एकादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादि¦ त्रि॰ एक आदिर्यस्य।

१ एकत्वस ख्यान्वितमारभ्यपरार्द्धान्तसंख्यायुक्ते।

२ तत्स्मारके रेखासन्निवेशविशेषरूपे-[Page1500-a+ 38] अङ्के च। अङ्काश्च नव तेषामेव स्थानविशेषयोगभेदेनविभिन्नसंख्यास्मारकत्वम्। अथ एकाद्यङ्कैः यद् यत्संख्या-न्विताः स्मार्य्यन्ते तदुच्यते।

१ इत्यङ्केन एकः एवं

२ , द्वौ,

३ , त्रयः,

४ , चत्वारः

५ , पञ्च

६ , षट्

७ , सप्त

८ , अष्टौ

९ , नव

१० , दश। द-शानामेकादिनवभिरङ्कैराधिक्ये

११ ,

१२ ,

१३ ,

१४ ,

१५ ,

१६ ,

१७ ,

१८ ,

१९ इत्येतेऽङ्काः क्रमेण एकादशद्वादशत्रयोदशचतुर्द्दशपञ्चदशषोडशसप्तदशाष्टादशनवदशानां स्मारकाः। दशाङ्कस्यच द्व्यादिनवभिर्गुणने क्रमेण

२० ,

३० ,

४० ,

५० ,

६० ,

७० ,

८० ,

९० एतेऽङ्काः क्रमेण विंशतित्रिंशच्चत्वासिशत्-पञ्चाशत्षष्टिसप्तत्यशीतिनवतिसंख्यान्वितानां स्मार{??}आः। एषाञ्च एकादिकनवभिराधिक्ये

२१ ,

२२ ,

२३ ,

२४ ,

२५ ,

२६ ,

२७ ,

२८ ,

२९ , इत्येतेऽङ्का एकविंशत्यादीनां स्मारा{??}आः। एवं

३१ इत्यादयोऽङ्का एकत्रिंशदादीनां स्मारकाः। दशभिर्गुणिते दशाङ्के

१०

० इत्यङ्कः शतस्य स्मारकः। क्रमेण दशो-त्तरगुणने
“एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्वुदमब्जं सर्वनिखर्वं महापद्मशङ्कवस्तस्मात्। जलधि-श्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञाः संख्यायाःस्थानानां व्यवहारार्थं कृताः पूर्वैः” इति लोलावत्युक्तदिशा-वसेयम्। संक्षेपेण तत्रैकाद्यङ्गानां क्रमशः स्थितानां योगजसंख्याज्ञानार्थमुपायान्तरमुक्तं तत्रैव यथा
“एकादिन-वानामङ्कानां योगे का संख्येति प्रश्ने
“सैकपदघ्नपदार्द्धमथै-काद्यङ्कयुतिः किल सङ्कलिताख्या” इत्युक्तरीत्या पृष्ठसंख्या-पदं एकयुक्तेन तेन

१० अङ्केनाहतं पृष्ठाङ्कार्द्धम्



२४

५ संङ्कलितसंख्या। तथाचैकादिनवाङ्क्यानां योगे

४५ संख्या भवतीति निश्चय एवमन्यत्राप्यूह्यम्।
“एकाद्येको-त्तरा अङ्का व्यस्ता भाज्याः क्रमस्थितैः” लीला॰एकादिसंख्यानां वाचकाश्च कतिचित् शब्दाः कविकल्प-कतायां संगृहीताः यथा।
“एकोब्रह्मेन्द्रहस्त्यश्वगजास्यदन्तशुक्रदृक्

१ । द्वयं पक्षनदीकूलासिधारारामनन्दनौ

२ । त्रयं कालोऽग्निमुवनंगङ्गामार्गेशदृग्गुणाः। ग्रीवारेखा कालिदासकाव्यम्शूलशिखा बलिः। सन्ध्यापुरपुष्कराणि रामविष्णुपदंवयः

३ । चत्वारि वेदब्रह्मास्यवर्ण्णाब्धिहरिबाहवः। स्वर्द्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः

४ । पञ्च पा-ण्डवरुद्रास्येन्द्रियस्वर्द्रुव्रताग्नयः। महापापमहामूतमहाकाव्यमहामखाः। पुराणलक्षणान्यङ्गानिलकर्मे-न्द्रियार्थकाः

५ । षट् वज्रकोणत्रिशिरोनेत्रतर्काङ्गंदर्शनम्। चक्रवर्त्तिमहासेनवदनानि गुणा रसाः

६ । [Page1500-b+ 38] सप्त पातालभुवनमुनिद्वीपाकीजिनः। वाराब्धिगृप-राज्याङ्गव्रीहिवह्निशिखाद्रयः

७ । अष्टौ योगाङ्गवस्वीश-मूर्त्तिदिग्गजसिद्धयः। ब्रह्मश्रुतिव्याकरणदिक्पालाहिकुलाचलाः

८ । नवाङ्गद्वारभूखण्डकृत्तरावणमस्तकाः। व्याघ्रीस्तनसुराकुण्डसेव ध्यङ्करसग्रहाः

९ । दश हस्ता-ङ्गुलीशम्भुबाहुरावणमौलयः। कृष्णावतारदिग्विश्वेदेवावस्थेन्दुवाजिनः

१० । एकादश महादेवाः सेनाश्चकुरुभूपतेः

११ । द्वादशार्कमासराशिसंक्रान्तिगुहबाहवः। शारीकोष्ठकसेनानीनेत्रक्ष्मापतिमण्डलाः

१२ । त्रयोद-श स्युस्ताम्बूलगुणा

१३ अथ चतुर्दश। विद्यामनुत्रिदिव-राड्भुवनध्रुवतारकाः

१४ । तिथयः स्युः पञ्चदश

१५ षोड-शेन्दुकलात्मिकाः

१६ । अष्टादश द्वीपविद्यापुराणस्मृतिधा-न्यकम्

१८ । सिंशतीरावणभुजाङ्गुलयो

२० ऽथ शतं यथा। धार्त्तराष्ट्राः शतभिषक्तारका पुरुषायुषम्। रावणाङ्गु-ल्यब्जदलशक्रयज्ञाब्धियोजनम्

१०

० । सहस्रं जाह्नवीवर्त्मशेषशीर्षाम्बुजच्छदम्। रविवाणार्ज्जुनकरा वेदशास्वेन्द्र-दृष्टयः”।

१०

०० । शा॰ ति॰ केषाञ्चित् संख्याभेदान्विततयोत्पत्तिकथनेनतेषां तत्तत्संख्याबोधकत्वं सूचितंयथा
“हंसवर्णौपरा-त्मानौ शब्दार्थौ वासरक्षपे। सृजत्येषा परा देवी तदा प्रकृ-तिपूरुषौ। थद्यदन्यज्जगत्यस्मिन् युग्मं तत्तदजायत

२ । त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी। प्रसूते त्रैपुरंमन्त्रम्” इत्युपक्रम्य
“लोकत्रयगुणत्रये। धामत्रयं सावेदानां त्रयं वर्णत्रयं शुभम्। त्रिपुष्करं स्वरान्देवी-ब्रह्मादीनां त्रयं तथा। वह्निकालत्रयं शक्तित्रयं वृत्तित्रयंमहत्। नाडीत्रयं त्रिवर्गं सा यद्यदन्यत्त्रिधा मतम्। चतुःप्रकारगुणिता शाम्भवी शर्मदायिनी” इत्युपक्रम्य
“चतुरः सागरानन्तःकरणानां चतुष्टयम्। सू-क्ष्मादींश्चतुरोभावान् विष्णोर्मूर्त्तिचतुष्टयम्। चतुष्टयं ग-णेशानामात्मादीनां चतुष्टयम्। उड्डियानादिकं पीठंधर्मादीनां चतुष्टयम्। दमकादीन् गजान् देवी यद्यद-न्यच्चतुष्टयम्

४ । पञ्चधा गुणिता पत्नी शम्भोः सर्वार्थसाधिनी। पञ्चरत्नं महादेवी सर्वकामफलप्रदम्। पञ्चाक्षरं महेशस्यपञ्चवर्णान् गरुत्मतः। सम्मोहनान् पञ्च वाणान् कामान्पञ्च सुरद्रुमान्। पञ्च प्राणादिकान् वायून् पञ्च वर्णान्महेशितुः। मूर्त्तीः पञ्च, कलाः पञ्च ब्रह्मऋचः क्रमात्। सृजत्येषा परा शक्तिर्वेदवेदार्थरूपिणी

५ । षोढा संगुणितादेवी धत्ते मन्त्रं षडक्षरम्। ऋतून् वसन्तप्रमुखाना-[Page1501-a+ 38] मोदादीन् गणाधिपान्। कोषानूर्मीन् रसान् शक्तीर्डाकि-न्याद्याः षडध्वनः। यन्त्रं षड्गुणितं शक्तेः षडा-धारानजीजनत्। षड्विधं यज्जगत्यस्मिन् सर्वन्तु परमे-श्वरी

६ । सप्तधा गुणिता नित्या शङ्करार्द्धशरीरिणी। सप्तार्णंत्रिपुरामन्त्रं सप्तवर्णं विनायकम्। सप्तकं व्याहृतीनांसा सप्तवर्णें सुदर्शनम्। लोकानद्रीन् स्वरान् धातून्मुनीन् द्वीपान ग्रहानषि। समिधः सप्त संख्याताः सप्त-जिह्वा हविर्भुजः। अत्यत् सप्तविधं यद्यत्तदस्याः सम-जायत

७ । अष्टघा गुणिता शक्तिः शैवमष्टाक्षरद्वयम्। गन्धाष्टक शुभं देवीदेवानां हृदयङ्गमम्। ब्राह्म्याद्या-भैरवान् सर्वान् मूर्त्तीरेशीर्वसूनपि। अष्टपीटं महा-देव्या अष्टाष्टकसमन्वितम्। अष्टौ सा प्रकृतीर्विघ्नान्वक्रतुण्डादिकान् क्रमात्। अणिमादिगुणान्नागान् वह्ने-र्मूर्त्तीर्यमादिकान्। अष्टात्मक जगत्यन्यत् सर्वं वितनुतेतदा

८ । गुणिता नवधा नित्या सूते मन्त्रं नवात्मकम्। नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी। नवकं पीठशक्तीनां शृङ्गारादीन् रसानपि। माणिक्यादीनि रत्नानिनववर्गयुतानि सा। नवकं प्राणदूतीनां मण्डलं नबकंशुभम्। यद्यन्नवात्मकं लोके सर्वमस्यामुदञ्चत

९ । दशधा गुणिता शम्भोर्भामिनी भवदुःस्वहा। दशकंशक्तितत्त्वानां तत्त्वरूपा महेश्वरी। नाडीनां दशकंविष्णोरवतारान् दश क्रमात्। दशकं लोकपालानां यद्यन्य-त्कल्पयत्यसौ

१० । एकादश क्रमात् संविद् गुणिता साजगन्मयो। रुद्रैकादशनामाद्या शक्तेरेकादशाक्षरम्

११ । समुद्गरति सर्वात्मा गुणिता द्वादश क्रमात्। राशीन्मासान् हरेर्मूर्त्तीर्यन्त्रं सा द्वादशात्मकम। अन्य-देतादृशं सर्वं यत् तदस्याव्यजायत”। अत्र च यो यः पदार्थः यद्यत्संख्यान्विततया उत्पन्नः म-लःस्वगतसंख्यातुल्यसंख्यासूचकः भवति च निदर्शितपदार्थानां तत्तत्संख्यायुक्ततया लोकशास्त्रप्रसिद्धिः इत्यतस्तत्तच्छब्दानां तत्तत्संख्यास्मारकत्वम्। तथाचैकविधसं-ख्यागुणितप्रकृतिकार्य्यत्वेन तुल्यसंख्याबोधकत्वम्। अन्येऽपि केचित् संख्याविशेषसूचकाः भा॰ व॰

१३

४ अ॰ दर्शिता यथा।
“वन्द्युवा च। एक एवा ग्निर्ब-हुधा समिध्यत एकः सूर्य्यः सर्व्वमिदं विभाति। एको वीरो देवराजोऽरिहन्ता यमः पितॄणामीश्वरश्चैकएव

१ । अष्टावक्र उवाच। द्वाविन्द्राग्नी चरतो वै सखायौद्वौ देवर्षी नारदपर्व्वतौ च। द्वावश्विनौ देरथस्यापि[Page1501-b+ 38] चक्रे भार्य्यापती द्वौ विहितौ विधात्रा

२ । वन्द्युवाच। त्रिः सूयते कर्म्मणा वैप्रजेयं त्रयीयुक्ता वाजपेयंवहन्ति। अध्वर्य्यवस्त्रिसवनानि तन्वते त्रयो लोका-स्त्रीणि ज्योतींषि चाहुः

३ । अष्टावक्र उवाच। चतुष्टयंब्राह्मणानां निकेतं चत्वारो वर्ण्णा यज्ञमिमं वहन्ति। दिशश्चतस्रो वर्णचतुष्टयञ्च चतुष्पदा गौरपि शश्वदुक्ता

४ । वन्द्युवाच। पञ्चाग्नय पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथपञ्चेन्द्रियाणि। दृष्टा वेदे पञ्चचूडाप्सराश्च लोके ख्यातंपञ्चनदञ्च पुण्यम्

५ । अष्टावक्र उवाच। षडाधाने दक्षि-णामाहुरेके षड् वै चेमे ऋतवः कालचक्रम्। षडिन्द्रिया-ण्युत षट् कृत्तिकाश्च षट्साद्यस्काः सर्व्ववेदेषु दृष्टाः

६ । वन्द्युवाच सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसिक्रतुमेकं वहन्ति। सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्रीप्रथिता चैव वोणा

७ । अष्टावक्र उवाच। अष्टौ शाणाःशतसानं वहन्ति तथाष्टपादः शरभः सिंहघाती। अष्टौ वसून् शुश्रुम देवतासु यूपश्चाष्टास्रिर्व्विहितःसर्व्वयज्ञे

८ । वन्द्युवाच। नवैवोक्ताः सामधेन्यः पि-तॄणां तथा प्राहुर्नवयोगं विसर्गम्। नवाक्षरा वृहतोसंप्रदिष्टा नवाङ्कयोगोगणनामेति शश्वत्

९ । अष्टावक्र-उवाच। दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दश-पूर्णं शतानि। दशैव मासान् बिभ्रति गर्भवत्यो दर्शरका-दश दाशा दशार्हाः

१० । वन्द्युवाच। एकादशैकादशिनःपशूनामेकादशैवात्र भवन्ति यूपाः। एकादश प्राणभृतांविकारा एकादशोक्ता दिवि देवेषु रुद्राः

११ । अष्टावक्रउवाच। संवत्सरं द्वादशमासमाहुर्जगत्याः पादो द्वा-दशैवाक्षराणि। द्वादशाहः प्राकृतयज्ञ उक्तो द्वादशा-दित्यान् कथयन्तीह धीराः

१२ । वन्द्युवाच। त्रयोदशीतिथिरुक्ता प्रशस्ता त्रयोदशद्वीपवती मही च। लोमशउवाच। एतावदुक्त्वा विरराम वन्दी श्लोकस्यार्द्धं व्याज-हाराष्टावक्रः। अष्टावक्र उवाच। त्रयोदशाहानि स-सार केशी त्रयोदशांदोन्यतिछन्दांसि चाहुः”

१३ अस्यनीलकण्ठोक्तदिशाव्याख्या यथा एकोऽग्निः सूर्य्यो वाइतराप्रकाश्योऽन्यप्रकाशकश्च। एवं देवानामिन्द्रियाणांराजा प्रधानभूतः अरिहन्ता पराभिभूततत्त्वान्तराभिमा-वकः। यमः सर्वेन्द्रियाणां नियन्ता पितॄणां विषयोपहार-द्वारा पालयितॄणामिन्द्रियाणाम् ईश्वरो भोक्ता कर्त्ताप्रधानभूत एक एव

१ । सखायौ सत्वजीवौ जीवेश्वरौ वा।

२ पुण्येन देवस्थावरमनुष्यरूपं, पापेन नारकस्थावरतिर्यम्यो-[Page1502-a+ 38] निरूपं जन्मत्रयम्। वाजपेयोपलक्षितं कर्ममात्रम् तच्चवेदभेदात् द्विजभेदाच्च त्रयम्। त्रीण्येव प्रातर्मध्याह्नतृतीयसवनानि। त्रयो लोकाः स्वर्गोनरकं भूश्चेति भो-गभूमयः। त्रीणि ज्योतींपि जाग्रदाद्यवस्थात्रयम्।

३ । निकेतमाश्रमम् यज्ञमिह ज्ञानयज्ञं तेन चातुर्वर्ण्णमध्येशूद्रस्यापि तत्राधिकारः। दिशः विराट्सूत्रान्तर्यामितूर्य्य-साक्षात्काररूपाः चतस्रः दिशः। वाङ्मयप्रणवस्य वर्णचतुष्टयम् अकारौकारोमकारः अर्द्धमात्रा इत्येवं चतु-ष्टयम्। चतुष्पदा परा पश्यन्ती मध्यमा वैखरीति भे-दात् गौर्वाक् चतुष्पदा

४ । पञ्चाग्नयः गार्हपत्यदक्षिणा-ग्न्याहवनीयसभ्यावसथ्याख्याः। पञ्चपदाऽष्टाक्षरैः पादैःपङ्क्तिः छन्दः पञ्चपदा। यज्ञाः पञ्च ब्रह्मर्षिपितृ-नृभूतयज्ञाः पञ्च स्मार्त्ताः, अग्निहोत्रं दर्शपौर्ण-मासौ चातुर्मास्यानि पशुः सोम इति श्रीता वा पञ्च। अप्सु शरीराकारपूरिणताषु जलप्रधानासु मात्रासु सरतिगच्छतीत्यप्सराः चितिः पञ्चचूडा तत्तद्विषयाकारतया प्र-माणविपर्य्ययविकल्पनिद्रास्मृतिरूपवृत्तिपञ्चकसारूप्येण शि-खापञ्चकवती पञ्चानां विषयरूपस्रोतस्रां समाहारःपञ्चनदम्

