एलबालुक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एलबालुकम्, क्ली, (एलबालु + स्वार्थे कन् ।) सुगन्धि- द्रव्यविशेषः । लालुका इति ख्यातम् । तत्पर्य्यायः । ऐलेयम् २ सुगन्धि ३ हरिबालुकम् ४ बालुकम् ५ इत्यमरः ॥ हरिवासुकम् ६ । इति तट्टीका ॥ आलु- कम् ७ एल्वबालुकं ८ कपित्थत्वक् ९ गन्धत्वक् १० कुष्ठगन्धि ११ । अस्य गुणाः । अत्युग्रत्वम् । कषा- यत्वम् । कफवातमूर्च्छातिज्वरदाहनाशित्वम् । परमरुचिकारित्वञ्च । इति राजनिर्घण्टः ॥ कक्कोलसदृशं कुष्ठगन्धि ॥ अस्य पर्य्यायगुणाः ॥ “एलबालुकमैलेयं सुगन्धि हरिबालुकम् । ऐलबालुकमेलालु कपित्थं पत्रमीरितम् ॥ एल्वालु कटुकं पाके कषायं शीतल लघु । हन्ति कण्डूव्रणच्छर्द्दितृट्कासारुचिहृद्रुजः ॥ बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन्” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
