सामग्री पर जाएँ

एकान्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकान्तम्, क्ली, (एकस्मिन्नेव अन्तः समाप्तिर्यस्य ।) अत्य- न्तम् । तत्पर्य्यायः । अतिशयः २ भरः ३ अतिवेलम् ४ भृशम् ५ अत्यर्थम् ६ अतिमात्रम् ७ उद्गाढम् ८ निर्भरम् ९ तीव्रम् १० नितान्तम् ११ गाढम् १२ वाढम् १३ दृढम् १४ । (यथा माघे २ । ८३ । “तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः” ॥ तद्वति, त्रि । यथा कुमारे १ । ३६ । “नागेन्द्रहस्तास्त्वचि कर्कशत्वा- देकान्तशैत्यात् कदलीविशेषाः” ॥ तथा भागवते । १ । ४ । ४ । तस्य पुत्त्रो महायोगी समदृङ्निर्विकल्पकः । एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते” ॥) भेद्यगामिनि त्रि । इत्यमरः ॥ (सर्व्वत्र यदवधारे- णोच्यते स एकान्तः ॥ यथा “तृवृद्विरेचयति मद- नफलं वामयतीति” ॥ इत्युत्तरतन्त्रे ६५ अध्याये सुश्रुतेनोक्तम् ॥) निर्ज्जनम् ॥ (यथा हितोपदेशे विग्रहे । १५ । “अथ केनापि शस्यरक्षकेण धूसर- कम्बलकृततनुत्राणेन धनुःकाण्डं सज्जीकृत्यावनत- कायेन एकान्ते स्थितम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकान्तम्&oldid=121032" इत्यस्माद् प्रतिप्राप्तम्