५ षट् आधाने गाइति शेषः। मनस इन्द्रियत्व-मभ्युपेत्य षट्कोपपत्तिः साद्यस्का यज्ञविशेषाः

६ ।
“ग्राम्यार-ण्याः पशवश्चतुर्दश गौरविरजोऽश्वोऽश्वतरोगर्दभोमनुष्यश्चेतिसप्तग्र्यम्याः महिषवानरराक्षससरीसृपरुरुपृषन्मृगाश्चेतिसप्तारण्याः” पैठीनस्युक्ताः। सप्त छन्दांसि गायत्र्यु-ष्णिगनुष्टुब्वृहतीपङ्क्तित्रिष्टुब्जगतीसमाख्यानि। सप्त-र्षयः सप्त प्राणाः
“प्राणा वै ऋषय” इति श्रुतेः मनोबु-द्धिसहिताः प्राणादयः पञ्च सप्तेत्यथेः। सप्त अर्हणानिअर्हणीयानि सुखानि पञ्चभिरिन्द्रियैः मनोबुद्धिभ्यां प्रा-प्यानि सुखानीतिभेदात् सुखानि सप्त।


“अष्टौ ग्रहाअष्टावतिग्रहाः” श्रुतेः शाणाः शणनिर्मिता गौण्यःआवपनविशेषा इव इन्द्रियप्रवेशयोग्याः अष्टौ।

८ । पितॄ-णामिष्टौ
“उशन्तस्ता निधीमहीति” ऋक् त्रिरभ्यस्ता प्र-त्येकं त्रिसमित्का नव सामघेन्योऽग्निसमिन्धनार्था ऋचःयम्पद्यन्ते। तथा एका प्रकृतिरेव त्रिगुणा एकद्विगुणप्रधानभावविमर्द्दनैः प्रत्येकं त्रिविधा नवैव संपद्यते तथानवैवाङ्काः क्रमस्थानभेदात् यथेष्टसंख्यावाचिनो भवन्ति

९ । दिश उपदेष्टार दासा तत्त्वक्षेपकाः। अर्हास्तत्त्वाधिकारिणश्चदश

१० । इन्द्रियाणि मनसा सह ज्ञानकर्म्मन्द्रियाणि तेषांविषयाः तद्ग्रहजाविकाराश्च एकादश

११ । प्राकृत-[Page1502-b+ 38] यज्ञः द्वादशाहताध्यत्वात् द्वादशाहः

१२ । त्रयो-दशद्वोपवती भ्रादिषट्केन पातालसप्तकेन युक्ता च म-ध्यस्था मही त्रयोदशद्वीपवती

१३ । एवमेका-दिसंख्याया बोधकत्वं तत्तत्पदार्यानाम् दर्शितम्। अन्ये च शब्दाः शास्त्रान्तरेषु एकादिसंख्याबोधकतयाप्रयुज्यन्ते ते च शब्दाः पूर्ब्बदर्शितशब्दाश्च यथा तत्तत्संख्यबोधकाभवन्ति तथा दर्श्यते तत्र सर्व्वत्र शब्दतदर्थयोरभे-दात् स्ववाच्यार्थगतसंख्यातुल्यसंख्यावोधकत्वेन स्ववाच्या-र्थसंख्यापूर्य्यसंख्यातुल्यसंख्याबोधकत्वेन वा तथात्वंबोध्यम्। सर्बेषाञ्च क्वचित् तत्तत्संख्यापूरणवाचकतापि
“युग्माग्नी कृतभूतानि षण्मुनी वसुरन्ध्रयोः” स्मृतौ युग्मा-दिभिः तत्संक्यापूरणद्वितीयादीनां बोधनात्।

१ तत्रादौ एकत्वबोधकाः। कवि॰ ल॰। ब्रह्मणः
“एकमेवाद्वितीयं ब्रह्मेति” श्रुतेरेकत्वात्तथात्वम् विरञ्चिवाचिब्रह्मणोप्येकमहासर्गे एकत्वात्तथा क्ष्मेन्द्विन्द्रेति पाठे भूमिचन्द्रयो-रेकत्वात्तथा। इन्द्रहस्तिन ऐरावतस्य तदश्वस्योच्चैःश्रवस-श्चैकत्वात् तथा। गणेशदन्तस्य शुक्रनेत्रस्य चैकत्वात् तथाएवं काकनेत्रस्यापि। भा॰ व॰ उक्ताः। स्वप्रकाशस्य अ-न्यप्रकाशकस्य सूर्यस्याग्नेश्च यमम्य सर्व्वनियन्तुरीश्वरस्य,इन्द्रपदाभिधेयस्य तथा
“इन्द्रोमायाभिः पुरुरूप ईयतेइति” श्रुतेरीश्वरस्येन्द्रपदवाच्यत्वात्। रूपम् वैशेषिकमतसिद्ध्वचतुर्विंशतिगुणेषु आद्यत्वात् तथा।
“भजेच्छिदोऽंशैरथ तैर्विमिश्रै रूपं भजेत् स्यात् परि-पूर्त्तिकालः” लीला॰। अश्विनी तस्याः तारास्वाद्यत्वात्अभेदात्तदघिपाश्विशब्दोऽपि। तस्य स्वपरत्वे द्वित्वबोधकतेति भेदः। उक्था तस्या एकाक्षरपादकत्वात् प्रधान-वाची प्रकृतिशब्दस्तथा
“अजामेकां लोहितशुक्लकृष्णाम्” इत्यादिश्रुतेस्तदर्थस्यैकत्वात्।

२ द्वित्वबोधकाः। कवि॰ ल॰ उक्ताः। चान्द्रमासघटकयोःपक्षिच्छदरूपयोर्वा पक्षयोः, नदीकूलयोः, असिधारयोः, कु-शलवरूपयोर्दाशरथिपुत्रयोश्च तथा। शा॰ ति॰” उक्ताः। हंस इति वर्ण्णौ जीवपरमरूपौ परात्मानौशब्दार्थौ दिनरात्री स्त्रीपुरुषौ, परस्परविरोधिपुणरूपा शीतोष्णसुखदुःखादयश्च तथा। भा॰ ब॰उक्ताः। इन्द्राग्नो सत्वजीवौ नारदपर्व्वतौ अश्विनौरथचक्रे च तथा। एवम् भरणी तारासु तस्याद्विती-यत्वात् तदभेदात् तदधिपोयमोऽपि। यमशब्दस्य यमयि-त्रीश्वरपरत्वे एकत्वस्य, यमजपरत्वे द्वित्वस्य योगाङ्गय-[Page1503-a+ 38] रत्वे अष्टत्वस्य बोधकतेति भेदः। प्रेतराजपरकालशब्द-स्यापि तथात्वम्। तस्य समयपरत्वे त्रित्वस्य, शिवपरत्वेआर्द्राधिपत्वस्य षट्कस्येति भेदः। अत्युक्था द्व्यक्षरपा-दत्वात्तथा। शकटांशभेदार्थकयुगशब्दस्तथा तस्य शकटादौद्वित्वसंख्यकतयैव योजनात्। एवं द्वन्द्वार्थकयुगशब्दोऽपि। अयनशब्दोऽपि तथा वर्षे तदर्थयोर्द्वयोरेव घटकत्वात्। पर्वसन्धिः चान्द्रमासे तयोर्द्वित्वात्। शब्दः ध्वन्यात्मक-वर्णात्मकरूपः, अदृष्टम् पुण्यापुण्यरूपम्, शब्दशक्तिःअभिधालक्षणारूपा, बुद्धिः अनुभवस्मृतिरूपा, गन्धःसुरभिदुर्गन्धरूपः ध्वनिधर्म्मः तारत्वमन्दत्वात्मकः, स्पर्शःउष्णानुष्णात्मकः, मृदुत्वकाठित्यात्मको वा, अभावः, संस-र्गाभावभेदात्मकश्च द्वित्वस्य बोधकः। सामान्यं व्याप्य-व्यापकात्मकम्, क्रिया सिद्धसाध्यात्मिका वेदान्तिमते पदा-र्थः चिज्जडरूपः द्रष्टृदृश्यरूपो वा आर्हतमते जीवाजीव-रूपो वा न्यायमते भावाभावरूपो बा, परिमाणम्वेदान्तिमते अणुत्वमहत्त्वरूपं च द्वित्वात्तथा। वैशेषिकमतेतु अणुमहत्त्वह्रस्वत्वदीर्घत्वरूपं चतुष्कात् चतुष्कस्यतथेति भेदः। पदम् सुबन्ततिङन्तरूपत्वात्, धात्वर्थःफलव्यापाररूपत्वात् तथा। प्रयोजनं गौणसुख्यरूपत्वा-त्तथा। न्यायमते व्याप्तिः अन्वयव्यतिरेकरूपत्वात्तथा। ( वेदान्तादिमते व्यतिरेकव्याप्तेरभावात् तस्यांः एक-त्वादेकत्वस्येति भेदः। संयोगः कर्मजसंयोगजातात्मकः,विभागः कर्मजविभागजात्मकश्च द्वित्वात् तथा। नाटक-प्रस्ताव्यवस्तु आधिकारिकप्रासङ्गिकरूपं द्वित्वात् तथा। काव्यम् दृश्यश्राव्यरूपं द्वित्वात् तथा अवान्तरभेदपरत्वेध्वन्यादिपरत्वात् त्रित्वस्येति भेदः। गुरुत्ववद्द्रव्यम् रस-वद्द्रव्यञ्च क्षितिजलात्मकत्वात्तथा। नैमित्तिकद्रववद्द्रव्यंक्षितितेजोरूपत्वात्तथा। समाधिः सविकल्पनिर्विकल्पा-त्मकः सवीजनिर्वीजात्मकः संप्रज्ञातासंप्रज्ञातात्मकोवाद्वित्वात्तथा। समापत्तिः सविचारनिर्विचारात्मिकाद्वित्वात् तथा। परममुक्तिर्विदेहकैवल्यात्मिका द्वित्वा-त्तथा। सालोक्यादिपरत्वे चतुष्ट्वस्येति भेदः। समाधि-प्रज्ञा ज्योतित्यृतम्भरात्मिका द्वित्वात्तथा। कर्म्मकारकंमुख्यगौणात्मकं द्वित्वात्तथा। कर्त्तृकारक स्वतन्त्रप्रयोजकरूपं, सम्प्रंदानकारकं प्रेरकानुमन्तृरूपञ्च द्वित्वात्तथा। प्रत्यक्षं लौ ककालौकिकात्मकतया द्वित्वात् तथा अवान्तरप्र-त्यक्षपरत्वे षटत्वस्येति भेदः। ज्ञानं सविकल्पकनिर्वि-कल्पकात्मकं तया। अनुमानं स्वार्थपरार्थात्मकं अनु-[Page1503-b+ 38] मानफलं तत्त्वनिर्ण्णयविजयरूपं तथा। ब्रह्म सगुणनिर्गुणरूपम्, जीववादः एकानेकविषयात्मकः वेदान्तिमते ज्ञानंवृत्तिवृत्त्यवच्छिन्नचैतन्यात्मकम् जीवभेदकः अवच्छेदप्रतिविम्बरूपश्च द्वित्वात् तथा। कर्म्म शुक्लकृष्णात्म पु-ण्यापुण्यसाधनम् विहितनिषिद्धरूपं, धर्म्मः प्रवृत्तिनिवृत्तिलक्षणः वेदमेयं सिद्धसाध्यरूपं, प्रयागंःपश्चि-मदक्षिणरूपः, वेदान्तिमते अविद्या कार्य्यकारणरूपातूल्याविद्यामूलाविद्यात्मिका द्वित्वात्तथा। काञ्चिःविष्णुशिवकाञ्चिरूपत्वात् तथा। आगमरूपप्रमाणशब्दःदृष्टादृष्टार्थकत्वात्तथा उदाहरणं साधर्म्यवैधर्म्यकृतम्, शृङ्गारःविप्रलम्भसंभोगात्मकः, मानश्च प्रणयेर्ष्याजातः द्वित्वात्तथा(

३ त्रित्वबोधकाः कवि॰ ल॰ उक्ताः। कालः मूत-भविष्यद्वर्त्तनरूपत्वात्, अग्निः दक्षिणाग्निगार्हपत्याह-वनीयरूपत्वात्, लोकः स्वर्गमर्त्यपातालरूपत्वात्, ग-ङ्गावर्त्म त्रिलोकस्थत्वात्, शिवनेत्रम् सूर्य्येन्दुवह्निरूप-त्वात्, गुणः सत्वरजस्तमोरूपत्वात् तथा। नीतिशास्त्रप्र-सिद्धगुणपरत्वे षट्कस्य, द्रव्यधर्मभेदपरत्वे चतुर्विंशतित्वस्य बोधकैति भेद। ग्रीवारेस्वा, कालिदासकृतकाव्यं कुमा-ररघुवंशमेघदूतरूपत्वात्, त्रिशूलशिखा, देहोदराधःस्थलु-लितमांसरूपवलिश्च त्रित्वात् तथा। प्रातर्मध्यसायाह्नरूपसन्ध्यानां, त्रिपुरासुरस्वर्गादिस्थपुराणां, वारतिथिनक्ष-त्रभेदात्मकज्योतिषोक्तपुष्करदोषाणाम्, परशुरामदाशरथि-बलभद्रात्मकर माणां, त्रिलोकव्यापिवामनरूपविष्णुपदानां,बाल्ययौवनजरारूपवयसाञ्च त्रित्वात् तथा। शा॰ति॰ उक्ताः। सूर्य्येन्दुवह्निरूपधाम्नाम्, ऋग्यजुःसामरूप-त्रय्यात्मकवेदानां त्रित्वात् तथात्वम्। अथर्ववेदसहितत्र-यीपरत्वे तु चतुष्टयस्य बोधकतेति भेदः। प्रणववर्णानाम्अकारोकारमकाररूपाणाम्, उदात्तानुदात्तस्वरितरूपस्व-राणाञ्च त्रित्वात् तथा। स्वरस्म षड्जादिपरत्वे सप्त-कस्य अज्वर्णपरत्वे षोडशत्वस्येति भेदः। देवीनांगायत्रीसावित्रीसरस्वतीरूपाणां, ब्रह्मविष्णुशिवरूपेश्वर-मूर्त्तीनाञ्च त्रित्वात् तथा। कृषिपाशुपाल्यबाणिज्यरूपायाजनाध्यापनप्रतिग्रहरूपा वा आजीविकात्मिका वृत्ति-स्तथा मनोवृत्तिपरत्वे चतुष्कस्य, प्रमाणादिवृत्तिपरत्वेपञ्चकस्य, शब्दनिष्ठबोधनाशक्तिरूपवृत्तिपरत्वे अलि-ङ्कारिकमते त्रित्वस्य, अन्यमते द्वित्वस्य, वाचक-शब्दभेदपरत्वे तद्धितादिपञ्चत्वस्येति भेदः। ज्येष्ठारौद्रीवामारूपा, ज्ञानेच्छाक्रियारूपा वा प्रभावोत्साह-[Page1504-a+ 38] मन्त्रजारूपा वा शक्तिः तथा, नाडी इडापिङ्गला-सुषुम्णात्मकप्रधाननाडीरूपा तथा। गान्धार्य्यादिनाडी-परत्वे सप्तत्वस्य, दण्डपरत्वे तस्याः षष्टिपलात्मकत्वात्दिवसे षष्टिसंख्यकत्वाच्च षष्टित्वस्येति भेदः। भा॰ व॰ उक्ताः। प्रजा देवतिर्ष्यग्मनुष्यरूपा, त्रयीभेदात् द्विजभेदाच्च वा-जपेयादिकर्म च तथा। प्रातर्मध्यसायाह्नकर्त्तव्यानि सव-नानि, ज्योतिः विश्वप्राज्ञतैजसरूपम् तथा। एवम् कटुशुण्ठीपिप्पलीमरिचरूपतया, फलम् हरीतक्यामलकीवय-स्थारूपतया, दोषः वातपित्तकफरूपतया रागद्वेषमोहरूप-तया वा तथा। कृत्तिका तस्या राशिचक्रे तृतीयत्वात्, अभे-दोपचारात् तदधिप वह्निरपि। तद्घटकतारापरत्वे तुषट्कस्य वोधिका इति भेदः। मध्या त्र्यक्षरपादत्वात् तथाशब्दवृत्तिः शक्तिलक्षणाव्यञ्जनारूपा तथा इत्यालङ्कारिकाःअन्यमते द्वित्वस्येत्युक्तम्। कारणम् समवाय्यसमवायि-निमित्तात्मकं त्रित्वात् तथा। फलावहहेतुः दैवपुरुष-कारकालात्मकः
“देवं पुरुषकारश्च काले फलति पार्थिव!। त्रयमेतन्मनुष्यस्य पिण्डितं फलवाहम्” इत्युक्तेस्त्रयाणां तथात्वात्तथा।
“अधिष्ठानं तथा कर्त्ता-करणञ्च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवञ्चेवात्रपञ्चमम्” गीतोक्तत्वात् पञ्चत्वस्यापि। संस्कारः स्थितिस्था-पनवेगभावनात्मकस्त्रित्वात् तथा, गर्भाधानादिपरत्वे दश-त्वस्य चत्वारिंशत्त्वस्य वेति भेदः। संसर्गाभावः प्रागभाव-ध्वंसात्यन्ताभावात्मकत्वात्तथा। यत्नः प्रवृत्तिनिवृत्तिजीवन-योनिरूपत्वात्तथा। दुःखम् आध्यात्मिकाधिभौतिकाधिदै-विकात्मकत्वात्तथा। त्यागिकर्त्तृकरणकर्म्मज्ञानबुद्धिधृतिश्र-द्धासुखादिकं गीतोक्तं प्रत्येकं सात्विकराजसतामसरूपतयात्रित्वात्तथा। अवस्था सांख्यामते आविर्भावतिरोभावाभि-व्यक्तिरूपा वेदान्तमते जागत्स्वप्नसूषुप्तिरूपा, अघिकारश्चगङ्गास्रोतोमण्डूकप्लुत सिंहावलौकितात्मकः त्रित्वात् तथा( असिद्धिः आश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धि-रूपत्वात् तथा, विरुद्धहेतुदोषः साधारणासाधारणा-नुपसंहारिरूपत्वात् तथा। न्यायमते
“प्रकृतिः प्रत्य-यश्चैव निपातश्चेति स त्रिधा” इत्युक्तानां प्रकृत्यादीनांसार्थकशब्दानां त्रित्वात् तथा। वाचकशब्दः रूढयौगिकयोगरूढरूपतया त्रित्वात्तथा वाचकशब्दशक्तिःनैमित्तिक्यौपाधिकीपारिभाषिक्यात्मकतया त्रित्वात्तथा। लक्षणा जहत्स्वार्थाऽजहस्वार्थाजहदजहत्स्वार्थात्मिकात्रित्वात्, आलङ्कारिकमते बहुत्वस्येति भेदः। ग्रामः[Page1504-b+ 38] स्वरारोहावरोहक्रमात्मकः त्रित्वात्तथा
“सप्त स्वरास्त्रयो-ग्रामा मूर्च्छनाश्चैकविंशतः। तालाश्चैकोनपञ्चाशत्मात्रातिस्रोलयास्त्रयः। स्थानत्रयं यतीनाञ्च षडास्यानिरसा नव। रागाः षट् त्रिंशत्तु मावाश्चत्वारिंशत्तताः (तान)स्मृताः” भरतोक्तेः द्रुतमध्यविलम्बितकालरूपा मात्रा, लयःउत्तममध्याधममानात्मकः, आदिमध्यान्त्यरूपयतिस्थानं,च त्रित्वात् तथा। विग्रहफलम् भूमिहिरण्यमित्रलाभा-त्मकं त्रित्वात् तथा। काव्यं ध्वनिगुणीभूतव्यङ्ग्याव्यङ्ग्या-त्मकमुत्तममध्यमाधमात्मकं त्रित्वात् तथा। देहः कारण-स्थूलसूक्ष्मात्मकः त्रित्वात् तथा। मूर्त्तभेदः देहेन्द्रियवि-षयात्मकस्तथा। सर्गः सात्विकराजसतामसात्मकस्तथा। मुख्यसिद्धिः दुःखत्रयाभिघातात्मिका प्रमोदमुदितमो-दमानाभिधेया त्रित्वात् तथा। सिद्व्यङ्कुशः विपर्य्यया-शक्तितुष्टिरूपस्त्रित्वात् तथा। कर्मविपाकः जात्या-युर्भोगात्मकस्त्रित्वात् तथा। अतीन्द्रियगुणः गुरुत्वा-दृष्टभावनात्मकः त्रित्वात् तथा। कर्मजगुणः वेग-संयोगविभागात्मकस्त्रित्वात्तथा। मित्रभेदः शत्रु-भेदश्च सहजप्राकृतकृत्रिमात्मकस्त्रित्वात्तथा। संसृतिमार्गःदेवायानपितृयान यमयानात्मकः त्रित्वात्तथा। वि-ल्वपत्रम् तस्य प्रत्येकपत्रे त्रित्वात् तथा। वेदान्तिमतेसत्ता पारमार्थिकीव्यवहारिकीप्रातिभासिकीरूपा त्रि-त्वात्तथा। स्रोतः ऊर्द्धाधस्तिर्य्यग्रूपं त्रित्वात्तथा। ईप्सिततमकर्म्म निर्वर्त्त्यविकार्य्यप्राप्यात्मकं त्रित्वात्तथा। आधारकारकम् औपश्लेषिकाभिव्यापकवैषयिकात्मकं त्रि-त्वात् तथा। अपादनकारकम् निर्द्दिष्टविषयोपात्त-विषयापेक्षितक्रियात्मकं त्रित्वात्तथा। व्यापारः कायिक-वाचिकमानसात्मकस्तथा। ऋणं देवर्षिपितृसम्बन्धिरूपंतथा। अलौकिकसन्निकर्षः सामान्यलक्षणाज्ञानलक्ष-णायोगजात्मकस्त्रित्वात्तथा। काव्यगुणः माधुर्य्यौजःप्रसा-दात्मकः त्रित्वात्तथा। श्लेषौदार्य्यादीनामोजस्यन्तभावात्त्रित्वम् सा॰ द॰। नायिका स्वकीयापरकीयासाधार-ण्यात्मिका, मुग्धा मध्या प्रगल्भात्मिका वा तथा तासा-मेकैकस्या उभयधर्भत्वे नवत्वस्य अवस्थाभेदात् बहुत्वस्येतिभेदः। अनुमितिलिङ्गं पूर्व्ववच्छेषवत्सामान्यतोदृष्टात्मकंकेवलान्वयिकेंवलव्यतिरेक्यन्वयव्यतिरेकिरूपं वा त्रित्वात्तथाछलं वाक्सामान्योपचारछलात्मकं त्रित्वात्तथा।

