एकपर्ण्णा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपर्ण्णा¦ स्त्री एकं पर्ण्णं तपःसाधनतया आहारो यस्याः। शैलराजस्य मेनायादुत्पन्नदृहितृत्रयमध्ये

१ दुहितृमेदे।
“तिस्रःकत्यास्तु मेनायां जनयामास शैलराट्। अपर्ण्णामेकपर्ण्णाञ्चतृतीयामेकपाटलाम्” इत्युपक्रम्य।
“आहारमेकपर्ण्णेनएकपर्ण्णा समाचरत्” हरि॰

१८ अ॰। स्वार्थे कन् बहु॰ कप्वा अत इत्त्वम् अपर्ण्णिकाप्यत्र।
“अप्यपर्ण्णा निराहाराएकाशा एकपर्ण्णिका” देवीपु॰

४५ अ॰। अस्य पूर्वोक्तवा-क्येनैकवाक्यतया हिमवत्क याभेदपरत्वम् न तु दुर्गापरत्वमिति बोध्यम्। एकमात्रं पर्ण्णमस्य। एकपत्रावशेषे-वृक्षादौ त्रि॰

"https://sa.wiktionary.org/w/index.php?title=एकपर्ण्णा&oldid=249960" इत्यस्माद् प्रतिप्राप्तम्