एकविंशस्तोम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकविंशस्तोम¦ पु॰ कर्म्म॰। एकविंशतिमन्त्रपरिमितेस्तोमभेदे
“एकविंशस्तोमेन ऋषभो याज्ञतुरईजे” शत॰ ब्रा॰
१३ ,
५ ,
४ ,
१५ , स्तोमश्च सोमादियागेषु सामगैःक्रियमाणः पृष्ठ्यादिसंज्ञः स्तुतिभेदः। एकविंशस्तोमस्यविष्टुतिप्रकारः ताण्डम॰ ब्रा॰ भा॰ दर्शितो यथा
“एकविंशस्तोमस्य चतस्रो विष्टुतयः। तत्र सप्तसप्तिन्या-ख्यां प्रथमां विष्टुतिं दर्शयति” भा॰।
“सप्तभ्यो हि-ङ्करोति स तिसृभिस्य तिसृभिस्स एकया, सप्तभ्यो हिङ्क-रोति स एकया स तिसृभिः स तिसृभिः, सप्तभ्यो हिङ्क-रोति स तिसृभिस्स एकया स तिसृभिः, सप्तसप्तन्येकविं-शस्य विष्टुतिः” ब्रा॰।
“अथास्यैव स्तोमस्य उद्यत्याख्यांद्वितीयां विष्टुतिमाह” भा॰।
“पञ्चभ्यो हिङ्करोतिस तिसृभिः स एकया स एकवा, सप्तभ्यो हिङ्करोति सएकया स तिसृभिः स तिसृभिः, नवभ्यो हिङ्करोति स ति-सृभिः स तिसृभिः स तिसृभिरुद्यत्येकविंशस्य विष्टुतिः” ब्रा॰।
“अथास्यैव स्तोमस्य प्रतिष्टुतिर्नाम तृतीता विष्टुतिः प्रद-र्श्यते” भा॰।
“नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिःस तिसृभिः, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः सएकया, सप्तभ्यो हिङ्करोति स तिसृभिः स एकया सति-सृभिः, प्रतिष्टुतिः” ब्रा॰।
“त्रिवृदादिस्तीमचतुष्टय-प्रतिरूपकत्वात् अस्याः प्रतिष्टुतिरिति संज्ञा यौगिकीअथास्यैव स्तोमस्य सूर्म्याख्यां चतुर्थी विष्टुति दर्शयति” भा॰।
“नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स-तृसृभिः, तिसृभ्यो हिङ्करोति स पराचीभिः, नवभ्यो हि-ङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्युभयतआदीप्ता” ब्रा॰।
“उभयत आद्यान्त्ययोः पर्य्याययोरृङ्-नवकान्तेन त्रिवृत्त्वादुभयतः आदीप्ता त्रिवृतश्चाग्नंश्च प्रजा-पतिमुखात् सहोत्पत्तेरादीप्ता सूर्मी कृशा मध्ये स्थूलेतरातत्सादृश्यादस्या अप्येषा संज्ञा। अस्या अपि मध्यमपर्य्या-यस्य ऋक्त्रयात्मकत्वेन ऋङ्नवकाभ्यामल्पत्वात्” भा॰। अत्र उद्यतीशब्दे दर्शिततद्भाष्यानुसारेण एतदर्थोदर्श्यतेएकैककस्य साम्नः पञ्च भक्तयः प्रस्तावोद्गीथप्रतिहारो-पद्रवनिधनाख्याः तत्र हिङ्कारस्तु त्रिभिस्त्रिभिरुद्गातृभिःकर्त्तव्यः
“साम्ने साम्ने हिंकुर्य्युरिति” सूत्रकृतोक्तेः। तथा च सप्तभ्य इति चतुर्थी सप्त ऋचोगातुं हिङ्कुर्य्यु-रित्यर्थः। तत्र एकैकं सूक्तं त्रिरावर्त्तनीयम्। तत्राद्या-वृत्तौ आद्याया द्वितीयायाश्च त्रिरभ्यासः। द्वितीयावृत्तौद्वितीयाया अन्त्यायाश्च त्रिरभ्यासः। तृतीयावृत्तौ[Page1482-a+ 38] आद्यान्त्ययोस्त्रिरभ्यासः। एवं सप्तसप्तिनी नाम विष्टुतिः। पर्य्यायत्रयेऽपि सप्तर्चैः स्तवनात् तथात्वम् सप्त सप्त ऋचप्रतिपर्य्यायं परिमाणमस्यां
“शन्शतो डिनि” वात्ति॰ डि-नि ङीप्। सप्तसप्तिनीति व्युत्पत्तेरन्वर्थसंज्ञा। पञ्चऋ-चोगातुं हिङ्कुर्य्युरित्यर्थः। तत्र पञ्चानां मध्ये आद्यावृत्तौआद्याया स्त्रिरावृत्तिः। द्वितीयावृत्तौ सप्तर्चोगातुं हिङ्कुर्य्युःतत्र मध्यमान्त्ययोस्त्रिरावृत्तिः। तृतीयावृत्तौ नवर्चो गातुंहिङ्कुर्य्युः तत्र च सर्वासां त्रिरावृत्तिः इयमुद्यत्येकविं श-स्तोमस्य विष्टुतिः। पञ्चर्चसप्तर्चनवर्चानां यथोत्तरमु-त्कर्षाधिक्येन उद्यतीतिसंज्ञाऽन्वर्था। नवर्चो गातुंहिङ्कुर्य्युः तत्राद्यावृत्तौ सर्वासां त्रिरभ्यासः। ततःपञ्चर्चो गातुम् हिङ्कुर्य्युः। तासु द्वितीयायाः त्रिरा-वृत्तिः। ततः सप्तर्चोगातुं हिङ्कुर्य्युः। तृतीयावृत्तौ तासुआद्यान्त्ययोस्त्रिरभ्यासः। इयं प्रतिष्टुतिर्नाम तस्यस्तोमस्य विष्टुतिः। नवर्चोगातुं हिङ्कुर्य्युः आद्यावृत्तौतासु सर्वासां त्रिराभ्यासः। ततस्त्रिस्रऋचोगातुं हि-ङ्कुर्य्युः। द्वितीयावृत्तौ तासां कस्याअपि न त्रिरा-वृत्तिः। ततो नवर्चो गातुं हिङ्कुर्य्युः तत्र तृतीयावृत्तौसर्वासां त्रिरावृत्तिः। इयमस्य स्तोमस्य सूमीं नामविष्टुतिः तत्संज्ञानिमित्तं भाष्ये उक्तम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकविंशस्तोम/ एक--विंश---स्तोम m. a स्तोम(See. )consisting of twenty-one parts TS. v S3Br. xiii.
