एज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एज, ऋ ङ दीप्तौ इति कविकल्पद्रुमः ॥ (भ्वादिं- आत्मं-अकं-सेट् ।) ऋ मा भवान् एजिजत् । ङ एजते । इति दुर्गादासः ।
एज, ऋ कम्पे । इति कविकल्पद्रुमः । (भ्वादिं-परं-सकं सेट् ।) ऋ मा भवान् एजजित् । एजति वायुना वृक्षा । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एज¦ कम्पने भ्वा॰ आत्म॰ अक॰ सेट्। एजते ऐजिष्ट एजां-बमूव आस चक्रे। एजकः एजितव्यः एजिता। एजितःएजमानः एजनम् णिच्। एजयति जनमेजयः।
“क्षुद्र-मन्त्रमत एजयतेऽक्षिणी मे” भाग॰
५ ,
२ ,
१५ । वेदे गण-व्यत्यासः।
“एजतु दशमास्यो गर्भः” यजु॰,
२८ अथास्यमध्यमेजतु”
२३ ,
२७ मुष्का विदस्या एजतो गोशफ”
२३ ,
२८ ।
“उदेजति पतति यस्य तिष्ठति” अथ॰
२०
८१
१ ,
१ ।
“सुखेन वृष्णिरेजति” ऋ॰
१ ,
१० ,
२ उदङ्ङेजत्यन्तरा वा एतदाहबनीयम्” श॰ ब्रा॰
१ ,
५ ,
१ ,
२५ क्वचिल्लोके तथा।
“शतान्यशीतिरष्टौ च सहस्राणि चविंशतिः। सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति” भा॰ आ॰
८० अ॰
“त्वत्तःपरं नापरमप्यनेजदेजच्च कि-ञ्चिद् व्यतिरिक्तमस्ति” भाग॰
७ ,
३ ,
३० । बलीपलितएजत्कः” भाग॰
६ ,
९ ,
४२ , एजत्कः कम्पमानशीर्षः” अप + अपगमने एङि पररूपम् अपेजते। क्वचिदन्तर्भूत-ण्यर्थेऽपि।
“अपेजते शूरो अस्तेव शत्रून्” ऋ॰
६ ,
६४ ,
३
“शत्रून् अपेजते अपगमयति भा॰। उद् + ऊर्द्ध्व-गतौ उदेजते।
“उदेजतु प्रजापति र्वृषा शुष्मेण वाजिनाअथ॰
४ ,
४ ,
२ ,
“उदेजयान् भूतगणान्न्यषेधीत्” भट्टिः। प्र + प्रकर्षचलने पररूपम् प्रेजते। सम् + सङ्गतौ निय-मेन चलने
“एवेदनु द्यून् किरण॰ समेजात्” ऋ॰
१० ,
२७ ,
५ ।
“समेजात् नियमेन प्रयाति” भा॰। [Page1535-a+ 38]
एज¦ दीप्तौ भ्वादि॰ पर॰ अक॰ सेट्। एजति ऐजीत्। एजाम्-बभूव आस चकार। एजन्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एज¦ r. 1st cl. (ऋ) (एजृ) (एजते) To shine. (एजति) To shake or tremble.
