एकादशगुरु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकादशगुरु¦ पु॰ एकदशमिता गुरवः।
“आचार्य्यश्च पिताज्योष्ठोभ्राता चैव महीपतिः। मातुलः श्वशुरस्त्रातामातामहपितामहौ। वर्ण्णज्यष्ठः पितृव्यश्च पुंस्वेते[Page1499-b+ 38] गुरवोमताः” इति देवलोक्तेषु आचार्य्यादिषु। त्रातात्राणकत्तां। वर्ण्णज्येष्ठः क्षत्रियादीनां ब्राह्मणादिः।
“अनेनैकादश गुरवःसङ्केतिताः। कथमनेकेषामेकगुरुशब्दबाच्यत्वमेकस्य प्रवृत्तिनिमित्तस्याभावात् इति चेन्न
“गुरुरनुगन्तव्यः” इत्यादि श्रुत्या सदापरितोषणीयत्वादिधर्म्मात्मकस्योपाधित्वात् यद्यप्याचार्य्यस्यैव परितोषणी-यता श्रूयते तथापि तदन्येष्वतिदिश्यते अतोऽतिदिष्टध-र्म्मोऽप्येकपदप्रवृत्तावुपाधिर्भवति इष्टिशब्दप्रवृत्ताविवतद्धर्म्मसंबन्धः शास्त्रीयगुरुपदप्रवृत्तिविषयत्वं वोपाधिर्भवतु विशेषाग्रहादक्षादिशब्दवदनेकार्थतैव कोदोषः” प्रा॰वि॰। अयञ्च शब्द एकादशिन्शब्दात् पूर्ब्बं बोध्यःप्रमादात्तत्र न लिखितोऽतोऽत्र लिखितः।
