सामग्री पर जाएँ

एकवीरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकवीरः पुं, वृक्षभेदः । तत्पर्य्यायः । महावीरः २ सकृद्वीरः ३ सुवीरकः ४ । अस्य गुणाः । मदका- रित्वम् । अत्युष्णत्वम् । कटुत्वम् । तोदवातनाशि- त्वम् । चटुलीकटिपृष्ठादिचलपक्षाभिघातहारि त्वञ्च । इति राजनिर्घण्टः ॥ (त्रि, एकः अद्वितीयो वीरः । वीरवरः । प्रशस्तवीर्य्यशाली । यथा भागवते ३ । १ । ४० । “अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्य्येण विनापि तेन । यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकवीरः&oldid=120968" इत्यस्माद् प्रतिप्राप्तम्