४ चतुष्कवोधकाः कवि॰ ल॰ उक्ताः। वेदः ऋग्यजुः सा-माथर्व्वात्मकः, चतुर्मुखब्रह्मणोमुखानि, पूर्ब्बापरदक्षिणो-[Page1505-a+ 38] अनादश्च, चतुष्ट्वात् तथा। लवणसमुद्रादिपरत्वे सप्तत्व-{??}नाक इति भेदः। चतुर्भुजविष्णुबाहुशब्दोऽपि तथा। स्वर्गहस्तिनामैरावतादीनां चतुर्दन्तानामुत्तरं दन्तशब्द-स्तथा। हस्त्यश्वरथपादातरूपसेनाङ्गम्, उपायः साम-दानभेददण्डरूपः, दिनरात्रयोश्चतुर्यांशरूपयामशब्दश्चतथा। युगं सत्यत्रेताद्वापररूपं तथा शकटांशविशेवपरत्वेद्वन्द्वपरत्वे च द्वित्वबोधकमिति। आश्रमः ब्रह्मचर्य्यगा-र्हस्थ्यवानप्रस्थसंन्यासरूपस्तया। शा॰ ति॰ उक्ताः। तत्त्वम् आत्मविद्याशिवतत्त्वरूपम् प्रधानादितत्त्वपरत्वेचतुर्विंशतिसंख्याबोधकमिति भेदः। मनोवृत्तिः संशयनि-श्चयगर्व्वाभिमानरूपा तथा। वाग्वृत्तिः परापश्यन्तीम-ध्यावैस्वरीरूपा तथा। अर्थबोधनशक्तिविशेषपरत्वे द्वित्वस्यत्रित्वस्य वा मतभेदेन बोधिकेति भेदः। भावः वेदान्तिमतेजाग्रत्स्वप्रसुषुप्तितुरीयरूपस्तथा। सांख्यमते तु धर्माद्यष्टपरत्वेनाष्टत्वबोधकः वैशेषिकमते षट्त्वस्येति भेदः। विष्णुमूर्त्तिःवासुदेवानिरुद्वसंकर्षणप्रद्युम्नरूपा तथा। शङ्खा-दिचतुष्टयविन्यासभेदकृता तन्मूर्त्तिस्तु चतुर्विंशतित्वस्यबोधिकेति भेदः। गणेशः
“गणाधिपं गणेशानं तृतीयंगणनायकम्। गणाक्रीडं पीतगौररक्तनीलरुचः क्रमात्” शा॰ ति॰

१३ प॰ उक्तपीतादिवर्णयुक्तगणाधिपादिरूप-स्तथा। आत्मादि आत्मान्तरत्मजीवात्मपरात्मरूपस्तथा। पीठशब्द उडडियान जालन्धरपूर्णगिरिकायार्थकःतथा। धर्म्मादि धर्म्मज्ञानैश्वर्य्यवैराम्यरूपम् अधर्मादिअधर्माज्ञानानैश्वर्य्यावैराग्यरूपञ्च तथा सांख्यमते धर्मादिअष्टत्वस्य बोधकमिति भेदः। लक्ष्मीगजः दमकादि-रूपः, दिशः प्राच्यवाचीपश्चिमोत्तररूपा तथा। अवान्तर-दिक्परत्वे अष्टत्वस्य दशत्वस्य वा बोधिका इति भेदः। ज्योतिःविश्वपाज्ञसूत्रात्मान्तर्यामिरूपम्। एवमन्येऽपि यथारोहिणी राशिचक्रे तस्यास्तूर्यत्वात् तदभेदात् तदघिप-ब्रह्माऽपि तथा। प्रतिष्ठा तस्याश्चतुरक्षरपादकत्वात् तथा। सत्ययुगार्थककृतशब्दः चतुस्त्रिद्व्येकसंगुणा” सू॰ सि॰उक्तेः
“महायुगप्रमाणद्वादशसहस्रदशां{??}स्य चतुर्गुणरू-पत्वात्तस्य तथात्वम्। सार्थकशब्दः नामाख्यातनिपातोपस-र्गात्मकत्वात्, पुरुषार्थश्च धर्मार्थकाममोक्षरूपत्वात् तथा। नायकः धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्तात्मकत्वात्दक्षिणधृष्टानुकूलशठात्मकत्वाद्वा तथा तेषां प्रत्येक-मुमयधर्म्मत्वे षोडशभेदत्वात् षोडशत्वस्येति भेदः। काव्यरीतिः वैदर्भीगौडीपाञ्चालीलाटिकात्मिका चतुष्ट्वा-[Page1505-b+ 38] त्तथा। प्रलयः नित्यनैमित्तक प्राकृतात्यन्तिकात्मकत्वात् तथाभगवद्भक्तः
“चतुर्विधा भजन्ते माम्” इत्युपक्रम्य
“आर्त्तोजिज्ञासुरर्थार्थी ज्ञानी च पुरुषर्षभ!” इति गीतोक्तेःचतुष्कत्वात् तथा। अभिनयः आङ्गिकवाचिकाहार्य्य-सात्विकात्मकः चतुष्कत्वात् तथा। नायकादिव्यापार-विशेषात्मकरीतिः कौशिकीसात्वत्यारभटीभारतीरूपाचतुष्कत्वात्तथा। कौशिक्यङ्गम्
“नर्म्म च नर्म्मस्फुर्जोनर्म्मस्फोटश्च नर्म्मगर्भश्च” इत्युक्त नर्मादिरूपं तथा। सात्वत्यङ्गम्।
“उत्थापकोऽथ संहात्यः संलापः परिवर्त्तकः। विशेषा इति चत्वारः सात्वत्याः परिकीर्त्तिता” इत्यु-क्तोत्यापकादिरूपस्तथा। आरभट्यङ्गम्
“वस्तूत्थापनसंफेटौसंक्षिप्तिरवपातनम्। इति भेदास्तु चत्वार आरभट्याःप्रकीर्त्तिताः” इत्युक्तवस्तूत्थापनादिरूपं तथा। अनेका-श्रितगुणः संयोगविभागद्वित्वादिसंख्याद्व्यादिपृथक्त्वरूपःचतुष्ट्वात्तथा। आध्यात्मिकतुष्टिः
“आध्यात्मिक्यश्चतस्रःप्रकृत्युपादानकालभाग्याख्याः” सा॰ का॰ उक्तप्रकृत्यादि-रूपा चतुष्ट्वात्तथा। चित्तपरिकर्मार्थभावना भैत्रीकरुणा-मुदितोपेक्षात्मिका चतुष्ट्वात्तथा। समाधिविघ्नः लयविक्षेप-कषायरसास्वादात्मकः चतुष्कत्वात्तथा। संन्यासी कुटीचकबहूदकहंस परमहंसात्मकस्तथा। अनुबन्धः विषयप्रयो-जनसम्बन्धाधिकारिरूपस्तथा। ब्रह्मविविदिषासाधनम्इहामुत्रार्थफलभोगविरागनित्यानित्यवस्तुवविवेक शमादि-षट्कमुमुक्षारूपं तथा। कल्पितकर्मकारकम्। औदासीन्य-प्राप्तानीप्सिताकथितान्यपूर्वकरूपं तथा। वीजम् एकानेकवर्णसमीकरणमध्यमाहरणभावितात्मकं तथा। सङ्केतविषयःजातिद्रव्यगुणक्रियारूपस्तथा। द्रव्यारम्भकः स्पर्शवद्द्रव्यञ्चक्षितिजलतेजोवायुरूपत्वात्तथा। अपरमुक्तिः सालोक्य-सायुज्यसार्ष्णिसारूप्यात्मिका तथा। कार्य्योत्पत्तिप्रकारःअसतः सदुत्पत्तिः सतोऽसदुत्पत्तिः सतोविवर्त्तः सतःसदुत्पत्तिश्चेति चतूरूपत्वात् तथा। वृद्धिः कायिकाका-लिकाकारिताचक्रकृद्धिरूपा तथा। सिद्धान्तः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थितिरूपः चतुष्ट्वात्तथा। बणोत्पत्तौ आभ्यन्तरप्रयत्नः स्पृष्टेषत्स्पृष्टविवृतसंवृता-त्मकश्चतुष्कत्वात्तथा। विप्रलम्भः, पूर्वरागमानप्रवास-करुणात्मकः चतुष्कत्वात्तथा।

