एकषष्ट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकषष्ट¦ त्रि॰ एकषष्ट्याः पूरणः डट् संख्यापूर्बकत्वात् डटिन तमट्। एकषष्टिपूरणे यत्संख्यया एकषष्टिः पूर्य्यतेतत्संख्यान्विते स्त्रियां ङीप्। एकषष्ट्या युतं शतादिडट् मुग्ध॰।
२ एकषष्ट्या युते शते सहस्रे च तेन स्वयंकविकल्पद्रुमे उक्तम्
“इति स्फीतः सप्तदशशत्या षट्-कोनषष्टया”। पा॰ मते तु नात्र डट् तेन दशान्तात्शदन्तात् विंशतेश्च तदस्मिन्नधिकमित्यर्थे डटोविधानादितिभेदः। तेन तन्मते एकषष्टिरस्त्यस्याधिकतया अर्श॰ अच्। तेन तद्रूपसिद्धिः स्वरे भेदः। इदन्त्ववधेयम् येषाम् अच्-प्रत्ययेन न रूपसिद्धिस्तेषामेव सूत्रकृता दशान्तस्यशदन्तस्य विंशतेश्च ग्रहणं कृतम् षष्टिसप्तत्यशीतिनवत्यन्तानां तु अच्प्रत्ययेनैव तद्रूपसिद्धेर्न तेषां ग्रहणमिति। एवमेकसप्ततादयोऽपि तत्तत्संख्यापूरणे त्रि॰ तत्तत्संख्या-धिके शते सहस्रे च न॰। एकषष्ट्यादि परमाणमेषां ड। एकषष्ट्येकसप्ततादि तत्तत्संख्यामिते त्रि॰ एकषष्ट्यादिअधिकमस्मिन् शते सहस्रे वा कन् एकषष्टिकैसप्ततिकादि-तत्तत्संख्याधिके, शते सहस्रे च। अवयवे कन्। एक-षष्टिकैकसप्ततिकादयस्तत्तत्संख्यायां न॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकषष्ट/ एक--षष्ट mfn. (fr. the next) , the 61st
एकषष्ट/ एक--षष्ट mfn. connected or together with 61 S3Br. etc.
