औदार्य्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदार्य्यम्, क्ली, (उदारस्य भावः । उदार + ष्यञ् ।) उदारता । इति हेमचन्द्रः ॥ (वाग्गुणभेदः । यथा किराते १ । ३ ॥ “स सौष्ठवौदार्य्यविशेषशा- लिनोम्” इति “औदार्य्यं अर्थसम्पत्तिः” इति मल्लिनाथः ॥ सात्त्विको नायकगुणभेदः । यथा साहित्यदर्पणे ३ । ५८ । “शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी । ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः” ॥ तल्लक्षणं यथा तत्रैव ३ । ६३ । “दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता” ॥ नायिकालङ्कारभेदः । यथा, तत्रैव ३ । ९४ । “यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः” ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता । औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः” ॥ तल्लक्षणं यथा तत्रैव ३ । १०३ । “औदार्य्यं विनयः सदा” ॥ अस्य उदाहरणं यथा तत्रैव । “न ब्रूते परुषां गिरं वितनुते न भ्रूयुगं भङ्गुरं नोत्तंसंक्षिपति क्षितौ श्रवणतः सा मेस्फुटेऽप्यागसि कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या वहिः सख्या वक्त्रमभिप्रयच्छति परं पर्य्यश्रुणी लोचने” ॥ मनसो वृत्तिभेदः । यथा पञ्चदशी । १५ । ३ । “शान्ता धोरास्तथा मूढा मनसो वृत्तयस्त्रिधा । वैराग्यं क्षान्तिरौदार्य्यमित्याद्या घोरवृत्तयः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदार्य्य¦ न॰ उदारस्य भावः गुणवचनत्वात् ष्यञ्। उदा-रतायाम्।
“औदार्य्यञ्च नायकयोरयत्नसिद्धसात्विकाल-ङ्कारविशेषः। यथाह सा॰ द॰
“शोभा कान्तिश्च दीप्तिश्चमाधुर्य्यञ्च प्रगल्भता। औदार्य्यं धैर्य्यमित्थेते सप्तैव स्युर-यत्नजाः” इति विभज्य।
“औदार्य्यं विनयः सदेति” लक्षितम्। सात्विकपुरुषगुणभेदश्च यथाह तत्रैव।
“शोभा विलासो माधुर्य्यं गाम्भीर्य्यंधैर्य्यतेजसी। ललि-तौदार्य्यमित्यष्टौ सत्वजाः पौरुषागुणाः” इति विभज्य।
“दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समतेति” लक्षितम्।

२ वाक्यस्यार्थसम्पत्तौ च।
“ससौष्ठवौदार्य्य विशेष-शालिनीं विनिश्चितार्थामिति वाचमाददे” किरा॰।
“औ-दार्य्यमर्थसम्पत्तिः” मल्लि॰। तच्च वाग्गुणभेदः
“संस्का-रवत्त्वमोदीर्य्यमित्यादिना” हेमच॰ वाग्गुणदर्शने उक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदार्य्य¦ n. (-र्य्यं) Magnanimity, generosity, greatness. E. उदार liberal, and ष्यञ् aff.

"https://sa.wiktionary.org/w/index.php?title=औदार्य्य&oldid=254067" इत्यस्माद् प्रतिप्राप्तम्