एकरम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरम¦ त्रि॰ एकोऽनन्यविषयकोरसः रागः अभिप्रायः एको-ऽभिन्नः खभावो वाऽस्य।

१ एकरागे

२ एकाभिप्राये

३ अ-भिन्नस्वमावे च
“अस्थूलमनण्वह्रस्वमदेर्घममनन्तमनपरम-बाह्यं प्रज्ञानघनमेकरसम्” इति श्रुतिः
“चिदेकरसवस्तुनिवेदा॰। एकोरसोयत्र।

४ एकरागविषये त्रि॰
“तपस्येकरसे रतम्” रामा॰। एकोरसोवर्ण्यत्वेन यत्र। प्राधा-न्येन एकरसयुक्ते

५ नाटके न॰।
“एकएव भवेदङ्गी शृ-ङ्गारो वीरएव वा। अङ्गान्यन्येरसास्तत्र” इति सा॰ द॰उक्तेः नाटकस्य प्राधान्येन शृङ्गारवीररसान्यतरवत्त्वेनवर्णनीयत्वात्तथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=एकरम&oldid=250206" इत्यस्माद् प्रतिप्राप्तम्