५ पञ्चत्वबोधकाः। कवि॰ ल॰ युधिष्ठिरभीमार्जुतनकुलसहदेवा-नाम् पाण्डुपुत्राणां, पञ्चाननशिवमुखानां, श्रोत्रत्वग्नेत्र-रसनघ्राणात्मकानां ज्ञानेन्द्रियाणाम्, वाक्पाणि-[Page1506-a+ 38] पादपायूपस्थरूपाणां कर्मेन्द्रियाणां वा, सन्तानकल्पवृक्षमन्दारपारिजातहरिचन्दनानां देववृक्षाणां, म-हानाम्न्यादिवेदग्रहणार्थानां व्रतानाम्, दक्षिणाग्निगार्ह-पत्याहवनीयान्वाहार्य्यपचनावसथ्यानां वह्नीनां, व्रह्महत्या-सरापाणब्राह्मणस्वामिकसुवर्णहरणगुर्वङ्गनागमनतत्संसर्ग-जानां पातकानाम्, क्षित्यप्तेजोमरुद्व्योमरूपाणांमूतानां, कुमाररघुवंशमाघकिरातनैषधाख्यानां महा-काव्यानां, होमस्वाध्यायपाठपितृतर्पणातिथिपूजन-वैश्वदेवबलिरूपाणां गृहस्थकर्त्तव्यानां स्मार्त्तानाम्,अग्निहोत्रादीना नी॰ क॰ प्राग्दर्शितानां श्रौतानांवा यज्ञानां, सर्गप्रलयमन्वन्तरराजवंशतच्चरितरूपाणांपुराणलक्षणानाम्, प्राणापानसमानोदानव्यानरूपाणांदेहस्थवायूनाम्, उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनात्मि-कानां क्रियाणां, ज्ञानेन्द्रियविषयाणां शब्दस्पर्शरूप-रसगन्धात्मकानां, कर्मेन्द्रियविषयाणां वचनादानगमनविस-र्गानन्दात्मकानां वा पञ्चत्वात् तथा। शा॰ ति॰ उक्ताः। नीलकहीरकपद्मरागप्रबालमौक्तिकरूपाणां स्थाप्यघटेदेयानां रत्नानां पञ्चत्वस्य बोधकता वास्तुमूमावारोप्यर-त्नानां कालिदासादिकवीनाञ्च नवत्वात् तत्परत्वे नवत्वस्यवोधकताग्रे वक्ष्यते। श्वेतगौररक्तहरितश्यामरूपाणां वर्ण-विशेषाणाम् पञ्चत्वात् तथा पाटलादिवर्णानां मिश्रणेनैवजातत्वात् न पृथग्वर्णता, वर्णशब्दस्य ब्राह्मणादि-जातिपरत्वे चतुष्कस्य, अक्षरपरत्वे तन्त्रमते पञ्चाशल्लिपि-भिर्विभक्तेत्याद्युक्तेः पञ्चाशत्त्वस्य, शिक्षामते
“चतु षष्टि--स्त्रिषष्टिर्वा वर्ण्णाः सम्भवतोमताः” इत्युक्तसंख्याबोधकत्वमितिभेदः। तत्पुरुषाघोरसद्योजातवामदेवेशानरूपाणां शिव-मूर्त्तीनाम्,
“सम्मोहनस्तापनश्च शोषणः स्तम्भनस्तथा। उन्मादनश्च कामस्य वाणाःपञ्च प्रकीर्त्तिताः” इत्युक्तानांकामवाणानाम्
“निवृत्तिः सुप्रतिष्ठा स्यात् विद्या शान्ति-रनन्तरम्। शान्त्यतीता कलाः पञ्च विज्ञेयाः” इतिउक्तानां कलाविशेषाणाम्, ईशानमनोभवतत्पुरुषमकरध्वजाघोरकुमारतेजोवामदेवसन्मथसद्योजातकामदेवात्मका-नाम् तत्रैव उक्ताना कामदेवभेदानां च पञ्चत्वात्तथा। तत्पुरुषादिमन्त्ररूपाणां ब्रह्मऋचाञ्च पञ्चत्वात् तथा। भा॰ व॰ उक्ताः। प्रमाणविपर्य्ययविकल्पस्मृतिनिद्रारूपाणांवृत्तोनाम्, इन्द्रियवृत्तिरूपाणां स्रोतसाम्,
“किरणाधूतपापा च गुप्ततोया सरस्वती। गङ्गा च यमुना चैवपञ्च नद्यः प्रकीर्त्तिताः” काशी॰ उक्तानां नदीनां वा[Page1506-b+ 38] पञ्चत्वात्तथा। वृत्तिः कृत्तद्धितसमसैकशेषसनाद्यन्तधातुरूपा,पल्लवश्च
“आम्राश्वत्थवटप्लक्षयज्ञोडुम्बरपल्लवाः। पञ्च-पल्लवमित्युक्तम्” इत्युक्तानां पल्लवानां पञ्चत्वात्तथा। मूलम्
“विल्वशोनाकगाम्भारीपाटलागणिकारिका। पञ्चमूलमितिख्यातम्” इत्युक्तविल्वादिमूलानां पञ्चत्वात्तथा। कषायः
“जम्बुशाल्मलिवाट्यालमावकुलं बदरं तथा। कषायाःपञ्च विज्ञेयाः” इत्युक्तजम्व्वादीनां कषायाणांपञ्चत्वात् तथा। कोषः वेदान्तोक्तानामन्नप्राणमनोविज्ञानानन्दमयानां कोषाणां पञ्चत्वात्तया। देहत्वक्परत्वे षट्कबोधकताग्रे वक्ष्यते। गव्यम्
“पञ्चगव्यंदधि क्षीरं घृतगोमूत्रगोमयैः” इत्युक्तानां दध्यादेनां,पञ्चत्वात्तथा। तत्त्वम्
“मद्यं मांसं तथा मत्स्यो मुद्रा मैथु-नमेव च। पञ्चतत्त्वमिदं प्रोक्तम्” इत्युक्तमद्यादीनां पञ्च-त्वात् तथा। वल्कलम्
“न्यग्रधोदुम्बराश्वत्थप्लक्षवेतसवल्क-लम्। पञ्चवल्कलमित्युक्तम्” इति न्यग्रोधादिवल्कलानांपञ्चत्वात् तथा। शस्यम्
“धन्यं मुद्गास्तिलामाषा यवाः सिद्धा-र्थकोऽपि वा। पञ्चशस्यमिति प्रोक्तम्” इत्युक्तानां धान्यादी-नां पञ्चत्वात्तथा। सुगन्धिः कर्पूरकक्कोललवङ्गपुष्पगुवा-गजातिफलरूपाणां सुगन्धिकानां पञ्चत्वात् तथा। सूना
“पञ्च सूना गृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनीचोदकुम्भश्च” इत्युक्तचूल्ल्यादिरूपबध्यस्थानानां पञ्चत्वात्तथा। एकवृक्षाङ्गम्
“त्वक् पत्रं कुसुमं मूलं फलञ्चैकस्यशास्विनः। एकत्रस्थन्तु पञ्चाङ्गम्” इत्युक्तानां एकस्यवृक्षस्य त्वगादीनां पञ्चत्वात् तथा। पुरश्चरणाङ्गम
“जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम्। पञ्चाङ्गोपासनंशास्त्रे पुरश्चरणमिव्यते” इत्युक्तानां जपादीनां पञ्चत्वाततथा। अमृतम्
“दुग्धं च शर्करा चैव घृतं दधि तथामधु। पञ्चामृतमिदं प्रीक्तम्” इत्युकानां दुग्धादि-रूपाणाममृततुल्यस्वादूनां पञ्चत्वात्तथा। नाठ्योक्तिः-स्वगतप्रकाशापवारितजनान्तिकाकाशगतात्मिका पञ्चत्वात्तथा। अनुप्रासः छेकवृत्तिश्रुत्यन्त्यलाटानुप्रा-सात्मकः पञ्चत्वात् तथा। लघुलौहकम्
“सुवर्ण्णं रजतंताम्रं रङ्गं नागं तथेव च। पञ्चलाहमिति प्रोक्तम्” इत्युक्तसुबर्ण्णादिलौहानां पञ्चत्वात्तथा। मूर्गशिरातस्याः राशिचक्रे पञ्चमत्वात्तथात्वम। अभेदोपचारात्त-दविपचन्द्रोऽपि तथा। सुप्रतिष्ठा तस्याः पञ्चाक्षरपाद-त्वात्तथा। तर्कः आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्र-माणबाधितार्यकषसङ्गरूपतया पञ्चत्वात्तथा। कार्य्यावस्था[Page1507-a+ 38] आरम्भयत्नप्राप्त्याशानियताप्तिफलागमात्मिका पञ्चत्वा-त्तथा। नाटकस्थसन्धिः मुखप्रतिमुखगर्भविमर्षोपसंहृति-रूपः पञ्चत्वात्तथा। प्रस्तावना उद्घात्यककथोद्घात-प्रयोगातिशयप्रवर्त्तकावलगितात्मिका पञ्चत्वात् तथा। प्रयोजनसिद्धिहेतुःवीजविन्दुपताकाप्रकरीकार्य्यात्मा तथा। विपर्य्ययः अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकः तथा। अश्वगतिः
“आस्कन्दितं धौरितकं रेचितं बल्गितं प्लुतम्” इत्युक्तास्कन्दितादिलक्षणा तथा। गर्भस्थानुगामिधर्मः(
“आयुः कर्म च वित्तं च विद्या निधनमेव च। पञ्चै-तानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः” इत्युक्तायुरादिलक्षणस्तथा। योगाङ्गासनं
“पद्मासनं स्वस्तिकाख्यज्रिभद्रासने तथा। वीरासनमिति प्रोक्तं क्रमादासन-पञ्चकम्” शा॰ ति॰ उक्तस्वस्तिकादीनां पञ्चत्वात्तथा। पूजाङ्गासनं तु आसनशब्दे उक्तसंख्याबोधकमितिभेदः। हेत्वाभासः अनैकान्तविरुद्धासिद्धसत्प्रतिपक्षबाधा-त्मकः तथा। न्यायावयवः प्रतिज्ञाहेतूदाहरणो-पनयनिगमनात्मकः तथा। वेदान्तिमते तु त्रित्वस्येति-भेदः। कालगुणः दिग्गुणः मूर्त्तामूत्तसाधारणगुणश्चसंयोगविभागपरत्वापरत्वपृथक्त्वात्मकः तथा। बा-ह्यैकेन्द्रियग्राह्यगुणः शब्दस्पर्शरूपरसगन्धात्मकस्तथा
“दुःस्वं संसारिणः स्कन्धस्ते च पञ्च प्रकीर्त्तताः। विज्ञानं वेदना संज्ञा संस्कारोरूपमेव च” इत्युक्तविज्ञानादिलक्षणः स्कन्धस्तथा। प्रातिपदिकार्थः वि-शेष्यविशेषणसंख्याकारकलिङ्गात्मकस्तथा। अधिकरणावयवः
“विशयोविषयश्चैव पूर्ब्बपक्षस्तथोत्तरम्। निर्ण्णय-श्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम्” इत्युक्तसंश-यादिरूपस्तथा वर्णविभ जकोपाधिः
“वर्णान् जनयतेतेषां विभागः पञ्चधा मतः। स्वरतः कालतः स्थानात्प्रायत्रानुप्रदानतः” शिक्षोक्तेः उदात्तादिस्वरोच्चारण-कालस्थानाभ्यन्तरबाह्यप्रयत्नानां पञ्चत्वात् तथा। षट्संख्यावोधकाः कवि॰ ल॰ उक्ताः। वज्रास्त्रकोणानां,त्रिमूर्द्धासुरनेत्राणां, तर्काणां ज्ञानसाधनप्रमाणानां प्रत्यक्षा-नुमानोपमानागमार्थापत्त्यनुपलब्धिरूपाणाम्, विनियोग-साधनरूपाणां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यात्मकानांवा षट्क वाततथात्वम्। आपादकज्ञानाधीनापाद्यज्ञानरूप-परत्वे आत्माश्रयादिपञ्चविधप्रसङ्गरूपत्वात् पञ्चत्वस्य इतिभेदः। अङ्गानां मस्तकबाहुद्वयपदद्वयमध्यरूपाणाम् प्रधानाङ्गानां, शिक्षाकल्पव्याकरणनिरुक्तज्योतिषच्छन्दोकपाणां[Page1507-b+ 38] वेदाङ्गानां वा, न्यायवैशेषिकसांख्यपातञ्जलमीमांसावेदान्तात्मकानां तत्त्वज्ञानसाधनानां, दर्शनानाम् चक्रवर्त्तिनां चक्रा-वयवरूपाणाम् अराणां, कलौ शकप्रवर्त्तकानाम्
“युधि-ष्ठिरोविक्रमशालिवाहनौ धराधिनाथो विजयाभिनन्दनः। इमे तु नागार्ज्जुनमेदिनीविभुर्वलिःक्रमात् षट्शककारकाःकलौ” ज्योतिर्वि॰ उक्तानां युधिष्ठिरादीनां सार्व्वभौ-मानां वा, षडाननकार्त्तिकेयमुखानां, सन्धिविग्रहया-नासनद्वैधाश्रयरूपाणां नृपगुणानाञ्च षट्त्वात्तथात्वम्। गुणशब्दस्य सत्वादिपरत्वे त्रित्वस्य, द्रव्यधर्मभेदपरत्वेचतुर्विंशतित्वस्येति भेदः। मधुरकटुकषायाम्लतिक्तलवणानां रसानां षट्कत्वात्तथा। शृङ्गारादिरसपरत्वेनवत्वस्य बोधकतेति भेदः। शा॰ ति॰ उक्ताः। आमोद-प्रमोदसुमुखदुर्मुखविघ्नविघ्नकर्त्तृरूपाणां गणेशानां, क्रमे-णोक्तामोदादिप्रियाणां सिद्धिसमृद्धिकान्तिमदनावतीमदद्र-वाद्राविणीरूपाणाम्,
“स्नाय्वस्थिमज्जशुक्ताणि त्वङ्मांस-रुधिराणि च। षाट्कौषिकमिटं प्रोक्तं सर्वदेहेषुदेहिनामिति” तत्रोक्तानां स्नाव्वादीनां कोषाणाम्, बुभु-क्षापिपासाशोकमोहजरामृत्युरूपाणामूर्मीणाम्, डाकिनीराकिणीलाकिनीकाकिनीशाकिनीहाकिनीरूपाणाम् षट्-चक्राधिष्टितानां शक्तीनाम्,
“कलाध्वा चैव तत्त्वाध्वाभुवनाध्वेति च त्रयम्। वर्णाध्वा च पदाध्वा च मन्त्रा-ध्वेत्यपरं त्रयम्” इत्युक्तानां कलाध्वादीनामध्वनाम्-मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञारूपाणां दे-हस्थचक्रभेदरूपाणां डाकिन्यादिषट्शक्त्याधाराणां च षट्-कत्वात्तथा। ऋतूनां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिरात्मकानांषट्त्वात्तथा भा॰ व॰ उक्ताः। आधाने दक्षिणात्वेन विहित-गवानां षट्त्वात्तथात्वम्। कृत्तिकाः तासां षट्तारात्मक-त्वात् तथा नक्षत्रचक्रस्थतृतीयक्षेपरत्वे त्रित्वस्येति भेदः। एकाहसाध्यानामेकाहकर्त्तव्यदीक्षोपसद्मत्याङ्गकानां सद्य-स्क्रियावतां
“षट् साद्यस्क्राः” कात्या॰

१२ ,

२ ,

९ , सू॰ उप-क्रम्य

१२ ,

१३ ,

२५ , सूत्रान्तेषु दर्शितानां साद्यस्क्रदीर्घ-व्याधिप्रशमादिकामकर्त्तव्यानुक्रीविश्वजिच्छिल्पश्येनैकत्रिक-रूपाणाम् षट्त्वात् तथात्वमु। आर्द्रा राशिचक्रे तस्याः षष्ठत्वात् तथा तदभेदात् तदधिपशिवकालादिशब्दोऽपि तथा। गायत्री तस्याः षडक्षरपादत्वात्। भावविकाराणां जन्म-मत्त्ववृद्धिविपरिणामापक्षयनाशरूपाणां यास्कीक्तार्ना षट्-त्वात्तथा। भावपदार्थानां वैशेषिकसूत्रोक्तानां द्रव्यगुण-कर्मसामान्यविशेषसमयायात्मकानां षट्कत्वात्तथा।
“ऐश्व-[Page1508-a+ 38] र्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः। ज्ञानवैरा-ग्ययोश्चैव षण्णां भग इहोच्यते” इत्युक्तभगस्य षट्संख्या-योगात्तथा। कारकाणामपादानसंप्रदानकरणाधारकर्म्मकर्त्तृरूपाणां षट्कत्वात्तथा
“सुपां सुपा तिङा नाम्नाधातुनाऽथ तिङां तिङा। सुबन्तेनेति च प्रोक्तः समासःषड्विधोबुधैः” इत्युक्तानां, द्वन्द्वकर्मधारयद्विगुतत्पुरुष-बहुब्रीह्यव्ययीभावात्मकानां वा समासानां षट्त्वात्तथा। सङ्गतिः प्रसङ्गोपोद्घातहेतुताबसरनिर्वाहवैककार्य्यत्व-रूपा षट्कत्वस्य, शास्त्राध्यायपादसङ्गतिरूपा तु त्रित्वस्य,अधिकरणसङ्गतिरूपावान्तरसङ्गतिस्तु आक्षेपदृष्टान्तप्रत्युदा-हरणादिरूपा बहुत्वस्येति भेदः। अङ्गन्यासः शीर्घशिखामुख-हृदयनेत्रकरतलतत्पृष्ठन्यासरूपतया षट्त्वस्य, अभिज्ञादिव्यचक्षुःश्रीत्रपरचि तज्ञानपूर्वनिवासानुस्मृतिस्वात्मतत्त्व-ज्ञानवियद्गतिकायव्यूहादिसिद्धिरूपबौद्धधर्मभेदरूपा षट्-त्वस्य, नृपसैन्यं मौलभृत्यसुहृच्छ्रेणीपराजितशत्रु-सैन्याटविकात्मकम् षट्त्वात् तथा। सुरापाणसमम्
“ब्रह्मो-ज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः। गर्हितान्नाद्ययो-र्जग्धिः सुरापाणसमानि षट्” इत्युक्तम् षट्त्वात् तथा। नारीदूषणानि
“पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽ-टनम्। स्वप्नोऽन्यगृहबासश्च नारीणां दूषणानि षट्” काशी॰ उक्तानि षट्त्वात्तथा। शास्त्रतात्पर्य्यनिर्ण्णायकः
“उपक्रमोपसंहारावभ्यासोऽपूर्व्वता फलम्। अर्थवादोप-पत्ती च हेतुस्तात्पर्य्यनिर्ण्णये” इत्युक्तेः षट्त्वात् तथा। प्रीतिलक्षणम्
“ददाति प्रतिगृह्णाति गुह्यमाख्यातिपृच्छति। भुङ्क्ते भोजयते चैव षड्निधं प्रीतिलक्षणम्” इत्युक्तदानाद्यात्मकम् षट्कत्वात् तथा। गीताङ्गवस-न्तादिरागः षट्त्वात् तथा। पताकांस्थानाङ्गफलम्
“इष्टा-र्घरचनाश्चर्य्यलाभोवृत्तान्तविस्तरः। रागप्राप्तिः प्रयोगस्यगोप्यानां गोपनं तथा। प्रकाशनं प्रकाश्यानामङ्गानां षड्-विधम् फलम्” इत्युक्तेष्टार्थरचनादिरूपं षट्त्वात्तथा। रिपुः कामक्रोधलोभमोहमदमात्सर्य्यात्मकः षट्त्वात्तथाजन्मलग्नावधिकवष्ठस्थाने चिन्तनीयत्वाद्वा तथा। विप्रकर्मयजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकं षट्त्वात्-तथा। अभिचारः मारणोच्चाटनविद्वेषंणस्तम्भनमोहनवशीकरणात्मकः षट्त्वात् तथा। शमादिः शमदमोपरतितितिक्षाश्रद्धासमाधिरूपस्तथा। प्रत्यक्षम् श्रावणत्वाचचाक्षुषरासनघ्राणजमानसात्मकं षट्त्वबोधकम् लौ-किकप्रत्यक्षसन्निकर्षः इन्द्रियार्थसंयोगतत्संयुक्तसमवाय[Page1508-b+ 38] तत्संयुक्तसमवेतसमायसमवायसमवेतसमवायसंयुक्तविशे-षणतात्मकः षट्कत्वात्तथा। आकाशगुणः संख्यापरिमाणपृथक्त्वसंयोगविभागशब्दात्मकः षट्त्वात्तथा। निसित्तासमवायिकारणतापन्नगुणः उष्णस्पर्शद्रवगुरुत्व-वेगस योगविभागात्मकः षट्त्वात्तथा। मानभङ्गोपायःसामदानभेदनीत्युपेक्षारसान्तरात्मकः षट्कत्वात्तथा।

