एकदेशविभावितन्याय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेशविभावितन्याय¦ पु॰ एकदेशोविभावितः प्रमाणादि-ना ससाध्याङ्गीकारितो येन तमधिकृत्य न्यायोन्यायसाध्य-स्तकविशेषः। ऋणादानादिव्यवहारे सुवर्णादिबहुद्रवाभियोगे प्रतिवादिनाऽपह्नवे वादिनैकदेशमात्रस्य प्रमाणैः साधनेएकदेशे तयोः सत्यमिथ्यात्वावधारणमूलके सर्वधनदापनानुकू-ले तर्कभेदे तत्र एकदेशसाधने क्वचित् पूर्व्वनिवेदितसर्वधन-दापनं क्वचिन्नेति विषयविशेषव्यपस्थापनम् मिता॰ यथा।
“निह्नुते लिखितन्नैकमेकदेशविभावितः। दाप्यः सर्वं नृ-पेणार्थं, न ग्राह्यस्त्यनिवेदितः” या॰ नैकममेकं सुवर्णरजतवस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्व्वमेवनिह्नुते अपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिःप्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्ब्बलिखि-तं दाप्योऽर्थिने नृपेण न ग्राह्यस्त्वनिवेदितः पूर्ब्बंभाषाकाले अनिवेदितः पश्चादर्थिना पूर्व्वं मया विस्मृतम्इति निवेद्यमानो न ग्राह्योनादर्तव्योनृपेण। एतच्च नकेवलं वाचनिकमेकदेशे प्रत्यर्थिनोमिथ्यावादित्वसम्भ-वात्। अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्त-रेऽपि सत्यवादित्वसम्भवात्। एवं तर्क्वापरनामसम्भा-वनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनतः सर्व्वंदापनोयम् नृपेण इति निर्णयः। एवञ्च तर्क्ववाक्या-नुसरणेन निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेपि व्यवहार[Page1472-b+ 38] दर्शिनान्न दोषः तया च गौतमः”
“न्यायाधिगमे तर्क्वो-भ्युयेयस्तेनाभ्युह्य यथास्थानङ्गमयेत्” इत्युक्त्वा
“तस्माद्राजा-चार्य्यावनिन्द्यौ” इत्युपसंहरति। नचैकदेशविभाविती-नुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते एकदेशवि-भावितो नृपेण सर्वन्दाप्य इति वचनात्। यत्तु कात्या-यनेनोक्तम्।
“अनेकार्थाभियोगेऽपि यावत् संसाधयेद्धनी। साक्षिभिस्तावदेवासौ लभते साधितन्धनमिति” तत् पुत्रा-दिदेयपित्राद्यृणविषयम्। तत्र हि बहूनर्थानवियुक्तःपुत्रादिर्न जानामीति प्रतिवदन् निह्नववादी न भवती-त्येकदेशविभावितोऽपि न क्वचिदसत्यवादीति
“निह्नुतेलिखितन्नैकमिति शास्त्रन्तत्र न प्रवर्त्तते। निह्नवाभा-वादपेक्षिततर्क्वाभावाच्च”
“अनेकार्थाभियोगेऽपीति” कात्या-यनवचनं सामान्यविषय विशेषशास्त्रस्य विषयं निह्न-वोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्त्तते। ननु
“ऋणादिषुविवादेषु स्थिरप्रायेषु निश्चितम्। ऊने वाप्यधिके चार्थेंप्रोक्ते साध्यन्न सिध्यतीति” वदता कात्यायनेन अनेकार्था-भियोगे साक्षिभिरेकदेशे विभाविते अधिके वा भावितेसाध्यं सर्वमेव न सिध्यतीत्युक्तम्। तथा सत्येकदेशे भा-विते अभावितैकदेशसिद्धिः कुतस्स्यात्? उच्यते लिखितसर्वार्थसाधनतयोपन्यस्तैःसाक्षिभिरेकदेशाभिधानेऽधिकाभि-धाने च कृत्स्नमेव साध्यं न सिध्यतीति तस्यार्थस्त-त्रापि निश्चितन्न सिध्यतीति वचनात्पूर्व्ववत् संशय एवे-ति प्रमाणान्तरस्यावमरोऽस्त्येव
“छलं निरस्येति” नियमात्। साहसादौ तु सकलसाध्यसाधनतयोपदिष्टैः साक्षि-भिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव ता-वतैव साहसादेः सिद्ध्वत्वात्कात्यायनवचनाच्च।
“साध्या-र्थांशेऽपि गदिते साक्षिभिः सकलम्भवेत्। स्त्रीसङ्गे सा-हसे चौर्य्ये यत्साध्यं परिकीर्त्तितम्”। ( असुयेवार्थमवलम्ब्य एकदेशविभावितन्यायः प्रवर्त्तते इ-त्येकदेशविभावितन्यायस्य तादृशार्थकत्वम् इति बोध्यम्।

"https://sa.wiktionary.org/w/index.php?title=एकदेशविभावितन्याय&oldid=249759" इत्यस्माद् प्रतिप्राप्तम्