एकपत्नी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपत्नी, स्त्री, (एकोऽद्वितीयः पतिर्यस्याः इति विग्रहे “नित्यं सपत्न्यादिषु” इति एकपतिशब्दस्य नकारान्तादेशे “ऋन्नेभ्य” इति ङीप् ।) पति- व्रता । इति त्रिकाण्डशेषः ॥ (यथा, मेघदूते । १० ॥ “ताञ्चावश्यं दिवसगणनातत्परामेकपत्नीम्” ॥ एकः समानः पतिर्यस्या इति विग्रहे । सपत्नी । यथा मनुः । ९ । १८५ । “सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत् । सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्रवतीर्मनुः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपत्नी¦ स्त्री एकः समानः अनन्योवा पतिर्य्यस्याः नान्तादेशःनान्तत्वात् ङीप्

१ सपत्न्याम्
“सर्वासामेकपत्नीनामेकाचेत् पुत्रिणी भवेत्। सर्वास्तास्तेन पुत्रेण प्राह पुत्रव-तीर्मनुः” मनुः

२ पतिव्रतायाञ्च।
“यो धर्म एकपत्नी-नां काङ्क्षन्ती तमनुत्तमम्” मनुः
“ताञ्चावश्यं दिव-सगणनातत्परामेकपत्नीम्” मेघ॰।
“कामेकमत्नीं व्रत-दुःखशीलाम्” कुमा॰। एकःपतिरीशो यस्य वा कप्। एकपतिक एकस्वामिके त्रि॰ स्त्रियां टाप्।
“पत्युर्नोयज्ञ-सम्बन्ध” इत्यधिकारात् भर्त्रर्थकस्यैव नादेशङीपौ नेतरस्य।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपत्नी¦ f. (-त्नी)
1. A faithful wife, one devoted to her husband.
2. The wife of a man who has no other wives. E. एक one or excellent, पति a husband, न substituted for the final, and ङीप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपत्नी/ एक--पत्नी f. a woman who has only one husband or lover , a faithful wife , one devoted to her husband or lover Pa1n2. iv , 1 , 35 AV. x , 8 , 39 MBh. Mn. etc.

एकपत्नी/ एक--पत्नी f. pl. ( यस्)women who have the same husband Mn. ix , 183

एकपत्नी/ एक--पत्नी f. a single wife , an only wife BhP.

"https://sa.wiktionary.org/w/index.php?title=एकपत्नी&oldid=493912" इत्यस्माद् प्रतिप्राप्तम्