सामग्री पर जाएँ

एरण्डज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एरण्डजम्, त्रि, (एरण्डात् एरण्ड्वृक्षात् जायते इति । एरण्ड + जन् + ड ।) एरण्डवृक्षजातम् । तत्तैलं स्नेहमध्ये श्रेष्ठविरेचकम् । यथा । “चूर्णमध्ये त्रिवृत्चूर्णं स्वोरसे कारवेल्लकम् । स्नेहेष्वेरण्डजं तैलं फलेष्वेव हरीतकी” ॥ इति वाभटः ॥ (“एरण्डजं घनञ्चापि स्वादुमेव मृदु स्मृतम् । हृद्वस्तिजङ्घाकट्यूरुशूलानाहविबन्धनुत् ॥ आनाहाष्ठीलवान्तासृक्प्लीहोदावर्त्तशूलिनाम् । वातपित्तविकाराणां विदध्याच्च प्रशान्तये । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डसमुद्भवम्” ॥ इति प्रथमस्थाने अष्टमेऽध्याये हारीतेनोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=एरण्डज&oldid=121188" इत्यस्माद् प्रतिप्राप्तम्