एकान्तदुःषमा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकान्तदुःषमा¦ स्त्री दुष्टा समा वर्षोदुःषमा सुषमा॰ षत्वम्एकान्तं दुःषमा
२ त॰। बौद्धकल्पिते कालभेदे हेमच॰। यथा
“कालो द्विविधोऽवसर्पिर्ण्युत्सर्पिणीषु भेदतः। सागरकोटिकोटीनां विंशत्या स समाप्यते। अवसर्पिण्यांषडरा उत्सर्पिण्यां त एव विपरीताः। एवं द्वादश-भिररैर्विवर्त्तते कालचक्रमिदम्। तत्रैकान्तसुषमारश्चतस्रःकोटिकोटयः। सागराणां सुषमा तु तिस्रस्तूत्कोटिकोटयः। सुखमदुःखमाने द्वे दुःखमसुखमा पुनः। सैका सहस्रै-र्वर्षाणां द्विचत्वारिंशतोनिता। अथ दुःखमैकविंशतिरव्द-सहस्राणि तावती तु स्यात्। एकान्तदुःषमापि ह्येतत्-संख्याः परेऽपि विपरीताः। प्रथमारत्रये मर्त्त्यास्त्रिद्व्येक-पल्यजीविताः। त्रिद्व्येकगव्यूत्युच्छ्राया स्त्रिद्व्येकदिनभो-जनाः। कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः। पूर्ब्बकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः। पञ्चमे तु वर्ष-शतायुषः सप्तकरोच्छ्रयाः। षष्ठे पुनः षोडशाव्दायुषो-हस्तसमुच्छ्रयाः एकान्तदुःस्वप्रचिता उत्सर्पिण्यामपी-दृशाः। पञ्चानुपूर्व्व्या बिज्ञेया अरेषु किल षट्स्वपि”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकान्तदुःषमा/ एका f. " containing only bad years " , (with जैनs) N. of two spokes in the wheel of time (the sixth of the अवसर्पिणीand the first of the उत्सर्पिणी, qq.v.)
