सामग्री पर जाएँ

एकाग्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकाग्रः, त्रि, (एकं एकस्मिन् वा अग्रं पुरोगतं ज्ञेय- मस्य ।) अनन्यचित्तः । तत्पर्य्यायः । एकतानः २ अनन्यवृत्तिः ३ एकायनः ४ एकसर्गः ५ एकाग्य्रः ६ एकायनगतः ७ । इत्यमरः ॥ (यथा, मनुः । १ । १ । “मनुमेकाग्रमासीनमभिगम्य महर्षयः” । “एकाग्रं विषयान्तराव्याक्षिप्तचित्तम्” । इति कुल्लुकभट्टः । तथा भागवते ८ । १६ । ३ । “मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि । वासुदेवे समाधाय चचार ह परव्रतम्” ॥ तथा गीतायाम् ६ । १२ । “तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासाने युञ्ज्याद्योगमात्मविशुद्धये” ॥ “एकाग्रं विक्षेपरहितं मनः कृत्वा” । इति स्वामि- टीका ।) अनाकुलः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=एकाग्रः&oldid=121008" इत्यस्माद् प्रतिप्राप्तम्