औपगवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपगवः, पुं, उपगोरपत्यम् । इति भरतः ॥ उप समीपे गौर्य्यस्य इति उपगुर्गोपः । लक्षणया तत्पुरोहिते उपगुशब्दः । यथा हारीतः । “यं वर्णं याजयेद् यस्तु स तद्वर्णत्वमाप्नुयात् सद्योवर्षेण वर्षैश्चेत्वेवमेवाब्रवीद्भृगुः” ॥ * ॥ तथाच लक्षणया ब्राह्मण उपगुपदवाच्यः । तस्यापत्य- भौपगवः । इति श्रीभागवतटीकायां स्वामी । (उपगोरिदमिति व्युत्पत्त्या उपगुसम्बन्धिनि, त्रि- उपगु + “तस्येदम्” । ४ । ३ । १२० । इत्यण् ॥)

"https://sa.wiktionary.org/w/index.php?title=औपगवः&oldid=121624" इत्यस्माद् प्रतिप्राप्तम्