एकायनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकायनः, त्रि, (एकं अयनं विषयो यस्य ।) एकाग्रः । एकविषयासक्तचित्तः । इत्यमरः । (यथा छान्दोग्यो- पनिषदि । ७ । ४ । २ । तानि हतानि संकल्पैका- यनानि सङ्कल्पात्मकानि संकल्पे प्रतिष्ठितानि” । एकमयनं गतिर्यत्र । एकामात्रगमनयोग्यः । यदुक्तं महाभारते ३ । १४६ । ६६ । “अनेनैव पथा मा वै गच्छेदिति विचार्य्य सः । आस्त एकायने मार्गे कदलीषण्डमण्डिते” ॥)
