एकशृङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशृङ्गः, पुं, (एकं शृङ्गं यस्य ।) विष्णुः । इति त्रिकाण्डशेषः ॥ (स्वायम्भुवमन्वन्तरे अकालप्रलयात् मत्स्यरूपधरस्यास्य शृङ्गे मनोर्नौर्बद्धा । तत्कथा यथा कालिकापुराणे ३२ अध्याये । “स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार वै तदा । ततो जलानामुपरि सशृङ्ग इव पर्ब्बतः ॥ उद्दीप्तश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् । आगतस्तत्र न चिरात् यत्रास्ते समनुर्हरिः” ॥ विस्तृतिस्तु आकालिकशब्दे द्रष्टव्या ।) एकशृङ्ग- युक्तपशुमात्रम् ॥ (पितृगणभेदः । यथा, महा- भारते २ । ११ । ४१-४३ । “पितॄणाञ्च गणान् विद्धि सप्त वै पुरुषर्षभ ! । मूर्त्तिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः ॥ वैराजाश्च महाभागा अग्निस्वात्ताश्च भारत । गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥ सोमपा एकशृङ्गाश्च चतुर्व्वेदाः कलास्तथा । एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशृङ्ग¦ पु॰ एकमेकत्वं शृङ्गं प्रधान्यमत्र। एकत्वस्वभावे

१ विष्णौ त्रिका॰।

२ पितृगणभेदे।
“पितॄणाञ्च गणान् वि-द्धि सप्त वै पुरुषर्षभ!। मूर्त्तिमन्तो वै चत्वारस्त्रयश्चा-प्यशरीरिणः। वैराजाश्च महाभागा अग्निष्वात्ताश्चभारत!। गार्हपत्या नाकचराः पितरोलोकविश्रुताः। सोमपा एकशृङ्गाश्च चतुर्वेदकलास्तथा। एते चतुर्षु वर्ण्णेषुपूज्यन्ते पितरो नृप!। एतैश्चाप्यायितैः पूर्ब्बं सोमश्चा-प्यायते पुनः” भा॰ स॰

११ अ॰।

३ शुकदेवमहिष्माम्स्त्री। शृङ्गशब्दस्य प्राधान्यवाचकतया अस्वाङ्गवाचित्वात्न ङीष्।
“तवैव वंशे या दत्ता शुकस्य महिषी प्रिया। एकशृङ्गेति विख्याता साध्वीनां कीर्त्तिवर्द्धिनी” हरिवं॰

११

८ अ॰। एकं शृङ्गं शिखरमस्य।

४ एकशिखरे पर्वतेपु॰। एकं शृङ्गसस्य।

५ एकशृङ्गयुक्ते पशौ पुंस्त्री॰स्त्रियां ङीष्। [Page1484-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशृङ्ग¦ m. (-ङ्गः)
1. A title of VISHNU or KRISHNA.
2. A unicorn, a rhinoceros, &c. E. एक and शृङ्ग a mark or horn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशृङ्ग/ एक--शृङ्ग mfn. having but one horn , unicorn L.

एकशृङ्ग/ एक--शृङ्ग mfn. having but one peak (as a mountain) T.

एकशृङ्ग/ एक--शृङ्ग mfn. being of singular eminence , pre-eminent

एकशृङ्ग/ एक--शृङ्ग m. N. of विष्णुL.

एकशृङ्ग/ एक--शृङ्ग m. pl. a class of Manes MBh. ii

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hill south of the मानस. वा. ३६. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKAŚṚṄGA : One of the Saptapitṛs. Vairāja, Agniṣ- vātta, Gārhapati, Somapa, Ekaśṛṅga, Caturveda and Kāla are the seven pitṛs. All these seven stayed in Brahmasabhā worshipping him. (Ślokas 47 and 48, Chapter 11, Sabhā Parva).


_______________________________
*2nd word in right half of page 268 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकशृङ्ग&oldid=426969" इत्यस्माद् प्रतिप्राप्तम्