सामग्री पर जाएँ

एकविंशत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकविंशत्¦ स्त्री एकाधिका विंशतिः पृ॰। (एकुश)

१ संख्या-भेदे

२ तदन्विते च एकविंशतिशब्दोऽप्यत्र स्त्री। एक-विंशतः एकविंशतेर्वा पूरणः डट्। एकविंश तत्संख्यापूरणेस्वार्थे कन् तत्रैवार्थे
“दश पूर्वान् परान् वंश्यानात्मानंचैकविंशकम्” मनुः। पूरणार्थे डटि वा तमटि तु एक-विंशत्तम एकविंशतितम इतिभेदः तत्पूरणार्थे स्त्रिया-मुभयतो ङीप्। तदस्मिन्नधिकं शते सहस्रे वेत्यर्थे कन्। एकविंशतिक एकविंशदक एकविंशत्यधिकशतादौ वृद्ध्याय-लाभोपदारूपेण दीयते इत्यर्थे कन्। एकविंशतिक एक-विंशत्क वृद्ध्यादिरूपेण दीयमानविंशतिके शते। अवयवेकन् रूपमुक्तवत् एकविंशतिसंख्यायां न॰। एकविंशति-र्मन्त्राः परिमाणमस्य स्तोमस्य ड। एकविंश

१ तावन्मन्त्रकेस्तोमभेदे एकविंशस्तोभशब्दे तिवृतिः।
“शत्शनोडिनि-र्वक्तव्यः”
“विंशतेश्च” वार्त्ति॰ डिनि। एकविंशिन् एक-विंशतिसंख्यायुक्ते त्रि॰ स्त्रियां ङीप्। प्रकारे धा एकविंशतिधा एकविंशतिप्रकारे अव्य॰। एकाधिका विंशतिःसंख्येया डच् समा॰। एकाधिकविंशतिसंख्येये। एकविंश संख्यातः स्तोमोऽस्त्यस्य मतुप् मस्य वः। एकविंश-वत् एकविंशस्तोमान्विते त्रि॰ स्त्रियां ङीप्।
“त्रिवृद्वतींपुरस्तादुपदधात्येकविंशवतीं पश्चात्” शत॰ ब्रा॰

८ ,

४ ,

४ ,

१ । [Page1481-b+ 38]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकविंशत्/ एक--विंशत् f. twenty-one R.

"https://sa.wiktionary.org/w/index.php?title=एकविंशत्&oldid=250382" इत्यस्माद् प्रतिप्राप्तम्