७ सप्तसंख्याबोधकाः। कवि॰ ल॰ उक्ताः। लोकः भूर्भूवःस्वर्महोजनतपःसत्यात्मक ऊर्द्ध्वस्थः, अतलवितलसुतल-तलातलमहातलरसातलपातालात्मकः अधःस्थो वा, द्वीपःजम्बुशाकशाल्मलिकुशक्रुञ्चगोमेदपुष्करात्मकः, मुनिश्चवैवखतमन्वन्तरे वसिष्ठकश्यपात्रिविश्वामित्रजमदग्निगौतम-भारद्वाजात्मकः स्यायम्भुवान्तरे मरीच्यत्रिपुलस्त्यपुलह-क्रतुप्रचेतोवशिष्ठात्मको वा सप्तत्वात् तथा। सूर्य्यहयःतदश्वानां सप्तत्वात् तथा। समुद्रः लवणेक्षुसुराघृतदधि-क्षीरस्वादूदकात्मकः, नृपराज्याङ्गम् स्वाम्यमात्यसुहृत्-कोषराष्ट्रदुर्गबलात्मकम्, धान्यम् यवव्रीहितिलमाषश्यामाककङ्गुमुद्गात्मकं सप्तत्वात् तथा। वह्निशिखाकालीकारालीमनोजवासुलोहितासुधूम्रवर्ण्णास्फुलिङ्गिनी-विश्वधामात्मिका, अद्रिश्च महेन्द्रमलयसह्यशुक्तिमदृक्षविन्ध्य-पारियात्रकुलपर्व्वतरूपात्मकः सप्तत्वात् तथा। शा॰ ति॰उक्ताः। सुदर्शनम् आचक्रविचक्रसुचक्रधीचक्रसचक्र-ज्वालाचक्रसुदर्शनचक्रात्मकम्, स्वरश्च निषादर्षभगान्धार-षड्जमध्यमधैवतपञ्चमात्मकः सप्तत्वात् तथा उदा-त्तादित्वे त्रित्वस्य, अज्वर्णरूपत्वे षोडशत्वस्येति भेदः। ग्रहः रविचन्द्रमौमवुधगुरुशुक्रशनिरूपः सप्तत्वात् तथा। राहुकेत्वोर्ग्रहत्वमते तु नवत्वस्य यज्ञियपात्रभेदत्वेदशत्वस्य
“दश ग्रहान् गृह्णातीति” श्रुतौ दशानामेवसोमग्रहणपात्राणां विधानात्।
“अष्टौ ग्रहां अष्टा-वतिग्रहाः” इति श्रुतेः ज्ञानसाधनात्मत्वे पञ्चज्ञानेन्द्रिय-मनोबुद्ध्यहङ्कारात्मकाष्टविधार्थग्रहणहेतुत्वात् अष्टत्वबोधक-इति भेदः। समिधाम् अर्कपलाशस्वदिरापामार्गपिप्-लोडुम्बरशमीरूपाणां, नी॰ क॰ उक्तानां ग्राम्यपशूनां गवा-दीनां, वन्यपशूनां महिषादीनाञ्च भूरादीनां व्याहृतीनाञ्चसप्तत्वात् तथा। भा॰ व॰ उक्ताः मनोबुद्धिसहितज्ञाने-न्द्रियपञ्चकात्मप्राणरूपः ऋषिः सप्तत्वात् तथा। मनो-बुद्ध्यादिप्राप्याणि सुखानि सप्तत्वात् तथा, वीणातन्त्रीतासां लोके सप्तत्वप्रसिद्धेस्तथा। छन्दः गायत्र्यादिजग-त्यन्तवैदिकछन्दोरूपम् सप्तत्वात्तथा लौकिकछन्दःपरत्वे[Page1509-a+ 38] षङ्किशतित्वस्येति भेदः। साममक्तिः ओङ्कारहिङ्कारप्र-स्तावोद्गीथप्रतिहारोपद्रवनिधनरूपा सप्तत्वात् तथा।
“लोकेषु सप्तविधं सामोपासीतेति” श्रुतौ साम्नां सप्तविध-त्वोक्तेस्तथात्वम्। वैशेषिकमते पदार्थः द्रव्यगुणकर्म्मसामा-न्यविशेषसमवायाभावात्मकः सप्तत्वात् तथा। प्रकृतिविकृतिःमहदहङ्कारशब्दस्पर्शरूपरसगन्धतन्मात्रात्मिका सप्तत्वात्तथा। पुनर्वसुस्तस्याराशिचक्रे सप्तमत्वात् तथा। अभे-दात्तदधिपतिरदितिरपि। उष्णिक तस्याः सप्ताक्षरपाद-त्वात् तथा। अश्वजन्मस्थानम्
“अमृताद् बाष्पतोवह्नेर्वेदे-भ्योऽण्डाच्च गर्भतः। साभ्नोहयानामुत्पत्तिः सप्तधा परि-कीर्त्तिता” इत्युक्तानां सप्तत्वात्तथा। तादृशोत्पत्तिस्था-नकत्वेन अश्वशब्दोऽपि तथा। मदस्रुतिवर्त्म
“करात् कटाभ्यांमेढ्राच्च नेत्राभ्याञ्च मदस्रुतिः” इथुक्तानां सप्तत्वात् तथा। वरगुणः
“कुलञ्च शीलञ्च मनोज्ञता च विद्या च वित्तं चवपुर्वयश्च। एतान् गुणान् सप्त विचिन्त्य देया कन्या बुधैःशेषमचिन्तनीयम्” इत्युक्तकुलादीनां सप्तत्वात् तथा। पौनर्भवा
“सप्त पौनर्भवाः कन्या वर्ज्जनीयाः कुलाधमाः। वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला। उदकस्पर्शिताया च या च पाणिगृहीतिका। अग्निं परिगता या चपुनर्भूप्रभवा च या” इत्युक्तानां सप्तत्वात् तथा। धर्म्यवित्ता-गमः
“सप्त वित्तागमा धर्म्यादायोलाभः क्रयोजयः। वि-भागः संप्रयोगश्च सत्प्रतिग्रह एव च” इत्युक्तदायादीनांसप्तत्वात् तथा। मरुत्, आवहप्रवहोद्बहसंवहविवहपरा-वहपरीवहात्मकः सप्तत्वात्तथा। अवान्तरभेदपरत्वे ऊन-पञ्चाशत्त्वस्येति भेदः। मोक्षदपुरी
“अयोध्या मथरा मायाकाशी काञ्चिरवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्ष-दायिकाः” इत्युक्तपुरीणां सप्तत्वात्तथा। अष्टबोधकाः कवि॰ ल॰ उक्ताः। योगाङ्गं यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधिरूपं, शिवमूर्त्तिःक्षित्यादिपञ्चभूतचन्द्रसूर्य्ययजमानरूपा, ऐरावतपुण्डरी-कवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकरूपोदन्ती चअष्टत्वात्तथा एकशेषात् करिणीशब्दोऽपि तथा करिण्यश्चअम्रमुकपिलापिङ्गलानुपमाताम्रकर्ण्णीशुभ्रदन्त्यङ्गनाञ्जनाव-तीरूपाः। सिद्धिः अणिमलघिमप्राप्तिप्राकाम्येशितावशिताव्याप्तिकामावसायितात्मिका अष्टत्वात् तथा। चतुर्वदन-ब्रह्मकर्ण्णस्तथा। व्याकरणम् इन्द्रचन्द्रकाशकृत्स्नापि-शिलिशाकटायनपाणिन्यमरजैनेन्द्रात्मकाष्टकर्त्तृकृतम् अष्ट-त्वात् तथा। दिक्पालः इन्द्रवह्नियमनिरृतिवरुण-[Page1509-b+ 38] वायुकुवेरेशानात्मकः प्राच्यादीनामष्टानां दिशामीश्वरा-णामेषामष्टत्वात् तथा। ऊर्द्धाधोदिकसहितदिक्पालपरत्वे दशत्वस्येति भेदः। अहिःशेषबासुकिपद्ममहा-पद्मतक्षककुलीरकर्कटशङ्खात्मकः अष्टत्वात्तथा। कुला-चलः मतान्तरे हिमाचलसहितः पूर्ब्बोक्तमहेन्द्रादिरूपःअष्टत्वाततथा। कुलाचलानां सप्तत्वप्रसिद्धावपि क्वचि-दष्टत्वव्याहारः।
“अष्टकुलाचलसप्तसमुद्राः” मोहमुद्गरः। ( शा॰ ति॰ उक्ताः। भैरवः असिताङ्गरुरुचण्डोन्मत्तकपा-लिभीषणक्रोधनसंहारात्मकः। प्रकृतिः प्रधानमहदङ्कारपञ्च-तन्मात्रात्मिका अष्टत्वात्तथा। प्रकृतिशब्दः प्रधानपरत्वेएकत्वस्य तत्त्वान्तरोपादानत्वपरत्वे अष्टत्वस्येति भेदः। गणेशः वक्रतुण्डैकदंष्ट्रमहोदरगजाननलम्बोदरविकटविघ्न-राजधूम्रवर्ण्णात्मकः अष्टत्वात्तथा। अग्निमूर्त्तिः
“जात-वेदाः सप्तजिह्वो हव्यपाहनसंज्ञकः। अश्वोदरजसंज्ञःस्यात् पुनर्वैश्वानराह्वयः। कौमारतेजाः स्याद्विश्वमुखोदेव-मुखः स्मृतः” शा॰ ति॰ उक्तानां जातवेदआदीनामष्टत्वात्तथा( भा॰ व॰ उक्ताः। शाणः आवपनतुल्यपूरणीयःमहहङ्कारचित्तसहितज्ञानेन्द्रियरूपः अष्टत्वात्तथा। शरभपादस्य लोके ऽष्टत्वप्रसिद्धेस्तथा। यूप-कोणस्य वेदे अष्टत्वप्रसिद्धेस्तथा। द्विजगुणाः
“दयासर्व्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमका-र्पण्यमस्पृहेति” गौतमोक्तानामष्टत्वात्तथा। वैशेषिकोक्तईश्वरगुणः संयोगविभागपृथक्त्वसंख्यापरिमाणबुद्धीच्छाकृतिरूपः अष्टत्वात्तथा। राज्याङ्गम् पौरश्रेणीसहितस्वाम्यमात्यादिसप्तकम् अष्टत्वाततथा। नृपगतिः
“आदानेच विसर्गे च तथा प्रैषनिषेधयोः। पञ्चमे चार्थवचनेव्यवहारस्यचेक्षणे। दण्डशुद्ध्येरवक्रः स्यात्तेनाष्टगतिकोनृपः” उशनसोक्तगतिरूपा अष्टत्वात्तथा। तारिणी
“ताराचोग्रा महोग्रा च वज्रा काली सरस्वती। कामेश्वणीच चामुण्डा इत्यष्टौ तारिण्योमताः” इत्युक्तानां तारा-मूर्त्तिभेदानामष्टत्वात्तथा। होमद्रव्यम्
“अश्वत्थोडुम्बरप्ल-क्षन्यग्रोधसमिधस्तिलाः। सिद्धार्थपायसाज्यानि द्रव्या-ण्यष्टौ विदुर्बुधाः इत्युक्तानामष्टत्वात्तथा। धातुः
“स्वर्ण्णं रौप्यञ्च ताम्रञ्च वङ्गं यशदमेवच। सीस लौहंरसश्चेति धातवोऽष्टौ प्रकीर्त्तिताः” इत्युक्तानामष्टत्वात्तथा देहस्थधातुपरत्वे सप्तत्वस्येति भेदः। महासरखती-भुजस्तस्था अष्टभुजत्वात्तथा। सात्विकभावः
“स्तम्भःस्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैबर्ण्यमश्रु[Page1510-a+ 38] प्रलय इत्यष्टौ स्वात्विकाः स्मृताः” सा॰ द॰ उक्तस्तम्भादी-नामष्टत्वात्तथा। असमवायिकारणगुणः रूपरसगन्धस्पर्श-परिमाणेकपृथक्त्वस्नेहशब्दात्मकः अष्टत्वात्तथा। निमित्तकारणगुणः बुद्धिसुखदुःखेच्छाद्वेषयत्नादृष्टभावना-त्मकस्तथा। मनोगुणः संख्यापरिमितिपृथक्त्वसंयोगविभागपरत्वापरत्ववेगात्मकस्तथा। मङ्गलम्
“मृगराजो-वृषोनागो कलसोव्यजनं तथा। वैजयन्ती तथा भेरीदीप इत्यष्टमङ्गलम्” इत्युक्तानां
“लोकेऽस्मिन् मङ्गलान्यष्टौब्राह्मणो, गौर्हुताशनः। हिरण्यं सर्पिरादित्योमालाराजा तथाष्टमः” इत्युक्तानां वाष्टत्वात्तथा। नायिका-वस्था स्वाधीममर्त्तृका खण्डिताभिसारिकाकसहान्तरिताविप्रलब्धाप्रोषितभर्त्तृकावासकसज्जाविरहोत्कण्ठितात्मिकाअष्टत्वात् तथा। वृहल्लौहम्
“सुवर्णं रजतं ताम्रं सीसकंकान्तिकं तथा। रङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टौ इमा-नि तु” इत्युक्तानामष्टत्वात् तथा। लघुलौहपरत्वे पञ्चत्व-स्य बोधकमित्युक्तम्। आयुर्वेदाङ्गम्
“शल्यं शालक्यंकायचिकित्सा भूतविद्या कौमारभृत्याऽगदतन्त्रं रसायन-तन्त्रं वाजीकरणतन्त्रमिति” सुश्रुतीक्तानामष्टत्वात्तथा। अर्घाङ्गम्
“आपःक्षीरं कुशाग्रञ्च दधि सर्पिः सतण्डु-लम्। पयः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्त्तित” इतिइत्युक्तानाम्
“आपःक्षीरं कुशाग्राणि घृतं मधु तथादधि। रक्तानि करवीराणि तथा वै रक्तचन्दनम्। अष्टाङ्गएष वा अर्घ, इत्युक्तानां वाष्टत्वात् तथा। प्रणामाङ्गम्
“जानभ्याञ्च तथा पद्भ्यां पाणिभ्यामुरसा धिया। शिरसायचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः” इत्युक्तानामष्टत्वा-त्तथा।
“मैथुनाङ्गम् स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्य-भाषणम्। संकल्पोऽध्यवसायश्च आसनस्पृष्टिरेव च। एतन्मैथुनमष्टाङ्गम्” इत्युक्तानामष्टत्वात्तथा। पुष्यं तस्यराशिचक्रे अष्टमत्वात् तथा। तदभेदात् तदधिपोजीवो-ऽपि। अनुष्ठुप् तस्याः अष्टाक्षरपादत्वात् तथा। तमः अव्यक्तमहदहङ्कारपञ्चतान्मात्रात्मकेष्वनात्मभूतेष्वात्मबुद्धिरूपमष्टविधविषयत्वात् तथा।
“भेदस्तमसोऽष्टविधो-मोहस्य च तथा” सा॰ का॰। मोहः अणिमादिसिद्धी-नामात्मगतानां शाश्वतिकत्वाभिमानरूपः अणिमाद्यष्ट-विधविषविषयत्वात् तथा। विवाहः ब्राह्मदैवार्षप्राजा-पत्यासुरगान्धर्व्वराक्षसपैशाचात्मकः अष्टत्वात् तथा। सिद्धि
“ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्रांप्तिः। जन{??} सिद्धयोऽष्टौ” सा॰ का॰ उक्तोहादीनामष्टत्वात्तथा। [Page1510-b+ 38] उक्तसिड्वीनां नामान्तराणि सां॰ कौ॰ दर्शितानि। तारसुता-रतारताररम्यकसदामुदितप्रमोदमुदितमोदमानरूपाणि। खगगतिः
“संपातं विप्रपातञ्च महापातं निपातनम्। वक्रं तिर्य्यक् तथा चोर्द्ध्वमष्टमं लघुसंज्ञकम्” इत्युक्तसम्पातादिरूपा अष्टत्वात् तथा परिकर्म्म अङ्कशास्त्रोक्तयोगवियोगगुणनभागवर्गतत्पदघनतत्परूपम् अष्टत्वात्-तथा” वर्ण्णोत्पत्तिस्थानम्।
“अष्टौ स्थानानि वर्ण्णा-नामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्तोष्ठौ नामा-मूलं तालु च” शिक्षोक्तोरआदीनामष्टत्वात् तथा। अव्रतघ्नम् अष्टौ तान्यव्रतघ्नानि आपोमूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” स्मृत्युक्ताबादी-नामष्टत्वात्तथा। नहारोगः उन्मादत्वग्दोषराजयक्ष्मश्वास-मधुमेहभगन्दरोदराश्मरीरूपः अष्टत्वात् तथा। नवत्वसंख्याबोधकाः कबि॰ ल॰ उक्ताः। मुखनासिकानेत्रकर्ण-द्वयोपस्थपायुरूपाणां देहद्वाराणाम् नवसंख्यायोगात् तथाभारतकिन्नरहरिकुरुहिरण्मयरम्यकेलावृतभद्रतुरगकेतुमा-लाख्यानां भूखण्डानाम्, तपस्याकाले स्वयंकृत्तानां रा-वणमस्तकानाम्, व्याघ्रीस्तनानां
“गौडी पैष्टी च माध्वी चविज्ञेया त्रिविधा सुरा” इति त्रिविधसुरायाः सात्विक-राजसतामसाधिकारिभेदसेव्यतया नवत्वात्तथा। कुण्डानांअष्टासु दिक्षु अष्टौ ऐशानीप्राच्योर्मध्ये आचार्य्यकुण्ड-मेकमिति मण्डपाङ्गकुण्डानां नवत्वात्तथा।
“पद्मोऽस्त्रियःमहापद्मः शङ्खोमकरकच्छपौ। मुकुन्दकुन्दनीलाश्च वर्च्चो-ऽपि निधयो नव” हारा॰ उक्तानां पद्मादीनाम्” अङ्का-नामेकादीनां नवान्तानां, शृङ्गारवीररौद्रकरुणाद्भुतहास्य-भयानकबोभत्सशान्ताख्यानामलङ्कारोक्तानां रसानाम्, रवि-चन्द्रभौमबुधगुरुशुक्रशनिराहुकेतुरूपाणा ग्रहाणाञ्च नव-त्वात् तथात्वम्। शा॰ ति॰ उक्ता
“सच्चिदानन्दविभवात्सकलात् परमेश्वरात्। आसीच्छक्तिस्ततो नादो नादा-द्विन्दुसमुद्भवः। परशक्तिमयः साक्षात् त्रिधाऽसौ भिद्यतेपुनः। विन्दुर्नादो बीजनिति तस्य भेदाः समीरिताः। विन्दुः शिवात्मको वीजं शक्तेर्नादस्तयोमिर्थः। समवायःसमाख्यातः सर्वागमविशारदैः। रौद्री विन्दोस्ततोना-दात् ज्येष्ठा वीजादजायत। वामा, ताभ्यः समुद्भूताःरुद्रब्रह्मरमाधिषाः” तत्रैवाद्ये उक्तानां शक्तितत्त्वानांपीटशक्तीनां तत्तद्देवताभेदेन भिन्नानां तत्रैवोक्तानाम
“मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रमौ। पुष्परागंमरकतं नीलञ्चेति न्यसेत् क्रमात्” इत्युक्तानां रत्नानां[Page1511-a+ 38] नवत्वात् तथा। वर्गाणामकचटतपयशलरूपाणाम् नव-त्वात् तथा लोके लक्षरूपलवर्गस्याभावात् अष्टसंख्या-बोधक इति भेदः। प्राणरक्षकदुर्गाभेदरूपाणाम् शा॰ति॰

