सामग्री पर जाएँ

एडूक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एडूकम्, क्ली, (ईड्यते इति । “उलूकादयश्च” ४ । ४१ । उणादिसूत्रेण साधु ।) अन्तर्न्यस्तकीकसकुड्यम् । इत्यमरः ॥ कीकसमिव कीकसं यत् कुड्यम् छिटा- वेडा इति ख्यातमित्यन्ये । इति सारसुन्दरी ॥ कीकसमस्थि एतत् काष्ठादिकठिनद्रव्योपलक्षणं कीकसमिव कीकसं किलिञ्जादीति मधुः ॥ “मध्यसंस्थापितास्थ्यादि कुड्यमेडूकमुच्यते” । इति माधवः ॥ (यथा महाभारते वनपर्ब्बणि । “एडूकचिह्ना पृथिवी न देवगृहभूषिता” ॥ अस्य शब्दस्य पुंस्त्वमपि दृश्यते महाभारते ३ । १९० । ६३ । यथा, -- “एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः । शूद्राः परिचरिष्यन्ति न द्विजान् युगसंक्षये” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एडूक नपुं।

अस्थ्यादिमयभित्तिः

समानार्थक:एडूक

2।2।4।1।3

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्. गृहं गेहोदवसितं वेश्म सद्म निकेतनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एडूक (and एडुकL. ) m. ( n. L. )a building constructed of or enclosing rubbish or bones or hard substances resembling bones , a Buddhist shrine (filled with relics) MBh. (See. बुद्धै-डूक).

"https://sa.wiktionary.org/w/index.php?title=एडूक&oldid=251403" इत्यस्माद् प्रतिप्राप्तम्