एकभक्तव्रतम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभक्तव्रतम्, क्ली, (एकं भक्तं भोजनं यत्र तत् व्रतम् ।) रात्रिभोजनाभावविशिष्टदिवाभोजनम् । तथा च स्कन्दपुराणे । “दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्तं रात्रौ तन्न कदाचन” ॥ (अस्य व्रतस्य नियमफलादिकञ्चोक्तं विष्णुधर्म्मो- त्तरे । तद्यथा, -- “चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षिपेत् । सुवर्णमणिमुक्ताढ्यं गार्हस्थ्यं समवाप्नुयात् ॥ अहिंस्रः सर्व्वभूतेषु वासुदेवपरायणः । नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् ॥ अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् । यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः ॥ अहिंस्रः सर्ष्वभूतेषु वासुदेवपरायणः । नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् ॥ पौण्डरीकस्य यज्ञस्य ततः फलमवाप्नुयात् । दशवर्षसहस्राणि स्वर्गलोके महीयते ॥ तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते” ॥ इति ॥)

"https://sa.wiktionary.org/w/index.php?title=एकभक्तव्रतम्&oldid=120934" इत्यस्माद् प्रतिप्राप्तम्