२३ प॰ उक्तानां प्राणदूतीनाम्, नवत्वात्तथा। भा॰ व॰। सामधेनी तस्याश्च यथा नवत्वं तथा नी॰क॰ व्या॰ दर्शितं प्रकृतिसंयोगः स्य च सृष्टौ यथानवधा योगस्तथोक्तं प्राक्। ( ईश्वरलक्षणम् जगज्जन्मस्थितिप्रलयेषु प्रत्येकं ज्ञानचि-कीर्षाप्रयत्नात्मतया नवत्वात्तथा।
“विश्वसर्गविसर्गादिनव-लक्षणलक्षितम्” श्रीधरः। पत्रिका कदली दाडिमीधान्यं हरिद्रामानकं कचुः। विल्वोऽशोको जयन्ती चविज्ञेया नव पत्रिकाः” इत्युक्तानां पत्रिकाणां नवत्वात्तथा। नवपत्रिकास्थदेवीरूपा दुर्गा ब्रह्माणीरक्तदन्ति-कालक्ष्मीजयन्तीचामुण्डाकालिकाशिवा शोकरहिताकार्त्ति-कीरूपाणां नवत्वात् तथा। कविश्रेष्ठार्थकरत्नशब्दः
“धन्व-न्तरिः क्षपणकोऽमरसिंहशङ्कुर्वेतालभट्टघटकर्परकांलिदा-साः। ख्यान्तोवराहमिहिरोनृपतेः सभायां रत्नानि वै वर-रुचिर्नव विक्रमस्य” ज्योतिर्वि॰ उक्तानां विक्रमादित्यसभा-स्थकविश्रेष्ठानां नवत्वात् तथा। विष्णुभक्तिः
“श्रवणं की-र्त्तनं विष्णोःस्मरणं पादसेवनम्। अर्चनं बन्दनं दास्यंसख्यमात्यनिवेदनम्। इति पुंसाऽर्पिता विष्णौ भक्ति-श्चेन्नवलक्षणा” भाग॰

७ ,

५ उक्तश्रवणादिरूपा नव-त्वात् तथा। तुष्टिः
“आध्यात्मिक्यश्चतस्रः प्रकृत्युपा-दानकालभाग्याख्याः। बाह्या विषयोपरमात् पञ्च नवतुष्टयो भवन्तीह” सां॰ का॰ उक्तानां नवत्वात् तथा। अभ्यागतेऽव्ययकार्य्यम्।
“नवैतानि गृहस्थेन कार्या-ण्यभ्यागते सदा। अन्ययानि च यत् सौम्यं वाक्यं

१ चक्षु

२ र्मनो

३ मुखम्

४ । अभ्युत्थान

५ सिहायाते सस्नेहं

६ पूर्वभाषणम्

७ । उपासन

८ मनुव्रज्या

९ ” काशी॰उक्तानि नवत्वात् तथा। अभ्यागते ईषद्व्ययसाध्यकार्य्याणि।
“तथेषद्व्यययुक्तानि कार्य्याण्यभ्यागतेनव। आसनं

१ पादशौचं

२ च यथाशक्त्यशनं

३ क्षितिः

४ । शय्या

५ तृणं

६ जला

७ भ्यङ्क

८ दीपा

९ गार्ह-स्थ्यसिद्धिदाः” काशी॰ दर्शितानि नवत्वात्तथा। गृह-स्थावश्यत्याज्यनिन्द्यकार्य्याणि
“तथा नव विकर्माणि त्या-ज्यानि गृहमेधिना। पैशुन्यं परदाराश्च द्रोहः क्रोधा-नृताप्रिये। द्वेषीदम्भश्च माया च स्वर्गमार्गार्गला-णि च” काशी॰ उक्तानि नवत्वात्तथा। अवश्यकर्त्त-[Page1511-b+ 38] व्यानि
“नवावश्यककर्म्माणि कार्याणि प्रतिवासरम्। स्नान सन्ध्या जपोहोमः स्वाध्यायो देवतार्चनम्। वैश्वदेवं तथातिथ्यं नवमं पितृतर्पणम्” काशी॰ उ-क्तानि नवत्वात् तथा। गोप्यानि
“जन्मर्क्षं मैथुनंमन्त्रो गृहच्छिद्रञ्च वञ्चनम्।{??}युर्धनापमानं स्त्री नप्रकाश्यानि सर्वथा” काशी॰ उक्तानि नवत्वात्तथा। प्रकाश्यानि
“नवैतानि प्रकाश्यानि बहुपापमकुत्सि-तम्

१ । प्रायोग्य

२ मृणशुद्धिश्च

३ स्वान्वयः

४ क्रय

५ वि-क्रयौ

६ । कन्यादानं

७ गुणो

८ त्कर्षः

९ ” काशी॰ दर्शितानिनवत्वात्तथा। अक्षयदानपात्राणि।
“पात्रमित्रविनीतेषुदीनानाथोपकारिषु। पितृमातृगुरुष्वेतन्नवकं दत्तमक्ष-यम्” काशी॰ उक्तानि नवत्वात्तथा। निष्फलदान-पात्राणि
“निष्फलं नवकं सृष्टं चाटचारणतक्षसु। कुवैद्ये कितवे धूर्त्ते शठे मन्दे च बन्दिनि” काशी॰उक्तानि नवत्वात्तथा। अदेयवस्तूनि
“आपत्स्वपिन देयानि नव वस्तूनि मर्वदा। अन्वये सति सर्वस्वं दा-राश्च शरणागताः। न्यासाधी कुलवृत्तिश्च निक्षेपः स्त्री-धनं सुतः” काशी॰ उक्तानि नवत्वात्तथा। साधारण-कर्म्म
“सत्यं शौचमहिंसा च क्षान्तिर्ज्ञानं दया दमः। अस्तेयमिन्द्रियाकोचः कर्म्म साधारणं मतम्” काशी॰उक्तानि नवत्वात् तथा। द्रव्यं क्षितिजलतेजोवाय्वाकाश-कालदिन्मनआत्मरूपं नवत्वात् तथा। तमसोद्रव्यत्वमतेदशत्वबोधकमिति भेदः। स्थायिभावः
“रतिर्हाश्चश्चशोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चे-त्यमष्टौ प्रोक्ताः शमोऽपि च” सा॰ द॰ उक्तरत्यादीनांनवत्वात्तथा।

१० दशत्वबोधकाः। कवि॰ व॰ उक्ताः। हस्ताङ्गुलीनां, दश-भुजशम्भुबाहूनां, दशमुखरावणमौलीगां, मीनकूर्म्मवराहनृसिंहवामनपरशुरामदाशरथिबलभद्रबुद्धकल्किरूपाणां कृ-ष्णावताराणाम्, पूर्व्वाग्नेयीदक्षिणनैरृतीपश्चिमावायव्यो-त्तरैशान्यूर्द्धाधोरूपाणां दिशां गविश्वेषां देवानां गणदेव-ताभेदानां, क्रतुदक्षवसुसत्यकामकालध्वनिरोचकपुरूरवोमाद्रवसोरूपाणाम्, दशाश्वरघचन्द्राश्वानाञ्च दशत्वात्तथाशा॰ ति॰। शक्तितत्त्वानि
“निवृत्त्याद्याः कलाः पञ्च ततोविन्दुकला पुनः। नादः शक्तिः सदापूर्वः शिवश्च प्रकृतेर्विदुः” इत्युक्तनिवृत्त्यादिरूपाणि दशत्वात्, तथा। नाडीनाम्इडापिङ्गलासुपुम्णासहितानाम्
“गान्धारीहस्तिजिह्वाख्यासप्तषालम्बुषा मता। यशश्विनी शङ्खिनी च कुहूः स्युः[Page1512-a+ 38] सप्त नाडिकाः” इत्युक्तानां दशत्वात् तथा। भा॰ व॰। पुरुषस्य वागादोनामधिदैवमधिभूतं स्थितानां विषयसर्पणवर्त्मात्मकदिशां दशचात्तथा
“ता वा एता दशैव भूत-मात्रा अधियज्ञं प्रज्ञामात्रा अधिमूतमिति” श्रुतेस्तथा-त्वम्। गर्भमासानाम्, उपनिषद्भेदेन उपदेशकम-हावाक्यानाम्
“ब्रह्माहमस्मीति” एवमादोनां तद्विनेयानांतद्विक्षेपकाणाञ्च दशत्वात्तथा। महाविद्या
“काली तारा महाविद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमावती तथा। वगला सिद्ध-विद्या च मातङ्गी कमलात्मिका। एता दश महाविद्याःसिद्धविद्याः प्रकीर्त्तिताः” इत्युक्तकाल्यादीनां दशत्वात्-तथा। ब्राह्मणः सारस्वतकान्यकुब्जगौडमैथिलोत्कलद्रा-विडमहाराष्ट्रतैलङ्गगुर्जरनागररूपतया दशत्वात्तथात्वम्। पापानि
“अदत्तानामपादानं हिंसा चैवाविधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्। पारुष्यमनृ-तं चैव पैशुन्यं चापि सर्व्वशः। असम्बन्धप्रलापश्च वा-ङ्मय स्याच्चतुर्विधम्। परद्रव्येष्वभिध्यानं मनसानिष्टचि-न्तनम्। वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम्। एतानि दश पापानि” इत्युक्तानां दशत्वात्तथा योगाङ्गरूपो यमः
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं कृपार्जवम्। क्षमा धृतिर्मिताहारः शौचं चेति यमा दश” इत्युक्ताहिंसादीनां दशत्वात्तथा। नियमः
“तपः सन्तोषआस्तिक्यंदानं देवस्य पूजनम्। सिद्धान्तश्रवणं चैव ह्रीर्मतिश्चजपोहुतम्। दर्शते नियमाः प्रोक्ताः” शा॰ ति॰ उक्ततपआ-दीनां दशत्वात् तथा। रूपककाव्यम्
“नाटकमथ प्रकरणंभाणव्यायोगसमकारडिमाः। ईहामृगाङ्गवीथ्यः प्रहसनमिति रूपकाणि दश” इत्युक्तनाटकादीनां दशत्वात्तथालास्याङ्गम्
“गेयं पदं स्थितपाद्यमासीनं पुष्पगण्डिका। प्रच्छेदकान्तर्गूढं च सैन्धवाख्यं द्विगूढकम्। उत्तमो-त्तमकं चान्यदुक्तप्रत्युक्तमेव च। लास्ये दशविधं ह्येतदङ्ग-मुक्तं मनाषिभिः” इत्युक्तगेयादीनां दशत्वात्तथा। धर्म्म-लक्षणम्
“धृतिःक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” इत्युक्तधृत्यादी-नां दशत्वात् तथा। पञ्चमूलद्वयम्
“उभाभ्यां पञ्चमूलाभ्यांदशमूलमुदाहृतम्” इत्युक्तानां दशत्वात्तथा। पञ्च-मूले च
“श्राफलः सर्व्वतोभद्रा पाटला गणिकारिका। शोनाकः पञ्चभिश्चैतैः पञ्चमूलमुदाहृतम्। शालपर्ण्णीपृश्निपर्ण्णी वृहतो कण्ठकारिका। गोक्षुरः पञ्चभिश्चैतैः[Page1512-b+ 38] कनिष्ठं पञ्चमूलकम्” भा॰ प्र॰ परिभाषिते। तेन प्रत्येकमूलशब्दः पञ्चार्थकत्वात् पञ्चत्वस्य बोधक इति भेदः। उपनिषद्
“ईशाकेनकठः प्रश्नोमुण्डमाण्डूक्यतित्तिरिः। ऐतरेयं च छान्दोग्यं वृहदारण्यक दश” इत्युक्तेशादीनांप्रधानोपनिषदां दशत्वात्तथा। मन्त्रसंस्कारः तन्त्रोक्त-दशविधतया दशविधत्वात्तथा। ( न्यायावयवः केषांचिन्मते जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयव्युदाससहितानां प्रतिज्ञाहेतूदादरणोपन-यनिगमानां दशत्वात्तथा। मघा राशिचक्रे तस्या दश-मत्वात्तथा तदभेदात् तदधिपपितृशब्दोऽपि तथा। पङ्क्तिः दशाक्षरपादत्वात्तथा दशरथ इत्यर्थे पङ्क्तिरथः इ-त्यादिः। बौद्धबलम्
“दानं शीलं क्षमा वीर्य्यं ध्यानं प्रज्ञाबलानि च। उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै” इत्युक्तदानादीनां दशत्वात्तथा। वह्निकला
“धूम्रार्चिरूष्माज्वलिनी ज्वालिनी विस्फुलिङ्गनी। सुश्रीः सुरूपा क-पिला हव्यकव्यवहे अपि” इत्युक्तधूम्रार्चिरादीनां दशत्वा-त्तथा। योगभङ्गः
“तिथ्यङ्कवेदैकदशोनविंशभैकादशाष्टाद-शविंशसंख्याः। इष्टोडुना सूर्य्ययुतोडुयोगाद्योगाअमूश्चेत्दश योगभङ्गाः” ज्यो॰ उक्तयोगजातपञ्चदशाद्यङ्कानां दश-त्वात्तथा। विप्राशौचदिनम्
“शुध्येद्विप्रोदशाहेन” मनू-क्तेःविप्राशौचस्य दशदिनव्यापित्वात्तथा। लघुर्द्विजसंस्का-रः गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म्मनामकरणनिष्-क्रामणान्नाशनचूडोपनयनविवाहरूपतया दशत्वात्तथा। वृहत्संस्कारस्तु अष्टचत्वारिंशच्छब्दे उक्तचत्वारिंश-त्त्वावबोधक इति भेदः। महापुराणलक्षणम्
“सर्गोऽस्याथविसर्गश्च वृत्तीरक्षान्तराणि च। वंशोवंशानुचरितं संस्थाहेतुरपाश्रयः। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदोविदुः। कोचित् पञ्चविधं चख्युर्महदल्पव्यवस्थया” भाग॰

१२ ,

७ । महामोहः दिव्यादिव्यशब्दादीनां तद्विषयाणां दशत्वात्-तथा।
“दशविधो महामोहः” सा॰ का॰। देहस्थवायुः प्राणादिपञ्चकसहितनागकूर्म्मधनञ्जयकृ-कलदेवदत्ताख्यानाम् देहस्थानां दशत्वात्तथा। वह्निः
“भ्राजकोरञ्जकश्चैव स्वेदकः स्नेहकस्तथा। वारकोबन्धक-श्चैव द्रावकाख्यश्च सप्तमः। व्यापकः पावकश्चैव श्मेष्मकःदशमःस्मृतः” इति पदार्थादर्शोक्तानाम् देहस्थाग्नीनां
“तेजकोदीपकश्चैव विभ्रमम्रमशोषणाः। आवसथ्याहव-नीयौ दक्षिणाग्निस्तथैव च। अन्वाहार्य्यो गार्हपत्य इत्येतेदश वह्नयः” इति तत्रैवोक्तानां बाह्यवह्नीनां वा दशत्वात्त-[Page1513-a+ 38] था। दिक्पालवाहनम् ऐरावतछागमहिषसिंहमकरह-रिणाश्ववृषभहंसपद्मरूपम् दशत्वात् तथा। मतान्तरेसोमस्थाने कुवेराधिपतित्वे तस्य नरवाहनत्वमिति भेदः। दिक्पालास्त्रम् वज्रशक्तिदण्डखड्गपाशाङ्कशगदात्रिशूल-चक्रपद्मरूपम् दशत्वात् तथा। दुर्गाभुजःतस्या दशभुजत्वात्-तथा। सामान्यगुणः संख्यापरिमितिपृथक्त्वसंयोगविभाग-परत्वापरत्वनैमितिकद्रवगुरुत्ववेगरूपो दशत्वात् तथा। तेषाञ्च अनेकद्रव्यगुणत्वात् सामान्यत्वम्। अमूर्त्तगुणः
“धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोऽपि च। एतेऽमू-र्त्तगुणाः सर्वे” इत्युक्तधर्मादीनां दशत्वात् तथा। बुद्ध्या-दयश्च षट् बुद्धिसुखदुःखेच्छाद्वेषयत्नरूपा इति दशत्वम्। मूर्त्तगुणः
“रूपं रसःस्पर्शगन्धौ परत्वमपरत्वकम्। द्रवो-गुरुत्वं स्नेहश्च वेगो मूर्त्तगुणा अमी” इत्युक्तरूपादीनांदशत्वात् तथा। एकादशबोधकाः कवि॰ ल॰ उक्ताः रुद्राणाम्
“अजैकपादहि-{??}उध्नोविरूपाक्षश्च रेवतः। हरश्च बहुरूपश्च त्र्यम्बकश्चसुरेश्वरः। रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः” इत्युक्ताजादिकानामेकादशत्वात् तथा। दुर्य्योधनसेनाना-मेकादशाक्षौणीमितत्वात् तथा। ( भा॰ व॰ उक्ताः। पशुयागे स्तोमभेदानां, तत्रत्ययूपानांचैकादशत्वात्तथा मनसासहितज्ञानकर्मेन्द्रियाणां तद्-ग्राह्यविषयाणाञ्च एकादशत्वात् तथा। ( इन्द्रियघातः
“बाधिर्य्यं कुष्ठितान्धत्वं जडताऽजिघ्रतातथा। मूकता कौण्यपङ्गुत्वक्लैवोदावर्त्तमन्दताः” इत्युक्तबाधिर्य्यादीनामेकादशत्वात्तथा।
“एकादशेन्द्रियबधाः” सां॰ का॰। पूर्वफाल्गुनो तस्याः ऋक्षचक्रे एकादशत्वात् तद-धिपोभगश्च तथा। तेजोगुणः रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगनैमित्तिकद्रवरूपतयाएकादशत्वात् तथा। कारणोद्भवगणः अपाकजरूपरस-गन्धस्पर्शापाकजद्रवस्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणस्थिति-स्थापकसंस्काररूपत्वात् एकादशत्वबोधकः। अव्याप्य-वृत्तिगुणः बुद्धिसुखदुःखेच्छाद्वेषथत्नादृष्टभावनाशब्द-संयोगविभागरूपतया एकादशत्वात् तथा। द्वादशबोधकाः कवि॰ ल॰ उक्ताः
“धाता मित्रोऽर्य्यमा रुद्रो वरुणःसूर्य्यएव च। भगोविवस्वान् पूषा च सविता दशमः स्मृतः। एकादशन्तथा त्वष्टा विष्णुर्द्वादश उच्यते” विष्णुधं॰ उक्त-धात्रादीना चान्द्रचैत्रवैशाखज्यैष्ठाषाढश्रावणभाद्राश्विन-कार्त्तिकम्मर्गपौषमाषफाल्गूनरूपाणां मासानां, मेषवृष-[Page1513-b+ 38] मिथुनकर्कटसिंह कन्यातुलावृश्चिकधनुर्मकरकुम्भमीनरूपाणांराशीनां, तेषु सूर्य्यादिसंक्रान्तीनाञ्च द्वादशत्वात् तथा। कार्त्तिकबाहूनां, तन्नेत्राणां शारीफलककोष्ठानाम् अरि-शब्दे दर्शितराजमण्डलस्य च द्वादशत्वात् तथाशा॰ ति॰। आदित्यानां विष्णुधर्ममूर्त्तीनाञ्च तथात्वम्। तत्रैव

