एकशृङ्गः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकशृङ्गः, पुं, (एकं शृङ्गं यस्य ।) विष्णुः । इति त्रिकाण्डशेषः ॥ (स्वायम्भुवमन्वन्तरे अकालप्रलयात् मत्स्यरूपधरस्यास्य शृङ्गे मनोर्नौर्बद्धा । तत्कथा यथा कालिकापुराणे ३२ अध्याये । “स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार वै तदा । ततो जलानामुपरि सशृङ्ग इव पर्ब्बतः ॥ उद्दीप्तश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् । आगतस्तत्र न चिरात् यत्रास्ते समनुर्हरिः” ॥ विस्तृतिस्तु आकालिकशब्दे द्रष्टव्या ।) एकशृङ्ग- युक्तपशुमात्रम् ॥ (पितृगणभेदः । यथा, महा- भारते २ । ११ । ४१-४३ । “पितॄणाञ्च गणान् विद्धि सप्त वै पुरुषर्षभ ! । मूर्त्तिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः ॥ वैराजाश्च महाभागा अग्निस्वात्ताश्च भारत । गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥ सोमपा एकशृङ्गाश्च चतुर्व्वेदाः कलास्तथा । एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप” ॥)
