एकाक्षः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकाक्षः, पुं, (एकमक्षि यस्य । सक्थ्यक्ष्णोः साङ्गात् षच् ।) काकः । इति शब्दचन्द्रिका ॥ (काकस्य यथा एकनेत्रत्वं जातम् । तत् पाद्मे भरतस्यायोध्यां प्रतिनिवृत्त्यनन्तरमुक्तम् । तद्यथा, -- “राघवश्चित्रकूटाद्रौ सानुजोऽरमत स्त्रिया । कदाचिदङ्के वैदेह्या निद्राणे रघुनन्दने ॥ ऐन्द्रः काकः समागम्य जानकीं वीक्ष्य कामुकः । विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् ॥ तत् दृष्ट्वा राघवः क्रुद्धः कुशं जग्राह पाणिना । ब्राह्मेणास्त्रेण संयोज्य चिक्षेप धाङ्क्षमारणे ॥ तत् दृष्ट्वा घोरसङ्काशं ज्वलत्कालानलोपमम् । दृष्ट्वा काकः प्रदुद्राव निनदन् दारुणस्वनम् ॥ वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः । यत्र यत्र ययौ काकः शरणार्थी च वायसः ॥ तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् । ब्रह्माणमिन्द्रं रुद्रं मां शरणार्थी जगाम सः ॥ तत् दृष्ट्वा वायसं भीतं देवता न ररक्षिम । न शक्ताः स्म वयं त्रातुं राघवास्त्राद्भयङ्करात् ॥ इत्यब्रूम महादेवा अन्यथास्त्रं दहेच्च नः । पुनश्चागात् विधिं काको दयया विधिराह तम् ॥ भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज । स एव रक्षकः श्रीशः शरणागतवत्सलः ॥ इत्युक्तः सोऽथ बलिभुक् ब्रह्मणा रघुनन्दनम् । उपेत्य सहसा भूमौ निपपात भयातुरः ॥ प्राणसंशयमापन्नं दृष्ट्वा सीता तु वायसम् । त्राहि त्राहीति भर्त्तारमुवाच दयिता विभुम् ॥ तच्छिरः पादयोस्तस्य युयुजे चाथ जानकी । तमुत्थाप्य करेणाथ कृपापीयूषसागरः । ररक्षामौ निजास्त्राय तदेकाक्षि ददौ तदा ॥ वावसोऽपि मुहुर्नत्वा सीतायै राघवाय च । स्वर्लोकं प्रययौ हृष्टो राघवेणाभिपालितः” ॥) एकनेत्रविशिष्टे काणे त्रि ॥
