औपसर्गिकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औपसर्गिकः, पुं, (उपसर्ग + ठक् ।) सन्निपातरोग- विशेषः । तस्य लक्षणम् । यथा, -- “कफोऽनुलोमवातेन यदि पित्तानुगो भवेत् । स्वेदशैत्यादिभिर्जुष्टस्तदा भवति मानवः ॥ प्रतिलोमः पुनस्तेन स्वास्थ्यमायाति तत्क्षणात् । औपसर्गिक एवान्यः सन्निपात उदाहृतः” ॥ इति वैद्यकम् ॥ उपसर्गसम्बन्धिनि त्रि ॥ (“तत्रौपसर्गिको यः पूर्ब्बोत्पन्नंव्याधिं जघन्यकाल- जातो व्याधिरुपसृजति स तन्मूलएवोपद्रव- संज्ञः” । इति सुश्रुते सूत्रस्थाने । ३५ अध्याये ॥ “प्रसङ्गात् गात्रसंस्पर्शान्निश्वासात् सहभोजनात् । सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ॥ कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च । औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्” ॥ इति च सुश्रुते निदानस्थाने । ५ अध्याये ॥ माधवसंग्रहस्य व्याख्यायां कुष्ठाधिकारे यथा । “औपसर्गिकरोगा इति औपसर्गिकाः पापरोगा- दयो भूतोपसर्गजाः संक्रामन्ति आविशन्ति” ॥)
