एहीड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एहीड¦ न॰ एहि ईडे इत्युच्यते यस्मिन् कर्मणि मयूर॰नि॰। एहि ईडे इत्युच्यते यस्मिन् कर्मणि तादृशेकर्मणि एवं एहिकटा एहिबाणिजका एहिद्वितीयाएहिस्वागता एहिविघसा इत्यादयोऽपि तत्तत्क्रियायाम्स्त्री एहियवं तु तत्कर्म्मणि न॰ इति भेदः। इति वाचस्पत्ये एकारादिशब्दार्थसङ्कलनम्। [Page1543-a+ 36] ऐऐकारः स्वरवर्णभेदः एदैतौ कण्ठतालव्यावित्युक्तेः कण्ठ-तालुस्थानयोरुच्चार्य्यः। स च दीर्घः द्विमात्रत्वात् प्लुतस्तुत्रिमात्र इति भेदः। द्विमात्रस्य उदात्तानुदात्तस्वरित-भेदैः प्रत्येकमनुनासिकाननुनासिकभेदाभ्याञ्च षड्विधः एवंप्लुतस्यापीति द्वादशविधः। तन्त्रे तस्य वाचकशब्दा उक्तायथा।
“ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः। दक्षा दामोदरः प्रज्ञो धरो विकृतमुख्यपि। क्षमात्मको-जगद्योनिः परः परनिबोधकृत्। ज्ञानामृता कपर्द्दिश्रीःपीठेशोऽग्निः समातृकः। त्रिपुरा लोहिता राज्ञी वाग्-भवो भौतिकासनम्। महेश्वरी द्वादशी च विमलश्च सर-स्वती। कामकोटो वामजानुरंशुमान् विजयो जटा”।
“ऐकारः कोठराक्षी च मालिन्युन्मत्तभैरवी” इति च वर्णा-भिधा॰। मातृकान्यासेऽधरोष्ठे न्यस्यत्वात् तच्छब्दा-भिधेयता। तस्य ध्येयरूपं काभधेनुत॰ उक्तं यथा
“ऐकारं परमं दिव्यं महाकुण्डलिनीं स्वयम्। कोटि-चन्द्रप्रतीकाशं पञ्चप्राणमयं सदा। ब्रह्मविष्णुमयं वर्ण्णंतथा रुद्रमयं प्रिये!। सदाशिवमयं वर्णं विन्दुत्रय-समन्वितम्”। तपरत्वे कारपरत्वे च तत्स्वरूपपरः।