१५ प॰
“द्वादशादित्यसहितामूर्त्तीर्द्वादश विन्यसेत्। केशवाद्याः क्रमाद्देहे वक्ष्यमाणविधानतः। ललाटेकेशवं

१ धात्रा, कुक्षौ नारायणं

२ पुनः। अर्यम्णा हृदिमित्रेण

३ माधवं

३ कण्ठदेशतः। वरुणेन

४ च गोविन्दं

४ ,पुनर्दक्षिणपार्श्वके। अंशुना

५ विष्णु

५ मंसस्थं भगेन

६ मधुसूदनम्

६ । गण्डे विवस्वता

८ युक्तं त्रिविक्रम

७ मन-न्तरम्। वामपार्श्वस्थमिन्द्रेण

८ वामनाख्य

८ मथांसके। पूष्णा

९ श्रीधरनामानं

९ गले पर्जन्य

१० संयुतम्। हृषीकेषाह्वयं

१० पृष्ठे पद्मनाभं

११ ततःपरम्। त्वष्ट्रा

११ दामोदरं

१२ पश्चात् विष्णुना

१२ ककुदि न्यसेत्

१२ ” इत्यु-क्तानां द्वादशत्वात् तथा। भा॰ व॰। जगती तस्याःद्वादशाक्षरपादत्वात्तथा। प्राकृतयज्ञसाधनाहः तस्य द्वाद-शाहसाध्यत्वात् तथा। ( नाटकीयमुखाङ्गम्
“उपक्षेपः परिकरः परिन्यासोविलोभनम्। युक्तिः प्राप्तिः समाघानं विधानं परि-भावना। उद्भेदः कारणं भेद एतान्यङ्गानि वै मुखे” मा॰ द॰ उक्तोपक्षेपादिरूपतया तथा। बौद्धमतसिद्धमाय-तनम्
“अर्थानुपार्ज्य बहुशो द्वादशायततानि वै। परितः पूजनीयानि किमन्यैरिह पूजितैः। ज्ञानेन्द्रियाणिपञ्चैव तथा कर्मेन्द्रियाणि च। मनोतुद्धिरिति प्रोक्तं द्वाद-शायतनं बुधैः” इत्युक्तायतनानां द्वादशत्वात् तथा। उत्तरफाल्गुनी राशिचक्रे तस्या द्वादशत्वात् अभेदोपचारात्तदधिपार्य्यमापि तथा। तुषितः
“प्राणापानसमानाश्चउदानोव्यान एव च। चक्षुः श्रोत्ररसाघ्राणस्पर्शोबुद्धिर्मन-स्तथा। द्वादशैते च तुषिता देवाः स्वायम्भुवेऽन्तरे” इत्युक्तप्राणादिनामकगणदेवात्मकत्वात्तथा। जटाधरमते
“षट्त्रिंशत्तुषितामताः” इत्युक्तेः षट्त्रिंशत्त्वस्येति भेदः। क्षत्रियाशौचदिनम्
“द्वादशाहेन भूमिपः” इति मनूक्ते-स्तस्याशौचस्यद्वादशाहसमाप्यत्वात्तथा। साध्यः
“मनोमन्तातथा प्राणो नरोऽपानश्च वीर्य्यवान्। विनिर्भयोनयश्चैवदंशो नारायणो वृषः। प्रभुश्चेति समाख्याताः साध्याःद्वादश पौर्विकाः” इत्युक्तमनादिगणदेवात्मकः द्वादश-त्वात्तथा। सूर्य्यकला
“तपिनी तापिनी धूम्रा मरीपि-[Page1514-a+ 38] र्ज्वालिनी रुचिः। सुषुम्णा भोगदा विश्वा बोधिनीधारिणी क्षमा” शा॰ ति॰ उक्ततपिन्यादीनां द्वादशत्वात्-तथा मद्यम्
“पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम्माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम्। समानानिविजानीयान्मद्यान्येकादशेव तु। द्वादशन्तु सुरामद्यंसर्वेषामधमं स्मृतम्”। पुलस्त्योक्तपानसादीनां द्वादशत्वात्तथा

१३ त्रयोदशसंख्याबोधकाः। कवि॰ ल॰ उक्ताः ताम्बूलगुणःताम्बूलशब्दे वक्ष्यमाणत्रयोदशविधत्वात्तथा। भा॰ व॰। महीद्वीपः ऊर्द्धलोकषट्काधोलोकसप्तकरूपत्रयोदशद्वी-पतुल्ययोगात्तथा। अतिच्छन्दः गायत्र्यादिवैदिकच्छ-ब्दःसप्तकातिक्रान्तातिजगतीच्छन्दोरूपम् त्रयोदशा-क्षरपादतया तथा। प्रतिमुखाङ्गं
“विलापः परिसर्पश्चविधृतं तापनं तथा। नर्म्म नर्म्मद्युतिश्चैव तथा प्रश-मनं पुनः। विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपा-सनम्। पुष्पं वज्रमुपन्यासोवर्ण्णसंहार इत्यपि” सा॰ द॰उक्तविलासादीनां तथात्वात्तथा। गर्भाङ्गम्
“अभूताहरणंमार्गोरूपोदाहरणे क्रमः। संग्रहश्चानुमानञ्च प्रार्थना-क्षिप्तिरेव च। त्रोटकाधिबलोद्वेगा गर्भेस्युर्विद्रवस्तथा” तत्रोक्ताभूताहरणादीनां तथासंख्यत्वात्तथा। विमर्षाङ्गम्
“अपवादोऽथ संफेठो व्यवसायोद्रवः स्मृतिः। शक्तिःप्रसङ्गः खेदश्च प्रतिषेधोविरोघनम्। प्ररोचना विमर्षेस्यादादानं छादनं तथा” सा॰ द॰ उक्तापवादादीनांत्रयोदशत्वात्तथा। हस्तनक्षत्रं तस्य राशिचक्रे त्रयो-दशत्वात्तथा तदभेदात् तदधिपदिनकृदपि तथा। करणं
“करणं त्रयोदशविधम्” सा॰ का॰ उक्तज्ञानकर्म्मेन्द्रिय-दशकमनोबुद्ध्यहङ्काररूपं त्रयोदशत्वात्तथा। चतुर्द्दशसंख्याबोधकाः कवि॰ ल॰ उक्ताः। विद्या
“अङ्गानिवेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणञ्चविद्या ह्येताश्चतुर्द्दश” इत्युक्ताङ्गविद्यादिरूपा” मनुः
“स्वाय-म्भुवो मनुरभूत् प्रथमस्ततोऽमी स्वारोचिषोत्तमजता-मसरैवताख्याः। षष्ठस्तु चाक्षष इति प्रथितः पृथिव्यांवैवस्वतस्तदनु सम्प्रति सप्तमोऽयम्” सि॰ शि॰ उक्तानां
“सा-र्णिर्दक्षसावर्ण्णिर्ब्रह्मसावर्ण्णिकस्तथा। धर्म्मसावर्ण्णिकोरुद्र-पुत्रोरौच्यश्च भोत्यकः” पुराणोक्तानां च चतुर्द्दशत्वात्तथा। इन्द्रः इन्द्रशब्दे मन्वन्तरभेदे उक्तनासयुक्तः, भुवनम् भूरा-दिसप्तकातलादिसप्तकरूपं ध्रुवतारकयीगताराश्च चतु-र्द्दशत्वात् तथा। एवं यममूर्त्तिः यमधर्मराजमृत्य्वन्तक( वस्वतकालसर्वभूतक्षयौडुम्बरदध्ननीलपरमेष्ठिवृकोदरचित्र-[Page1514-b+ 38] चित्रगुप्तात्मिका चतुर्द्दशत्वात्तथा। क्षितिगुणः रूपरसगन्ध-स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगगु-रुत्वद्रवत्वात्मकः, जलगुणः गन्धहीनस्नेहसहितक्षितिगुणा-त्मकः, आत्मगुणश्च बुद्धिसुखदुःखेच्छाद्वेषयत्नसंख्यापरि-माण पृथकत्वसंयोगविभागभावनाधर्माधर्मात्मकः चतुर्द्द-शत्वात्तया। चित्रा तस्याराशिचक्रे चतुर्द्दशत्वात्तथा तद-भेदात्तदधिपत्वष्टापि तथा। शक्करी तस्याश्चतुर्दशाक्षरपादकत्वात् तथा। श्रीविद्यायन्त्रबाह्यकोणम् तन्त्रे तेषांचतुर्द्दशत्वोक्तेस्तथा। निर्वहणाङ्गम्।
“सन्धिर्विबोधो-ग्रथनं निर्ण्णयः परिभाषणम्। कृतिः प्रमादआनन्दःसमयोऽप्युपगूहनम्। भाषणं पूर्ववाक्यञ्च काव्यसंहारएव च। प्रशस्तिरिति संहारे उक्तान्यङ्गानि नामतः” सा॰ द॰ उक्तसन्ध्यादीनां चतुर्द्दशत्वात्तथा। पञ्चदशसंख्याबोधकः विशेषव्यवहार्य्या चन्द्रकलाक्रियात्मिकातिथिः उभयपक्षोयप्रतिपदादिरूपा पञ्चदशत्वात्तथा। चन्द्रस्यामाकलायाः सामान्यतिथित्वेऽपि तस्या विशेषतोव्यवहाराभावात् न पञ्चदशत्वव्यघागः। स्वातिनक्षत्रंतस्यर्क्षचक्रे पञ्चदशत्वात् तदभेदात् तदधिपपवनोऽपि तथाअतिशक्करी तस्याः पञ्चदशाक्षरपादकत्वात् तथा। वैश्याशौचाहः
“वैश्यः पञ्चदशाहेन” मनूक्तेस्तस्याशौच-स्य पञ्चदशाहव्यापकत्वात्तथा। पक्षमानं तस्य पञ्चदशतिथिरूपत्वात् तथा। कालीयन्त्रकोणं
“त्रिपञ्चारे पीठे” इत्युक्तेस्तेषां पञ्चदशत्वात्तथा। षोडशसंख्यावोधकाः इन्दुकला
“अमृता मानदा पूषा तुष्टिःपुष्टीरतिर्धृतिः। शशिनश्चन्त्रिका कान्तिर्ज्योतस्ना श्रीःप्रीतिरङ्गदा। पूर्णा पूर्णामृता कामदायिन्यः स्वरजाःकलाः” शा॰ ति॰। उक्तामृतादिरूपा, कलाशब्दे वक्ष्यमाणादिगादिरूपा ब्रह्मकला च षोडशत्वात् तथा। स्वरवर्णःतन्त्रमते अकारादिविमर्गान्तकः षोडशत्वात् तथा। शिक्षा-मते
“स्वरा विंशतिरेकश्चेति” इत्युक्ते। एकविंशतित्वस्येतिभेदः। अष्टिः षोडशाक्षरपादत्वात् तथा। विशाखाराशिचक्रे तस्याः षोडशत्वात् तथा। तदभेदात् तदद्भिपौइन्द्राग्नी अपि तथा। तत्त्वज्ञानोपयोगितया ज्ञातव्यपदा-दार्थः
“प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवत-र्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थान-रूपः गौतमोक्तः षोडशत्वात्तथा। प्रेतश्राद्धम् आद्य-द्वादशमासिकषाण्मासिकद्वयसपिण्डीकरणरूपं षोडश-त्वात्तथा। नृप षोडशराजिके प्रसिद्धमरुत्तादिरूपः षोड-[Page1515-a+ 38] त्वात्तथा। ते च नृपाः
“मरुत्तः,

१ सुहोत्रः

२ पौरवोंऽङ्गः

३ औशीनरशिविः

४ दाशरथिरामः

५ भगीरथः

६ ऐलविल-टिलीपः

७ , यौवनाश्वोमान्धाता

८ , नाहुषययातिः

९ नाभागोऽम्बरीषः

१० शशविन्दुः

११ , गयः

१२ साङ्कृतिःरन्तिदेवः

१३ , दौष्मन्तिर्भरतः

१४ , वैण्यः

१५ , जामदग्न्यो-रामः

१६ इत्येते भा॰ द्रो॰

५५ ,

७० अ॰ दर्शिताः। तत्त्वान्तरानुपादानलक्षणः सांख्योक्तः विकारः एकादशे-न्द्रियपञ्चमहाभूतात्मकत्वेन षोडशत्वात्तथा।
“षोडशकस्तुविकारः” सां॰ का॰।

१७ सप्तदशसंख्याबोधकाः। अनुराधा राशिचक्रे तस्याः सप्तदश-त्वात् तथा तदभेदात्तदधिपमित्रोऽपि तथा। अत्यष्टिः सप्त-दशाक्षरपादत्वात् तथा। लिङ्गदेहावयवः
“पञ्चप्राणमनोबुद्धि-दशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोग-साधनम्” इत्युक्तानां सप्तदशत्वात् तथेति वेदान्तिनः। सांख्यमते तु पञ्चप्राणस्थाने पञ्चतन्मात्राणीति भेदः
“ससप्तदशकेनापि युज्यते नात्र संशयः”।
“सप्तदशैकंलिङ्गम्” सां॰ सू॰।

१८ अष्टादशसंख्याबोधकाः कवि॰ ल॰ सप्त द्वीपाः महाद्वीपाजम्बुप्रभृतयः एकादश उपद्वीपा इत्यष्टादशत्वात् तथा।
“अष्टादशद्वीपनिखातयूपः” रघुः
“नवद्वयद्वीपपृथग्-जयश्रियामिति” नैष॰। विद्या धनुर्वेदायर्वेदगान्धर्ब्बार्थशास्त्रसहितचतुर्द्दशविद्यारूपा अष्टादशत्वात् तथा। महापुराणम् उपपुराणशब्दे दर्शितब्राह्म्यादिरूपम्अष्टादशत्वात् तथा। स्मृतिः अष्टादशस्मृतिकारिशब्दे-दर्शितविष्णुप्रभृतिप्रणीता अष्टादशत्वात् तथा। धान्यम्अष्टादशधान्यशब्दे दर्शितयवादिरूपम् तथा। महा-लक्ष्मीभूजाः तस्या अष्टादशभुजत्वात्तथा। ज्येष्ठा राशि-चक्रे तस्या अष्टादशत्वात्तथा तदभेदात् तदधिप इन्द्रोऽपितथा। धृतिः तस्या अष्टादशाक्षरपादत्वात्तथा। विवादःअष्टादशविवादपदशब्दे दर्शितर्ण्णादानादीनामष्टादश-त्वात्तथा। कुण्डसंस्काराः
“अष्टादश स्युः संस्काराःकुण्डानां तन्त्रनोदिताः। वीक्षणं मूलमन्त्रेण ह्यस्त्रेणप्रोक्षणं मतम्। तेनैव ताडनंदर्भैर्वर्म्मणाभ्युक्षणं स्मृतम्। अस्त्रेण खननोद्धारौ तन्मन्त्रेण प्रपूरणम्। समीकरण-मस्त्रेण सेचनं वस्त्रेणा मतम्। कुट्टनं हेतिमन्त्रेण वर्म्म-मम्बेण मार्ज{??} विलेपनं कलारूपं कल्पनं तदनन्त-रम्। त्रिसूत्रीक णं पश्चाद्धृदयेनार्च्चनं मतम्। अस्त्रेणहतवीकरणं{??} प्येण कुशैः शुभैः। चतुपथं तनुत्रेण[Page1515-b+ 38] तनुयान्नेत्रपाटनम्” शा॰ ति॰ उक्तानाम् अष्टादशत्वात्तथा। भाषा संस्कृता शौरसेनी महाराष्ट्री मागधी अर्द्धमागधीआवन्तिका दाक्षिणात्या शाकरी वाह्लिकी द्राविडीआभीरी चाण्डाली शावरी पैशाची प्राकृता चेतिसा॰ द॰उक्तानां षोडशानां राक्षसीपाश्चात्त्यासहितानामष्टादश-त्वात् तथा
“अष्टादशभाषावारविलासिनी” सा॰ द॰व्यसनम्
“दश कामसमुत्थानि तथाष्टौ क्रोधजानि च। व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत्। मृगयाऽक्षो-दिवास्वप्नः परिवादः स्त्रियोमदः। तौर्य्यत्रिकं वृथा-ट्या च कामजोदशकोगणः। पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपिगणोऽष्टकः” मनूक्तमृगयादीनामष्टादशत्वात्तथा। भारतपर्व्व तेषामष्टादशत्वात्तथा।

१९ ऊनविंशतिबोधकाः। धर्म्मशास्त्रकारकः
“मन्वत्रिविष्णुहा-रीतयाज्ञवल्क्योशनोऽङ्गिराः। यमापस्तम्बसंवर्त्ताः का-त्यायनवृहस्पती। पराशरव्यासशङ्खालिखोतो दक्षगौत-मौ। शीतातपोवसिष्ठश्च धर्म्मशास्त्रप्रयोजकाः” इत्युक्तमन्वादीनामूनविंशतित्वात्तथा। मूलनक्षत्रम् तस्यराशिचक्रे ऊनविंशतितमत्वात्तथा। तदभेदात् तदधिप-निरृतिरपि तथा। अतिधृतिस्तस्या ऊनविंशत्यक्षरपादत्वा-त्तथा। अभिजिन्मानम् तस्याः उत्तराषाढापञ्चदशदण्ड-श्रवणचतुर्दण्डरूपतयोनविंशतिदण्डात्मकत्वात्तथा।

