सामग्री पर जाएँ

एरण्डः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एरण्डः पुं, (एरयति वायुम् । आ + ईर गतौ कम्पने च + बाहुलकात् अण्डच् ।) वृक्षविशेषः । भेरेण्डा इति भाषा । तत्पर्य्यायः । व्याघ्रपुच्छः २ गन्धर्व्व- हस्तकः ३ उरुवूकः ४ रुवूकः ५ चित्रकः ६ चञ्चुः ७ पञ्चाङ्गुलः ८ मण्डः ९ वर्द्धमानः १० व्यडम्बकः ११ । इत्यमरः ॥ उरुवुकः १२ रुवुकः १३ रूवुकः १४ रुवकः १५ वुकः १६ अमण्डः १७ आमण्डः १८ व्यडम्बनः १९ । इति तट्टीकायां भरतः ॥ कान्तः २० तरुणः २१ शुक्लः २२ वातारिः २३ दीर्घपत्रकः २४ । इति राजनिर्घण्टः ॥ अस्य तैलस्य गुणाः । मधुरत्वम् । गुरुत्वम् । अतिश्लेष्म- वर्द्धनत्वम् । वातरक्तगुल्महृद्रोगजीर्णज्वरनाशि- त्वञ्च । इति राजवल्लभः ॥ अपि च । कृमिदोष- सकलाङ्गशूलकुष्ठनाशित्वम् । स्वादुत्वम् । रसाय- नोत्तमत्वम् । पित्तप्रकोपनत्वम् । अतिदीपनत्वम् । आमवातनाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्य भेदकत्वगुणोऽप्यस्ति ॥ श्वेतैरण्डगुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफार्त्तिज्वरवायुकासना- शित्वम् । रसार्हत्वञ्च । इति राजनिर्घण्टः ॥ अस्य मूलगुणाः । शूलवायुकफनाशित्वम् । शुक्रकारित्वञ्च । इति राजवल्लभः ॥ (शुक्लरक्तैरण्डयोः पर्य्यायगुणा यथा, -- “शुक्ल एरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः । पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः । वातारिस्तरुणश्चापि रुवूकश्च निगद्यते ॥ रक्तोऽपरो रुवुकः स्यादुरुवूको रुवूस्तथा । व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ॥ एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् । शूलशोथकटीवस्तिशिरःपीडोदरज्वरान् ॥ व्रध्नश्वासकफानाहकासकुष्ठाममारुतान् । एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् ॥ मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपनम् । वातार्य्यग्रदलं गुल्मं वस्तिशूलहरं परम् ॥ कफवातक्रिमीन् हन्ति वृद्धिं सप्तविधामपि । एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ॥ यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् । तद्वन्मज्जा च विड्भेदी वातश्लेष्मोदरापहः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “सतिक्तोषणमेरण्डतैलं स्वादु सरं गुरु । व्रध्नगुल्मानिलकफानुदरं विषमज्वरम् ॥ रुक्शोफौ च कटीगुह्यकुष्ठपृष्ठाश्रयाञ्जयेत् । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवन्त्विति” ॥ इति शार्ङ्गधरस्य पूर्ब्बखण्डे चतुर्थेऽध्याये ॥ “एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटुकषा- यानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुर- विपाकं वयःस्थापनं योनिशुक्रविशोधनमारो- ग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोमाग- दोषहरञ्च” ॥ इति सुश्रुते सूत्रस्थाने पञ्चचत्वारिंशत्तमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एरण्डः [ēraṇḍḥ], The castor-oil plant; (a small tree with a scanty number of leaves); and hence the proverb: निरस्तपादपे देशे एरण्डो$पि द्रुमायते. -ण्डा Long pepper.-Comp. -पत्रिका, -फला the plant Croton Polyandrum (दन्तीवृक्ष).

"https://sa.wiktionary.org/w/index.php?title=एरण्डः&oldid=251757" इत्यस्माद् प्रतिप्राप्तम्