एकत्रिक

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्रिक¦ पु॰ अन्नाद्यकामकर्त्तव्ये एकाहसाध्ये यागभेदे
“एकत्रि-केण त्र्येकेण वान्नाद्यकामेन” आश्व॰ श्रौ॰

९ ,

५ ,

१३ , सू॰।
“एकत्रिकः त्र्येकश्च द्वावेकाहौ तयोरन्यतरेणान्नाद्यकामोयजेत। एकत्रिक एवं भवति एकस्तोमो बहिष्पवमानःत्रिस्तोमोहोतुराज्यम्, एवं व्यत्यासेन सर्वत्रेतौ स्तोमौभवतः त्र्येकस्त्वेतावेव स्तोमौ विपरीतौ भवतः त्रिस्तोमोबहिष्पवमानः एकस्तोमोहोतुराज्यम्। एवमेवव्यत्यस्य व्यत्यस्य समापयेत्” नारा॰। कात्या॰

२२ ,

३ ,

२४ ,

२५ ,

२६ सूत्रैः तस्य साद्यस्क्रत्वेन परिभाषां कृत्वा तद्विधानाद्युक्तम्।
“षट् साद्यस्क्राः”

९ सू॰ इत्युपक्रम्य पञ्चक्रतूत्क्रमेण प्रदर्श्य षष्ठमेकत्रिकं प्रतिपादयितुं तद्धर्माःप्रथममुक्ताः
“साद्यस्क्रधर्म्मा हिरण्यस्रग्वत्”

२४ सू॰।
“साद्यस्क्रशब्देनात्र श्येनोऽभिधीयते तस्य धर्म्मालोहिती-ष्णीषादयः हिरण्यस्रग्वत्। यद्यस्योपमुक्तं तत्तस्य भवति” कर्कः।
“साद्यस्क्रधर्म्मा लोहितवस्त्रादय यथा वाजपेयेहिरण्यस्रजो यथोपमुक्तं दीयन्ते एवमत्रापि येन यद्व-स्त्रादि परिहितं तत्तस्मै देयम्” संग्र॰
“एकत्रिके दक्षि-णा षष्टिशतं षट् च

२५ सू॰। एकत्रिकः षष्ठः साद्यस्क्रःतत्र षट्षष्टिशतं दक्षिणा” कर्कः। इतःपरं साद्यक्रधर्म्माः

२६ सूत्रजातैः उक्ताः। तत्र स्तोमादि सामसं॰ भा॰निरूपित यथा(
“एकत्रिकनामकः कश्चित् क्रतुर्भवति, सर्चैवं श्रूयते
“अथैष एकत्रिकस्तस्यैकस्यां बहिष्पवानम्। तिसृषुहोतुराज्यम् एकस्यां मैत्रावरुणस्य तिसृषु ब्राह्मणा-च्छंसिनः, एकस्यामच्छावाकस्य तिसृषु माध्यन्दिनःपवमानः” इति। सन्ति प्रकृतौ माध्यन्दिनपवमानस्यत्रयस्तृचाः
“उचा ते जातम्” इत्ययं (उ

१ प्र,

८ सू॰

२ ,

३ ऋ॰) प्रथमोगायत्रीच्छन्दस्कः,
“पुनानः सोम” इत्ययं(उ

१ प्र,

९ सू॰

१ ,

२ ,

३ ऋ) द्वितोयोवृहतीच्छन्दस्कृः,
“प्र तु[Page1467-a+ 38] द्रवा” इत्ययं (उ

११ प्र,

१० सू॰

१ ,

२ ,

३ ऋ) तृतीयस्त्रि-ष्टुप्छन्दसकः। एतदेवाभिप्रेत्य श्रुतम्, त्रिच्छन्दआवा-पोमाध्यन्दिनः इति। एवं सति एकत्रिकस्य माध्यन्द्रि-नपवमाने तिसृष्विति यदुक्तं तत्र किं त्रयाणां तृचाना-माद्यस्तिस्रः ऋचो ग्राह्याः? किं वा प्रथमतृचस्थाः क्रम-पटितास्तिस्रः? इति संशयः। तत्र त्रिच्छन्दस्त्वश्रुत्याप्रबलया दुबलं पाथक्रमं बाधित्वा प्रथमपक्षो ग्राह्यःइति प्राप्ते, अभिधीयते यदेतत् त्रिच्छन्दस्त्वं तदेतत्प्राकृतम्, तत्र छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात्विकृतावपि तत्सर्वमतिदिष्टमिति चेत् वाढम्! अत एवपाठक्रमोऽप्य तिदिष्टः, तथा सति प्रक्रान्तगायत्रीच्छन्द-स्कस्य तृचस्य समाप्तौ सत्यां पश्चाद् वृहतीच्छन्दस्के तृचेप्रथमायाः ऋवः प्रारम्भावसरः स चारम्भस्तिसृषु इतिविशेषविधानेन बाध्यते, तस्म दाद्य स्तृचोनिखिलोग्राह्यः”

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्रिक/ एक--त्रिक m. N. of a particular एकाहsacrifice Ka1tyS3r. A1s3vS3r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्रिक पु.
अन्तिम साद्यस्क्र याग का नाम, शां.श्रौ.सू. 13.2०.4; ला.श्रौ.सू. 8.5.18; का.श्रौ.सू. 22.3.25 (एकतृके दक्षिणा षष्ठिशतं षट् च)। ०स्तोत्र (एकत्रिकयुक्तं स्तोत्रम्) न. तीन ऋचाओं की इकाई वाला स्तोत्र, आप.श्रौ.सू. 21.25.5. ०स्तोम (एकत्रिकयुक्तः स्तोमः) तीन ऋचाओं वाली स्तोमावृत्ति, ला.श्रौ.सू. 4.8.11; द्रा.श्रौ.सू. 8.4.11।

"https://sa.wiktionary.org/w/index.php?title=एकत्रिक&oldid=477718" इत्यस्माद् पुनः प्राप्तिः