सामग्री पर जाएँ

एकवस्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकवस्त्र¦ त्रि॰ एकं वस्त्रं यस्य।

१ उत्तरीयवस्त्रशून्ये

२ एक-जातीयवस्त्रान्विते च एकवासःप्रभृतयोऽप्यत्र। कर्म्म॰। एकस्मिन् वस्त्रे उत्तरीयरहितपरिधानमात्रवस्त्रे न॰। तन्मात्रे स्नाननियेधमाह आ॰ त॰ गौतमः
“एकवस्त्रेण यत्स्नानं सूच्या विद्धेन चैव हि। स्नातस्तु नच विशुद्धः स्यात् श्रिया च परिहीत्यते” अतएव
“स्नानंतर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा”। इति यदि समूलं तदाप्रेततर्पणपरमिति। तत्र
“एकवस्त्रा ज्ञातयः” इत्यादिनाएकवस्त्रत्वविधानात्
“एकेन एकजातीयेन इति” वाचस्पति-मिश्रः
“येन वाससा स्नानं कृतं जलस्थस्य तेनैव तर्पणम्” इति कृत्यतत्त्वार्णवः। न च
“स्नानशाठ्यान्तु दातव्यामृ-दस्तिस्रोविशुद्धये। जलमध्ये तु यः कश्चित् द्विजातिर्ज्ञान-दुर्बलः। निप्पीडयति तद्वस्त्रं स्नानं तस्य वृथा भवेत्”। इति वशिष्टवचने स्नानशाट्यामिति तद्वस्त्रमिति एकवचन-निर्देशेन च स्नानेऽप्येकवस्त्रत्व मिति वाच्यम्। अत्रविशुद्धय इत्यभिधानेनाधोधृतवस्त्रस्यैव मृत्त्रयेण प्रक्षालनंनतृत्तरीयस्य एतदर्थमेकवचनम्। अतएव
“मृत्त्रयेणाध-रीयवस्त्र प्रक्षाल्य” इत्याह्निकचिन्तामणिः। वशिष्टवच-नैकवाक्यतया
“स्नातोनाङ्गानि निर्मृज्यात् स्नानशाठ्या नपाणिना” इति विष्णुपुराणीयेनाधरीयवस्त्रेणैव गात्र-मार्ज्जनं निषिध्यते। एतेन
“निष्पीड्य स्नानवस्त्रमिति” कात्यायनवचने एकत्वमविक्षितमिति निरस्तम्। अतएवसर्वत्रैकवचननिर्द्देशः” आ॰ त॰ रघु॰। एवं वैदिक-कर्म्ममात्रे एकवस्त्रतानिषेधः उत्तरोयशब्दे दर्शितः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकवस्त्र/ एक--वस्त्र mfn. having but a single garment , clothed in only one garment A1p. Pa1rGr2. Hcat. etc.

"https://sa.wiktionary.org/w/index.php?title=एकवस्त्र&oldid=250328" इत्यस्माद् प्रतिप्राप्तम्