सामग्री पर जाएँ

एकोद्दिष्टम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एकोद्दिष्टम्, क्ली, (एकः प्रेत एव उद्दिष्टो यत्र ।) प्रेतो- द्देश्यकश्राद्धम् । यथा । गोभिलः अथैकोद्दिष्ट- मेकं पवित्रमेकोऽर्घ्यः एकः पिण्डो नावाहनं नाग्नौ- करणं नात्र विश्वे देवाः स्वदितमिति तृप्तिप्रश्नः सुस्वदितमिति प्रत्युत्तरम् । उपतिष्ठतामित्यक्षय्य- स्थाने अभिरम्यतामिति विसर्गोऽभिरतोऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति ॥ * ॥ एतत् प्रेत- श्राद्धमित्युपसंहारात् एकं प्रेतमुद्दिश्य यद्दीयते श्राद्धं तदेकोद्दिष्टमिति वैदिकप्रयोगाधीनं यौगिकम् । अतएव प्रतिसांवत्सरिकस्य नैको- द्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वं अत्रार्घ्यैक्याद्द्विद- लरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्रमिति पुनरभिधानसार्थकत्वाय तदवयवैकदलपरम् । अत्र नावाहनं नाग्नौ करणमिति निषेधयोः पौर्ब्बा- पर्य्यादग्नौ करणपूर्ब्बकालीनं प्रधानसम्बन्धि श्राद्ध- सूत्रोद्दिष्टं श्राद्धार्थावाहनमेव निषिध्यते न त्व- प्रधानसम्बन्धि पितृयज्ञवदित्यतिदेशप्राप्तं पिण्डा- र्थावाहनमिति । एतेन पिण्डार्थावाहननिषेधो मैथिलोक्तो हेयः । अत्राग्नौ करणनिषेधेन हुत- शेषस्यालाभे हुतशेषं दत्त्वा पात्रमालभ्य जपति पृथिवीत्यादि स्वाहा इत्यन्तसूत्रोक्तपात्रालम्भन- स्यापि बाधः । आनन्तर्य्याभावात् अमृतमिति मन्त्रलिङ्गविरोधाच्च । स्वदितमिति तृप्तिप्रश्न इति तृप्ताः स्थ इति तृप्तिप्रश्ने स्वदितमिति प्रश्नः । कुशमयब्राह्मणपक्षे तु प्रतिवचनानुपपत्त्या प्रश्न- स्यापि निवृत्तिः । अक्षय्यशब्दस्थाने उपतिष्ठता- मिति प्रयोगः अत्रोपतिष्ठतामित्यनेन अन्नादिक- मित्यस्यान्वये अस्त्वित्यस्य अन्वयानुपपत्त्या तस्या- प्यप्रयोगः । अतएव पितृदयितायामन्नादिकमुप- तिष्ठतामिति लिखितम् । अभिरम्यतामिति वाजे वाजे इति स्थाने अभिरम्यतामित्यनेन विसर्जन- मिति । एतदिति पूर्ब्बोक्तेतिकर्त्तव्यताकश्राद्धमि- त्यर्थः । प्रेतश्राद्धं प्रेतस्य श्राद्धं न तु पार्ब्बणविकृति- त्वेन प्राप्तपितृलोकरूपपितुः श्राद्धं अकृतसपि- ण्डीकरणस्य तथाविधपितृत्वाभावात् । अतएवै- तन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि पितृ- पर्य्युषितं स्थितम् । दम्पत्योराश्रमस्वामिनोर्भोजना- नन्तरं पाकस्थाल्यामवशिष्टमिति श्राद्धचिन्ता- मणिः ॥ यत्तु देवलवचनम् । “एकोद्दिष्टस्य शेषन्तु ब्राह्मणेभ्यः समुत्सृजेत् । पश्चात् स्वयञ्च भुञ्जीत पुनर्मङ्गलभोजनम्” ॥ इति । तस्यैकोद्दिष्टशेषं ब्राह्मणेभ्यः समुत्सृजेत् न त्ववशेषयेत् पुनर्मङ्गलभोजनं पाकान्तरकृतान्नं भुञ्जीतेत्यन्वय इति ॥ * ॥ तत्करणकालो यथा । ब्रह्मपुराणम् । “पूर्ब्बाह्णे मातृकं श्राद्धमपराह्णे तु पैत्रिकम् । एकोद्दिष्टन्तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्” ॥ मध्याह्ने तु विशेषमाह कालमाधवीये व्यासः । “कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् । आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्” ॥ आवर्त्तनं पश्चिमदिगवस्थितच्छायायाः पूर्ब्बदिग्- गमनारम्भकालः । तत्समीपे कुतपशेषदण्डे । यदाह गोतमः । “आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत्” । तेन पूर्ब्बदिवसीयकुतपरौहिणयोस्तत्तत्तिथेर्लाभे परत्र कुतपमात्रलाभे शुक्लपक्षेऽपि पूर्ब्बदिने एकोद्दिष्टं उभयप्राप्त्यनुरोधात् । पूर्ब्बदिने कुत- पालाभे परत्र तल्लाभे कृष्णपक्षऽपि परदिनएव समाप्तिकालादारम्भकालस्य बलवत्त्वात् । तथा च बौधायनः । “यो यस्य विहितः कालः कर्म्मणस्तदुपक्रमे । तिथिर्याभिमता सा तु कार्य्या नोपक्रमोज्झिता” ॥ उभयत्र कुतपमात्रालाभे शुक्लपक्षेऽपि पूर्ब्बदिने समाप्तिकालानुरोधात् पूर्ब्बदिने रौहिणालाभे परत्र सप्तममुहूर्त्तलाभे कृष्णपक्षेऽपि परदिने मध्याह्नानुरोधात् । इति श्राद्धतत्त्वम् ॥ * ॥ एकोद्दिष्टविधिकसांवत्सरिकश्राद्धम् । यथा, -- “एकोद्दिष्टं पुरावश्यं तद्विशेषं वदे शृणु” । प्रथमं निमन्त्रणं पादप्रक्षालनं आसनं अद्य अमुक- गोत्रस्य मत्पितुरमुकदेवशर्म्मणः प्रतिसांवत्- सरिकमेकोद्दिष्टं श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये श्राद्धकरणानुज्ञापनम् । आसनं अर्घ्यः । गन्धादि- दानं नित्यश्राद्धम् । अन्नसङ्कल्पनं जप्यं निवीती उत्तराभिमुखीभूयातिथिश्राद्धं कुर्य्यात् । ततस्तृप्तिं ज्ञात्वा दक्षिणाभिमुखो वामोपवीती उच्छिष्ट- समीपे ये अग्निदग्धा इति अन्नविकिरणम् । ओ~ अमुकगोत्र मत्पितरमुकदेवशर्म्मन् एतत्ते जल- मवने निक्ष्व ये चात्र त्वामनुयांश्च त्वमनु तसै ते स्वधा । इति रेखोपरि दक्षिणामुखवारिधारादा- नम् । इति गारुडे २२३ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--to be performed every year; for this only three पिण्डस् are prescribed; details of ritual. M. १८. 1 & २५; Vi. III. १३. २३, ४०.

"https://sa.wiktionary.org/w/index.php?title=एकोद्दिष्टम्&oldid=427004" इत्यस्माद् प्रतिप्राप्तम्