२० विंशतिबोधकः रावणभुजानां, नखानाम्, अङ्गुलीनां चहस्तपादयोस्तावन्मितत्वात् तथा। पूर्व्वाषाढा राशिचक्रेतस्या विंशत्वात्तथा। तदभेदात् तदधिपजलमपि तथा। छन्दोरूपा कृतिस्तस्याः विंशत्यक्षरपादत्वात्। शनेस्तुता-यामुच्चांशः मेषे नीचांशश्च तथा। तत्र तस्य विंशांशे एवपरमोच्चनीचयोः ज्यो॰ उक्तत्वात्। ताजकोक्तग्रहोच्चबलम्(
“त्रिंशत्स्वभे विंशतिरुच्चभे स्वे” नी॰ क॰ उक्ते-स्तस्य विंशतितमत्वात्तथा।

२१ एकविंशतिसंख्यातोधकाः। परशुरामक्षितिजयस्तस्य एकबिं-शतिमितत्वात् तथा। उत्तराषाढा तस्या ऋक्षचक्रे एक-विंशत्वात्तथा। तदभेदात् तदधिपविश्वोऽपि तथा। कन्दोरूपा प्रकृतिस्तस्या एकविंशत्यक्षरपादत्वात्तथा। मूर्च्छना
“मूर्च्छनाश्चैकविंशतिः” भरतोक्तेः सप्तस्वराणाम्आरोहावरोहक्रमरूपैस्त्रित्वात् एकविंशतिरूपतया तथा। स्वरवर्ण्णः
“स्वरा विंशतिरेकश्चेति” शिक्षोक्तेस्तन्मते स्तराणांतत्संख्यत्वात्तथा। [Page1516-a+ 38]

२२ द्वाविंशतिसंख्याबोधकाः। श्रवणा तस्या ऋक्षचक्रे द्वाविंश-त्वात्तथा। तदभेदात् तदधिपहरिरपि तथा। आकृतिःतस्याद्वाविंशत्यक्षरपादत्वात्तथा। निग्रहस्थानम्
“प्रतिज्ञा-हानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो-हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालंन्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभाक्षेपो मता-नुज्ञा पर्य्यनुयोज्योपक्षेपणम् निरनुयोज्यानुयोगोऽप-सिद्धान्तोहेत्वाभासाश्च” गौ॰ सू॰ उक्तानां प्रतिज्ञाहान्या-दीनां द्वाविंशतित्वात् तथा।

२३ त्रयोविंशतिसंख्याबोधकाः। धनिष्ठा तस्या ऋक्षचक्रेत्रयोविंशत्वात्तथा। तदमेदात् तदधिपवसुरपि तथा। विकृतिः तस्याः त्रयोशिंशत्यक्षरपादत्वात् तथा।

२४ चतुर्विंशतिसंख्याबोधकाः। तत्त्वम् प्रधानमहदहङ्कारशब्दस्पर्शरूपरसगन्धतन्मात्रैकादशेन्द्रियपञ्चस्थूलभूतरूपं चतु-र्विंशतित्वात् तथा। पुरुषसहितप्रधानादिपरत्वे पञ्चविंश-तित्वस्य पुरुषेश्वरयुततत्परत्वे षड्विंशतित्वस्य बोधकमितिभेदः। गायत्र्यक्षरम् तस्या षडक्षरपादत्वाच्चतुष्पाद्यांतथासंख्यायोगात् तथात्वम्। जिनः ऋषभाजितसम्भवा-भिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयों-शवासुपूज्यविमलानन्ततीर्थकृद्धर्मशान्तिकुन्थुररमल्लिमुनिसु-व्रतनिमिनेमिपार्श्ववीरात्म कश्चतुर्विंशतित्वात् तथा। ज्याक्रान्तिश्च सि॰ शि॰ चतुर्विंशतिमितत्वोक्तेस्तथा। शतभिषातस्याराशिचक्रे चतुर्विंशत्वात्तथा तदभेदात् तदधिपवरुणो-ऽपि। स्वगततारासमुदायपरत्वे शतत्वस्येति भेदः। संकृतिस्तस्याश्चतुर्विंशत्यक्षरपादत्वात्तथात्वम्। जातिःन्यायोक्तदोषभेदरूपा प्रतिषेधहेतुः चतुर्विंशतित्वात् तथा। सा च गौ॰ सू॰ दर्शिता यथा
“साधर्म्यबैधर्म्योत्कर्षाप-कर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्-पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धि-नित्यानित्यकार्य्यसमाः” इति। वैशेषिकोक्तः द्रव्याश्रितःगुणः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभा-गपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषयत्नगुरुत्वद्रवस्नेहसं-स्कारपुण्यापुण्यशब्दात्मकत्वात् चतुर्विंशतित्वस्य बोधकः। अन्यार्थपरत्वेत्रित्वादीनां बोधक इत्युक्तं प्राक्। विष्णु-मूर्त्तिः शङ्खचक्रगदापद्मानां दक्षवामहस्तेषु विन्या-सविशेषेण जातचतुर्विंशतिभेदा तथा। तस्य मूर्त्तभेदो-ध्यानशब्दे वक्ष्यते।

२५ पञ्चविंशतिसंख्याबोधकाः
“मूलप्रकृतिरविकृतिर्महदाद्याः[Page1516-b+ 38] प्रकृतिविकृतयः सप्त। षोडशकस्तुविकारो न प्रकृतिर्नविकृतिः पुरुषः” सा॰ का॰ उक्तपुरुषसहितप्रधानादिपञ्चविंशतितत्त्वानामङ्गीकारात् तथा।
“पञ्च पञ्चजनाः” इति श्रुतिरेव तत्र मानतया तैरङ्गीकृता। शा॰ भा॰ तुतस्याः श्रुतेः देवपितृगन्धर्व्वासुरयक्षादीनां पञ्चप्राणा-दीनां पञ्चविंशतित्वपरतेत्युक्तम्। पूर्वभाद्रपदा तस्या-राशिचक्रे पञ्चविंशत्वात्तथा। तदभेदात् तदधिपः अजै-कपादपि तथा। उत्कृतिः तस्याः पञ्चविंवत्यक्षरपादत्वा-त्तथा। स्पर्शः कादिमावसानवर्णानां पञ्चविंशतित्वात्तथा।
“स्पर्शानां पञ्चविंशतिः” शिक्षा।

२६ षड्विंशतिसंख्याबोधकाः तत्त्वम् जीवेश्वरसहितप्रकृत्यादि-रूपं तस्य षड्विंशत्वात्तथा। उत्तरभाद्रपदा तस्याःराशिचक्रे षड्विंशत्वात् तथा तदभेदात् तदधिपाहिबु-ध्नोऽपि तथा। संकृतिस्तस्याः षड्विंशत्यक्षरपादात्तथा।

२७ सप्तविंशतिः। नक्षत्रं उडुचक्रशब्दे दर्शितराशिचक्रस्थाश्विन्यादिसप्तविंशतिरूपत्वात् तथा। रेवती तस्या राशि-चक्रे सप्तविंशत्वात्तथा। शुक्रस्य मीने सूच्चं कन्यायांसुनीचं च तथा।

२८ अष्टाविंशतिसंख्याबोधकाः साभिजिन्नक्षत्रम् तस्थाष्टावि श-त्वात्तथा। सात्विकनार्य्यलङ्कारः
“यौवने सत्वजास्तासा-मष्टाविंशतिसंख्यकाः। अलङ्कारास्तत्र भावलावहेलास्त्र-योऽङ्गजाः। शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता। ( औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः। लीला विलासोविच्छित्तिर्विव्वोकः किलकिञ्चितम्। मोट्टायितं कुट्टमितंविभ्रमोललितं मदः। विकृतं तपनं मौग्ध्यं विक्षेपश्चकुतूहलम्। हसितं चकित केलिरित्यष्टादशसंख्यकाः” सा॰ द॰ उक्तदशस्वभावजभावसहितलीलादीनामष्टाशाना-मष्टाविंशतित्वात्तथा।

३२ द्वात्रिंशत्त्वबोधकाः दन्तः तस्य नरमुखे द्वात्रिंशत्संख्यक-त्वात्तथा। भगवदपराधः अपराधशब्दे

२३

२ पृ॰ द-र्शितानां यानगमनादीनां क्षत्रियसिद्धान्नभोजनादीनांवा द्वात्रिंशत्त्वात्तथा।

३३ त्रयत्रिंशत्त्वबोधकः। नाठ्यालङ्कारः
“आशीराक्रन्दकपटाऽक्षमागर्वोद्यमाश्रयाः। उत्प्रासनं स्पृहाक्षोभपश्चात्तापोपपत्तयः। आशंसाऽध्यवसायौ च विसर्पोल्लेखसंज्ञितौ। उत्तेजनं परीवादो नीतिरर्थविशेषणम्। प्रोत्साहनञ्च साहाय्यमभिमानोऽनु र्त्तनम्। उत्कीर्त्तनतथा याच्ञा परीहारोनिवेदतम्। प्रवर्त्तनाख्यान[Page1517-a+ 38] युक्तिप्रहर्षाश्चोपपदेशनम्” सा॰ द॰ उक्ताशीरादीनांतत्संख्यकत्वात्तथा। व्यभिचारिभावः
“निर्वेदावेगदैन्य-श्रममदजडता औग्र्यमोहौ विबोधः स्वप्नापस्मारगर्व्वा-मरणमलसताऽमर्षनिद्राबहित्याः। औत्सुख्योन्मादशङ्काःस्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयाविषादाःसधृतिचपलताग्लानिचिन्तावितर्काः” सा॰ द॰ उक्तानांतत्संख्यत्वात्तथा।

६ षट्त्रिंशत्संख्याबोधकाः। रागिणी
“रानाः षट् त्रिंश-च्च भार्य्याः इति भरतोक्तेः वसन्तादिरागभार्य्याणां तत्-संख्यकत्वात् तत्संख्याबोधकता। रागिणीशब्दे ताश्च-वक्ष्यन्ते। नाटकलक्षणम् सा॰ द॰
“षट्त्रिंशलक्षणान्यत्र” इत्युपक्रम्य
“भूषणाक्षरसंघातौ शोभोदाहरणं तथा। हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः। निदर्शनाभिप्रायौच प्राप्तिर्विचार एव च। दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा। विशेषणनिरुक्ती च सिद्धिर्भ्रंशविपर्य्ययौ। दाक्षिण्यानुनयौ मानार्थापत्तिर्गर्हणा तथा। पृच्छाप्रसिद्धिः सारूप्यम् संक्षेपोगुणकीर्त्तनम्। लेशो मनो-रथोऽनुक्तसिद्धिः प्रियवचस्तथा” इत्युक्तभूषणादीनांषट्त्रिंशत्त्वात्तथा।

३८ अष्टत्रिशत्संख्याबोधकाः सोमसूर्य्याग्निकला
“सोमसूर्य्या-ग्निभेदेन मातृकावर्ण्णसम्भवाः अष्टत्रिंशत्कलास्तत्तन्म-ण्डणेषु व्यवस्थिताः” शा॰ ति॰ उक्तानां सोमषोडशकलासूर्य्यद्वादशकलावह्निदशकलारूपाणामष्टत्रिंशत्त्वात्तथा।

४० चत्वारिंशत्संख्याबोधकः। तानः
“चत्वारिंशत्ततामताः” इतिभरतोक्तेः ततशब्दवाच्यतानानां तत्संख्यत्वात्तथा।

४९ ऊनपञ्चात्संख्याबोधकः। अनिलः अनिलशब्दे दर्शितो-नपञ्चाशद्भेदत्वात्तथा।

५० पञ्चाशत्संख्याबोधकः। मातृकालिपिः तस्याः तन्त्रमतेपञ्चाशद्वर्ण्णात्मकत्वात्तथा।
“पञ्चाशल्लिपिभिर्विभक्तेत्या-दि” शा॰ ति॰।

५१ एकपञ्चाशद्बोधकः महापीठः महापीठशब्दे वक्ष्यमाणभेदानां महापीठविशेषाणां तत्संख्यकत्वात्तथा।

६४ संख्याबोधकाः। वर्ण्णाः शिक्षामते
“चतुःषष्टिस्त्रिषष्टि-र्वा वर्ण्णाः सम्भबतोमताः। स्वराविंशतिवेकश्च स्पर्शानां पञ्च-विंशतिः। यादयश्च स्मृताह्यष्टौ चत्वारश्च यमाः स्मृताः। अनुस्वारोविसर्गश्च + कं पौ चापि पराश्रितौ। दुस्पृष्टश्चेतिविज्ञेय ऌकारः प्लुतएव वा” इति शिक्षोक्तेस्तथा। कलाकलाशब्दे वक्ष्यमाणभेदानां तासां चतुःषष्टित्वात्तथा। [Page1517-b+ 38] महादेवीपोठम्
“मायामङ्गलनागवामनमहालक्ष्मीचरित्राभृगुच्छायाच्छत्रहिरण्यहास्तिनमहेन्द्रोड्डोशचम्पापुरम्। पद्मं क्षीरकमञ्जनेश्वरपटेलीचन्द्रपूः श्रीगिरिः कोलाकुल्लक-पूर्ण्णपर्व्वतकुरुक्षेत्रैकलिङ्गार्बुदाः। काश्मीरैकाम्रकाञ्ची-मलयगिरिवरेकारकुन्भूतदेवीकौ दाम्नालेशजालन्धरसुर-भिमणीशाद्रिकाशीप्रयागाः। त्रिस्रोतःकाककोट्योज्ज-यिनिसमथुरं कोशलाकान्यकुब्जौ ड्राणैङ्काराट्टहासा विरजइह ततः कुण्डिनं राजगेहम्। नेपालं पुण्डवर्द्धनमालवपारसीकामरूपकेदाराः। विन्ध्यमहामठगोश्रुतिक-म्पिल्लाश्रीपीठमरुदेशाः” पदार्थादर्शोक्तानां तत्संख्य-कत्वात्तथा।

१०

० शतसंख्याबोधकाः पुरुषायुषम्
“शतायुर्वै पुरुषः इतिश्रुतेस्तथा। रावणहस्ताङ्गुलिः तस्य विंशतिबाहुत्वेनप्रत्येकं बाहौ पञ्चाङ्गुलियोगात् शतत्वेन तथात्वम्। इन्द्रयज्ञः तस्य शतयज्ञत्वेन तद्यज्ञानां शतत्वात् तथा।

१०

०० सहस्रबोधकाः। इन्द्रनेत्रः तस्य सहस्रनेत्रतया तन्ने-त्राणां सहस्रत्वेन तथा। विराट्पुरुषचक्षुः तत्पादःतद्बाहुस्तन्मूर्द्धा च तथा।
“सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात्” श्रुतिः। कार्त्तवीर्य्यार्जुनबाहुः वाणासुरबाहुश्चतयोः सहस्रबाहुत्वात् तथा। अनन्तशीर्षम् तस्य सहस्र-शीर्षतया तथा। गङ्गास्रोतोमुखम् समुद्रसङ्गमसमीपस्थानेसहस्रमुखतया तस्याः प्रवहनात्तथात्वम्। सामवेदशाखातद्वेदस्य सहस्रशाखत्वात् तथा।

१०

०० अयुतसंख्याबोधकः रामराज्यकाल
“दश वर्षसहस्राणि रामोराज्य मकारयत्” रामा॰ उक्तेस्तथा। अत्रेदं बोध्यम। शास्त्रकारैः ये ये पदार्था यद्यत्संख्यक-तया उक्तास्तत्तच्छब्दास्तत्तत्संख्याबोधकाः। तेषु दिङ्-मात्रमत्र दर्शितम अनयैव रीत्यान्येषामपि सुश्रुताद्युक्तभेद-युक्ततत्तत्पदार्थपराणां शब्दानां तत्तत्संख्यार्थकत्वंकल्पनीयम्। शब्दार्थयोरभेदाच्च क्वचिच्छब्दस्य तदर्थकताउक्ता क्वचिच्चार्थस्यैव तत्तत्संख्यायोगौक्तः तेनैव तत्त-दर्थकशब्दस्य तत्तत्संख्याबोधकता उन्नेया। इयांस्तु विशेषःसमुदायवर्त्तिपदार्थस्यैकदेशवृत्तित्वाभिप्रायेण बहुसंख्या-न्वितपदार्थबोधकानामपि एकवचनादिप्रयोगोऽपि। यथा
“रामोऽगवेदैर्जलधिस्तु मैत्रैरित्यादौ” रामजलध्योः त्रित्वचतुष्ट्वबोधकत्वेऽपि एकवचनान्तता अगवेदैरित्यादौ सप्तत्व-चतुद्धबोधकयोः बहुवचनान्तता। एवमन्यत्रापि। उक्त-शब्दानां कचित्संख्यापरत्वम् क्वचित्संख्येयपरत्वम[Page1518-a+ 38] क्वचिच्च पूरणार्थताऽपि यथा
“दिग्भिर्गुणैरष्टयमैः शरैकैर्वाणैभसंख्यैर्नखसंमितैश्च” नी॰ क॰ दिगादिशब्दानां दशमा-द्यंशपरत्वम्। एवं
“युग्माग्नी कृतभूतानि षण्मुनी वसु-न्त्रयोः” इत्यादौ युग्माग्निप्रमृतीनां तत्तत्संख्यापूरणीद्वितीयादिपरत्वम्। अत्र च ये शब्दा उक्तास्तत्पर्य्याय-शब्दा अपि तत्तत्संख्याबोधकाः इति।

"https://sa.wiktionary.org/w/index.php?title=एकादि&oldid=250870" इत्यस्माद् प्रतिप्राप्तम्