सामग्री पर जाएँ

एर्व्वारुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

एर्व्वारुः, पुं, (एरणमिति । आ + ईर् + सम्पदादि- त्वात् क्विप् । एरं वृणोति वारयति वा । वृञ् + बाहुलकात् उण् ।) कर्कटीभेदः । तत्पर्य्यायः । व्यालपत्रा २ लोमशा ३ स्थूला ४ तोयफला ५ हस्तिदन्तफला ६ कर्कटी ७ । अस्य गुणाः । पित्त- हरत्वम् । सुशीतलत्वम् । मधुरत्वम् । मूत्रामय- घ्नत्वम् । रुचिप्रदत्वम् । सन्तापमूर्च्छापहरत्वम् तृप्तिदातृत्वम् । अतिसेवितश्चेत् वातप्रकोपका- रित्वञ्च । इति राजनिर्घण्टः ॥ (“एर्व्वारुकं स्वादु शीतं सक्षारं कफवातकृत् । नातिपित्तकरं रुच्यं दीपनं दाहनाशनम्” ॥ इति प्रथमस्थाने दशमेऽध्याये हारीतेनोक्तम् ॥ “त्रपुषैर्व्वारुकं स्वादु गुरु विष्टम्भि शीतलम् । एर्व्वारुकञ्च सम्पक्वं दाहतृष्णाक्लमार्त्तिनुत्” ॥ इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=एर्व्वारुः&oldid=121200" इत्यस्माद् प्रतिप्राप्तम्