववादौः वेदा॰ प॰ यथा
“एकजीववादेऽविद्याप्रतिविम्बो जीवः अनेकजीववादे तुअन्त करणप्रतिविम्बः स च जाग्रत्स्वप्नसुषुप्तिरूपावस्था-त्रयवान्। तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था-अवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः। इन्द्रियजन्य-ज्ञानञ्चान्तःकरणवृत्तिः स्वरूपज्ञानस्यानादित्वात्। सा-चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम्। तथाहिअविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्यजीवरूपतया जीवस्य सर्व्वदा घटादिभान प्रसक्तौ घटा-द्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थाप-दवाच्यमभ्युपगन्तव्यम्। एव सति न सर्व्वदा घटादे-र्भानप्रसङ्गः अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात्। तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं नस्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं, त-द्भासकस्य तदनिवर्त्तकत्वात् न पि वृत्त्युपहितं चैतन्यंपरोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्ति-विशेषस्य आवरणभञ्जकचमित्यावरणाभिभवार्था वृत्ति-रुच्यते। सम्बन्धार्था वृत्तिरित्यपरं मतम्। तत्रा-विद्योपाधिकोजीवोऽपरिच्छिन्नः स च घटादिप्रदेशे वि-द्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां नघटादिकमवभासयति घटादिना समं सम्बन्धाभावात् त-त्तदाकारवृत्तिदशायां तु भासयति तदा सम्बन्धसत्त्वात्। ननु अविद्योपाधिकस्य जीवस्यापरिच्छिन्नस्य स्वतएव स-मस्तबस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभि-धानमसङ्गतं असङ्गतत्वदृष्ट्या सम्बन्धाभावाभिधाने चवृत्त्यनन्तरमपि सम्बन्धोन स्यादिति चेत् उच्यतेन हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्ध-सामान्यं निषेधामः किन्तर्हि घटादिभानप्रयोजकं सम्बन्ध-विशेषम्। स च सम्बन्धविशेषोविषयावभासकस्य जीवचै-तन्यस्य च व्यङ्ग्यव्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकार-वृत्तिनिबन्धन। तथाहि तैजसमन्तःकरणं खच्छद्रव्यत्वःत्स्वतएव जीवचैतान्याभिव्यञ्जनसमर्थं घटादिकन्तु न तथाअस्वच्छद्रव्यत्वात्। स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्य-भिभूतजाड्यधर्म्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जन-योग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति। [Page1465-a+ 38] तष्टुक्तं विवरणे अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गि-ण्यपि घटादी चैतन्याभिव्यक्तियोग्यतामापादयतीति। दृष्टञ्चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिविम्बग्राहित्वम्। घटादेरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बग्राहित्वम्चैतन्यस्याभिव्यक्तत्वञ्च तत्र प्रतिविम्बितत्वम्। एवंविधा-भिव्यञ्जकत्वसिद्ध्यार्थमेव वृत्तेरपरोक्षस्थले बहिर्निर्गमना-ङ्गीकारः। परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयीगाभावेन चै-तन्यानभिव्यञ्जकतया नापरोक्षत्वम्। एतन्मते च विषया-णामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम्”।
“एकानेकजीववादौ सिद्धान्तलेशे दर्शितौ यथा।
“अथविद्योदये सत्युपाधिविलयादपेतजीवभावस्य किमीश्वरभावा-पत्तिरुत शुद्धचैतन्यमात्ररूपेणावस्थानमिति विवेचनीयम्। उच्यते। एकजीववादे तदेकाज्ञानकल्पितस्य जी-वेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदवे विलयान्नि-र्विशेषचैतन्यरूपेणैवावस्थानम्। अनेकजीववादमभ्युपगम्यषद्धमुक्तव्यवस्थाङ्गीकारे यद्यपि कस्यचिद्विद्योदये तद-विद्याकृतप्रपञ्चविलयेऽपि बद्धपुरुषान्तराविद्याकृतोजीवे-श्वरविभागादिप्रपञ्चोऽनुवर्त्तते तथापि जीववदीश्वरोऽपिप्रतिबिम्बविशेष इति पक्षे मुक्तस्य विम्बभूतशुद्धचैतन्यरूपेणै-षावस्थानम् अनेकोपाधिष्वेकस्य प्रतिबिम्बे सत्येकोपाधि-विलयेन तत्प्रतिबिम्बस्य विम्बभावेनैवावस्थानौचित्येन प्र-तिविम्बान्तरत्वापत्त्यसम्भवात् तत्सम्भवे कदाचिज्ज्वीवरूप-बिग्वान्तरत्वाषत्तेरपि दुर्वारत्वेनावच्छेदपक्ष इव मुक्तस्यपुनर्बन्धापत्तेः। अतएवानेकजीववादेऽवच्छेदपक्षोनाद्रि-यते तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेःप्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर उभयानुस्यूतं शुद्धचैत-न्यमिति पक्षे तु मुकस्य यावत्सर्वमुक्ति सर्वज्ञत्वस-र्वकर्त्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणकपरमेश्वरभावापत्तिरि-ष्यते यथानेकेषु दर्पणेषु एकस्य मुखस्य प्रतिबिम्बेसत्येकदर्पणापनये तत्प्रतिबिम्बोबिम्बभावेनावातिष्ठते। न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तर-सन्निधानप्रयुक्तस्य मुखे विम्बत्वस्यानपायात् तथैकस्यब्रह्मचैतन्यस्यानेकेषूपाधिषु प्रतिबिम्बे सत्येकस्मिन् प्रतिबि-म्बे विद्योदयेन तदुपाधिविलये तत्प्रतिविम्बस्य बिम्बभावे-नावस्थानावश्यम्भावात्। न च मुक्तस्याविद्याऽभावात् सत्य-कामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः तदविद्याभावेऽपितदानीं बद्धपुरुषान्तरऽविद्यासत्त्वात् न हीश्वरस्येश्वरत्वंसत्यकामादिगुणविशिष्टत्वञ्च स्वाविद्याकृतं तस्य निरञ्जन-[Page1465-b+ 38] त्वात् किन्तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमनवद्यम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकजीववाद/ एक--जीव-वाद m. (in phil. ) the assertion of a living soul only.

"https://sa.wiktionary.org/w/index.php?title=एकजीववाद&oldid=249606" इत्यस्माद् प्रतिप्राप्तम्